श्रीकृष्ण उवाच ॥
अन्यामपि प्रवक्ष्यामि शोभनां शुभसप्तभीम् । यामुपोष्य नरो रोगाच्छोकदुःखात्प्रमुच्यते ॥१॥
पुण्य आश्वयुजे मासि कृतस्नानः पयःसु हि । वाचयेत ततो विप्रानारमेच्छुभसप्तमीम् ॥२॥
कपिलां पूजयेद्भक्त्या गन्धमाल्यानुलेपनैः । नमामि सूर्यसंभूतामशेषभुवनालयाम् ॥३॥
त्वामहं शुभकल्याणशरीरां सर्वसिद्धये । अथाहृत्य तिलप्रस्थं तास्त्रप्राव्रेण संयुतम् ॥४॥
काञ्चनं वृषभं तद्वद्वस्त्रमाल्यगुडान्वितम् । दद्याढ्रद्विकालवलायामर्यमा प्रीयतामिति ॥५॥
पञ्चगव्यं च संप्राश्य स्वपेद्भमौ विमत्सरः । ततः प्रभाते संजाते भक्त्या संतर्ययेद् द्विजान् ॥६॥
अनेन विधिना दद्यान्मासि मासि सदा नरः । वाससी वृषभं हैम तद्वद्धेनोस्तु पूजनम् ॥७॥
संवत्सरान्ते शयनमिक्षुदण्डगुडान्वितम् । सोपधानकविश्रामं भाजनासनसंयुतम् ॥८॥
ताभ्रपाव्रं तिलप्रस्थं सौवर्णवृषसंयुतम् । दद्याद्वेदविदे सर्वं विश्वात्मा प्रीयतामिति ॥९॥
अनेन विधिना राजन्कुर्याद्यः शुभसप्तमीम् । तस्य श्रीर्विमला कीर्तिर्भदेज्जन्मनि जन्मनि ॥१०॥
अप्सरोगणगन्धर्वैः पूज्यमानः सुरालये । वसेद्नणाधिपो भूत्वा यावदाभूतसंप्लवम् ॥११॥
संकल्पादवलीर्णस्तु सप्तद्वीपाधिपो भवेत् । ब्रह्महत्यासहखस्य भ्रूणहत्याशतस्य च ॥१२॥
नाशङ्करोति पुण्येयं कृता वै शुभसप्तमी ॥१३॥
इमां पठेद्यः शृणुयान्मूहूर्तं पश्येत सङगादपि दीयमानम् । सोऽप्यव्र संबोध्य विमुक्तदेहः प्रान्पोति विद्याधरनायकत्वम् ॥१४॥ [ २०४४ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शुभसप्तमीव्रतनिरूपणं नामैकपञ्चाशत्तमोऽध्यायः ॥५१॥