युधिष्ठिर उवाच ।
अहं त्वागस्करः पापः पृथिवीक्षयकारकः । परिपुच्छामि गोविन्द त्वां नमस्कृत्य पादयोः ॥१॥
गृह्यद्नुह्यतरं बूहि व्रतं किञ्चिदनुत्तमम् । तरामि येन पापौघं भीष्मद्रोणवधार्णवम् ॥२॥
श्रीकृष्ण उवाच ॥ आसीत्पुरोत्तरो नान्मा विदर्भायां कुशध्वजः । सान्तःपुरसुतो यश्व चक्रे राज्यमतन्द्रितः ॥३॥
जघान तापसं सोऽथ प्रमादान्मृगयां गतः । मृगं मत्वा महारण्ये ब्राह्मणं दैवमोहितः ॥४॥
तेन कर्मविपाकेन देहान्ते नरकं गतः । तव्रासौ यातना घोरा अनुभूयातिपीडितः ॥५॥
तस्मादिहागता मर्त्ये रौद्रो विषधरोऽभवत् । अदशत्सोपि राजेन्द्र ब्राह्मणं चरणे रुषा ॥६॥
लब्ध्वा सह च पञ्चत्वं जगाम द्विजसंयुतः । विपन्नस्तु ततः सिंहो द्वितीयेऽभूत्सुदारूणः ॥७॥
विदारितमुखो हिंस्त्रो नानासत्त्वभयङ्करः । जघानासौ पुनः श्रेष्ठं राजन्यं मृगयागतम् ॥८॥
ततोऽपि बहुभिः शस्त्रै राजलोकैर्निपातितः । पुनर्व्यान्घो बभूवासौ तृतीयेऽपि भवान्तरे ॥९॥
तीक्ष्णपादनखाघातव्यापादितमृगान्वयः । तेनापि वैश्यो निधनं नीतः किञ्चिद्वनान्तरम् ॥१०॥
स नीतः कृमिराशित्वं लोकैः खातनिपातनात् । संजातस्तु महावृक्षो नखराहतजन्तुरुक् ॥११॥
जघान बाल चण्डालदसौ मृत्युमवान्पुयात् । पञ्चमे मकरो जातः समुद्रेऽतिभयङ्करः ॥१२॥
स्त्रियंजधान तरुणीं स्त्रातुकामामथागताम् । प्रभाते शङ्क स्याग्रे शशाङ्कग्रहणे निशि ॥१३॥
तव्रापि बडिशं दत्त्वा जनैः प्राणैर्वियोजितः । पुनः षष्ठे भवे जातः पिशाचः पिशिताशनः ॥१४॥
क्रूरश्छिद्रपर क्षुद्रो नरप्राणवियोजकः । सोऽवतीर्णो नरस्याङ्गं कर्षयामास कस्यचित् ॥१५॥
मन्व्रेणाहूय सिद्धेन बलात्तेन व्यसुः कुतः । सष्टमे स पुनजीतो दुर्निरीक्ष्यवपुर्भुशम् ॥१६॥
क्रूरद्ष्ट्रः करालास्यो मांसशोणितभोजनः । दिग्वासा मनुभूमीषु वासिष्ठो ब्रह्मराक्षसः ॥१७॥
स राष्ट्रं जर्ज शून्य सर्वं चक्रे विषादिषु आक्रम्य भीमदासेन राज्ञा राक्षसशव्रुणा ॥१८॥
समारोप्य धनुः संख्ये ब्र्ह्मास्त्रेण निपातितः । भूयोऽभवह्यान्घसमः स्वजन्मन्यष्टमे भुवि ॥१९॥
वनेचतणां कुद्धाङ्गो ब्राह्मणान्निधनं गतः । ततो हस्ती च भल्लूको हवः केन धनुष्मता ॥२०॥
एकादशेऽपि पाञ्चालो भवमध्येऽतिभीषणः । ऊर्ध्वकेशोतिरक्ताक्षो जातो ह्रस्वतनुर्द्दढः ॥२१॥
पापो धर्मध्वजो रक्षो देवतोज्झितमाल्यधृक । स दण्डपाशिकनैव वृक्षाग्रे ह्यवलम्बितः ॥२२॥
द्वादशे स पुनर्जातः पुष्कलक्लेशभाजनः । मक्ष्यलोभाद्विलगतो व्याधेन विनिपातितः ॥२३॥
तेन चासीत्कृत पूर्वं तारकद्वादशीव्रतमतस्य प्रभावाज्जातोपि दुष्टयोनौ पुनः पुनः ॥२४॥
अवार शीन्घं पञ्चत्वं संसारभवसागरे पुनरेवाभवद्राजा विदर्भायां सुधार्मिकः ॥२५॥
भूयश्वोपोषिता तेन तारकद्वादशी शुभा । पश्यतां व्रतमाहात्म्यं जातो जातः पुनः पुनः ॥२६॥
