श्रीकृष्ण उवाच ॥
राजा संवरणः पूर्व मतिष्ठानेः पुरोसमे । बभूव स महाभागः शास्त्रार्थ कुशलो बली ॥१॥
ब्रह्मण्यः पितृभक्तश्व देवब्राह्मणपूजकः । तस्याथ कुर्वतो राज्यं सम्यक्पालयतः प्रजाः ॥२॥
आजमाम हायोगी सनको ब्रह्मणः सुतः । दत्वा तस्यासनं । राजा । प्रणम्य । शिरसा तथा ॥३॥
पूजयित्वार्ष्यषाद्याचैरामानं विनिवेद्य च इतिहासपुराणोक्ताश्वकार विविधाः कथाः ॥४॥
राजर्षीणां पुराणां च चरितानि यथार्थवित् । ततः कथांतरे राजा कार्य मनसि संस्थितम् ॥५॥
हिताय पृथिनीशानां जयतश्वात्मनस्थता । प्रषच्छ विनचोपतो चोमाचार्य महामतिः ॥६॥
संवाण उवाच ॥
भ्रमवण्महदुत्पाससंभवे भूण्कंयने । निर्धाते पांशुवर्षे च गृहभंगे तथैवच ॥७॥
जन्मनक्षप्रषी डासु अमावृविषयेतु च । न्दारासुग्रहपौडातु दुर्भिक्षे राष्ट्रविग्रहे ॥८॥
व्याधीनां संभवे जातेशरीरे चाति पीडिते । क्लेशे महति चोत्पजे किं कर्तव्यं मरोसम ॥९॥
स्वर्गस्य साधनं पद्म कीर्तिदं धमदं तथा । प्रवूहि मे द्विजश्रेष्ठ तथारोग्यप्रदं नृषाम ॥१०॥
सनसकुमार उवाच ।
श्रृणु राजन्मवक्ष्यामि शांतिकम ह्यनुत्तमम् । कोटिहोमख्यनतुकं सर्वकामफष्ठप्रदमं ॥११॥
ब्रह्महत्वादिपापानि येन नश्यंति तत्क्षवाम् । उश्वाताः प्रशनं यांति महत्संण्पते सुखम् ॥१२॥
विदानं तस्य वक्ष्यामि शुद्धुष्वैकमना भव । देवागारे नदींतीरे वने वा भवनेषि वा ॥१३॥
पर्वते वापि कुर्वीत य इच्छेत्क्षेममात्मनः । शुभनक्षत्रयोगे च वारे पूर्वगुणान्विते ॥१४॥
यजमानस्यानुकूले कोटिहोमं समाचरेत् । पूजयित्वा प्रयत्नेन ब्राह्मणं वेदपारगम् ॥१५॥
वस्त्रैर्विभूषणैश्वैव गंधमा यानुलेपनैः । प्रणम्य विधिवत्तस्मै आत्मानं विनिवेदयेत ॥१६॥
त्वं नो गतिः पिता साता त्वं गतिस्त्वं परायणः । त्वत्प्रसादेन विप्रर्षे सर्व मे स्यान्मनोगतम् ॥१७॥
आपद्विमोक्षाय च मे कव्ह यज्ञामनुत्तमम् । कोटिहोमार्थ मतुलं शांत्यर्थ सार्वकामिकम् ॥१८॥
पुरोहितस्ततः प्राज्ञ शुल्कांवरधरः शुचिः । प्राह्मणैर्वेदसंघृत्तैः पुण्यैर्युक्तः समाहितैः ॥१९॥
भूमिभागे समे शुद्धे प्रागुदक्प्रवणे तथा । पुण्याहं वाषवेत्पूर्व कृत्वा विप्रान्सुपूजितान् ॥२०॥
ततस्तु महितैर्विप्रः सूत्रयेन्मष्वुपं शुभम् । उत्तमं शतह तं तु तदर्धेन तु मध्यमम् ॥२१॥
जधन्यं तु तदर्द्धेन शक्तिकालाद्यपेक्षया । मध्ये तु मण्डपस्यापि कुंडं र्यादिश्वक्षणः ॥२२॥
अष्टहस्तप्रमाणेन आयामेन तथैव च । मेखलात्रितयं तस्थ द्वादशाड्गुलविस्तुतम् ॥२३॥
तत्प्रमाणां तथा योनिं कुर्वीत सुसमाहितः । कुंडस्य पूर्वभागे तु वेदिं कुर्याद्विचक्षणः ॥२४॥