व्रतप्रभावाद्भुवने भुक्त्वा राज्यकण्टकम् । प्राप विष्णुपुरे स्थानं यावदाभूतसप्लवम् ॥२७॥
युधिष्ठिर उवाच ॥ कथमेतदव्रतं कृष्ण कर्तव्यं पुरुषोत्तभैः । स्त्रीभिर्वा भर्तृवाक्येन स्त्रानदानजपादिकम् ॥२८॥
श्रीकृष्ण उवाच ॥ मार्गशीर्षे सिते पक्षे गृहीत्वा द्वादशीव्रतम् । अकृव्रिमे जले स्त्रानमपराह्ले समाचरेत् ॥२९॥
प्रणम्य भास्करायाथ कृत्वा देवार्चनं तथा । होमंच तावत्स्थातव्यं यावदस्तमितो रविः ॥३०॥
ततो भुक्त्वा फलैः पुष्पैर्गन्धधूपविलेपद्धैः । सजलं साक्षतं कृत्वा सहिरण्यं शुभैः फलैः ॥३१॥
रम्यै तास्त्रमये पाव्रे जानुभ्यां धरणीं गतः । पूर्वामुखः प्रदोषाग्रे मूर्न्घि कृत्वार्घ्यभाजनम् ॥३२॥
भूमौ तु मण्डल कृत्वा गोमयैन सतारकम् । चन्दनेन समालिख्य घ्रुव हि गगनोन्मुखः ॥३३॥
सहखशीर्षामन्व्रेण भूमौ शक्त्या शनैः स्वयम् । तारकाणां कुरुश्रेष्ठ दद्यादर्घ्यमतन्द्रितः ॥३४॥
पर्युक्ष्य धूममुत्क्षिप्य दद्याद्विप्राय दक्षिणाम् क्रमण सर्वं निर्वर्त्य भोज्यं भोज्यं निशागमे ॥३५॥
मार्गशीर्षे खण्डखाद्यं पौषे सोहालक तथा । तिलतण्डुलकं माघे गुडापूपं च फाल्गुने ॥३६॥
मोदकांश्वैव्रमासे तु वैशाखे खण्डवेष्टकम् । ज्यष्टे सक्तभृतैः पाव्रैराषढ गुडपूरिकैः ॥३७॥
श्राणने मधुशीर्षेण नभस्ये पायसेन च । घृतपर्णैश्वाश्वयुजे कांसारैः कार्तिके क्रमात् ॥३८॥
एभिर्द्वादशभिर्वर्षैर्भोजयित्वा द्विजान्स्वयम् । भुञ्जीत भक्त्या राजेन्द्र पश्वद्देवं क्षमापयेत् ॥३९॥
समाप्ते तु व्रते कृत्वा राजतं तारकागणम् । द्दष्टवा वा पूर्वविपिना पूजयित्वा क्षमापयेत ॥४०॥
कुम्भा द्वादश दातव्याः सोदका मोदकाश्रिताः । ब्राह्मण्यां परिधानं च पद्मरागं सकञ्चकम् ॥४१॥
ब्राह्मणे वल्गु लल्लाट लक्षपुष्पोपशोभितम् । चालकेनोपवीतं च पुष्पं दत्त्वा क्षमापयेत् ॥४२॥
अनेन विधिना राजन्यः करोति व्रतं नरः । नरी वा भरतश्रेष्ठ भक्तिभावपुरःसरा ॥४३॥
नक्षव्रलोकं व्रजति विमानेनार्कवर्चसा । अप्प्तरोगणगन्धर्वयक्षविद्याधरामरैः ॥४४॥
सहस्त्रभर्ता स्वर्लोके पूज्यमानो दिवाकरैः । वसेत्कल्पायुतं यावत्पुनर्विष्णुपुरं व्रजेत् ॥४५॥
एतद्व्रत पुरा चीर्णं शच्या राज्ञ्या श्रियोमया । सीतया दमयन्त्या च रुक्मिण्या सत्यभामया ॥४६॥
मेनया रम्भया स्वर्गे उर्वश्या देवदत्तया । अन्याभिरपि नारीभिः पुरुषैश्व पुथग्विधैः ॥४७॥
चीर्णमैतदव्रत पार्थ सर्वपापभयापहम् ॥४८॥
जन्मान्तरेष्वपि कृतानि हरत्याघानि या संदहत्यहरहः सुकृप्तोपयोगात् । सा द्वादशी जगति तारकनामधेपा तन्नास्ति यन्न विदधाति कृता मनुष्यैः ॥४९॥ [ १६४९ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे तारकद्वादशीव्रतं नाम पञ्चषमष्टितमोऽध्यायः ॥६५॥