चतुर्हस्तौ समां चैव हस्तमात्रोच्छ्रितां नृष । स्थानं तत्सर्वभूतानां कुर्याद्यत्नेन बुद्धिमान् ॥२५॥
उपलिप्य ततो भूमिं मंडपस्य समीपतः । विम्वसेत्कलशांस्तत्र जलपूर्णाश्वसुर्दश ॥२६॥
अश्वत्थप्लक्षचूताद्यैः पल्लवैरुपशोभितान् । वितानमुषरिष्टाच्च मंडपस्य प्रकल्पयेत् ॥२७॥
स्थापयेद्दिक्षु सर्वाभु तोरणानि विचक्षणः । एवं संभृतसंभारैः पुरोधाः सुसमाहितः ॥२८॥
पुण्याहजयघोषेणहोसकर्मसमारभेत् । स्वाययित्वा सुरान्वेद्यां वक्ष्यमाणानरिंदम् ॥२९॥
ब्रह्माणं पूर्वभागे तु मध्ये देवं जनार्दनाम् । पश्चिमे तु तथा रुद्रं वसूनुत्तरतस्तथा ॥३०॥
ऐशान्यां च ग्रहान्सर्वानाग्रेय्यां मरुतस्तथा । वायुं सौम्यां तथैशान्यां लोकपालान्क्रमेण तु ॥३१॥
एवं संस्थाप्य विबुधान्यथा स्थानं नृपोत्तम् । पूजयेद्विधिवद्वस्त्रगन्धमाल्यानुलेपनैः ॥३२॥
वेदोक्तमंत्रैस्त्रल्लिंङ्गैः पुराणोक्तैः पृथक्पृथक् । आदित्या वसवो रुद्रा लोकपालास्तथा ग्रहा ॥३३॥
ब्रह्माजनार्दनश्वैव शूलपाणिर्भगाक्षिहा । अन्न संनिहिताः सर्वे भवंतु सुखरभाभिनः ॥३४॥
पूजां गृह्रंतु सर्वेऽत्र मया भवत्योपपादिताम् । कुर्वतु च शुभं सर्वे यज्ञकर्म समाहिताः ॥३५॥
एवं संपूजयित्वा तान्देवान्यत्नेन शुद्धधीः । नैवेद्यैर्विविधैर्भक्ष्यैः फलैः पत्रैस्त्रथैव च ॥३६॥
ततस्तु तैर्द्विजैः सार्द्ध कुंडस्य विधिपूर्वकम् । कुर्यासेत्काकरणं यथोक्तं बेदचिन्तकैः ॥३७॥
ततः समाह्रयेद्वह्रिं नाम्रा ख्यातं घृतर्चिषम् ॥३८॥
विद्यावृद्धवयोवृद्धान्गृहस्थान्संयतोन्द्रियान् । स्वकर्मनि यताञ्ज्ञाअनशीलाञ्छान्तान्द्विजोत्तमान् ॥३९॥
चिंतयेत्तत्र देवेशं पंचास्यं नृप पावकम् । मुखनि तस्य चत्वारि सप्त जिह्रानि पार्थिव ॥४०॥
एकी ह्रामथैकं त तत्स्मृतं सर्वकामदम् । धूमायमाने च वृथा होतव्यं ज्वलितेऽनले ॥४१॥
ऋग्भिः पूर्वामुखैर्होमोयजुर्मिश्वोत्तरामुखैः । सानमिः पश्चिने कार्योऽथर्वार्दक्षिणामुखैः ॥४२॥
आघारावाज्यमागौ तु पूर्व हुत्वा विचक्षणः । परितोऽथपरि स्तीर्णे कल्पिते च तथासने ॥४३॥
ब्रह्माणं पूर्वमप्येतत्सर्व पश्वात्समाचरेत् हांमो व्याहृतिभिश्वैव सर्वस्त्र विधीयते ॥४४॥
प्रणवादिभिस्तल्लिंगैः स्वाहाकारांतयोजितैः । जुहुयात्सर्वदेवानां वद्यां ये चोपकल्पिताः ॥४५॥
एवं प्रकल्पयेद्यज्ञं कोटिहोमामाख्यमुत्तमम् । तिलाः कृष्णा घृताभ्यक्ताः किञ्छिद्यबसमन्विताः ॥४६॥
होतव्याः कोटिहोमे तु समिधश्व पलाशजाः । पूणे पूर्णे सहस्त्रं तु दद्यात्पूर्णहुतिं शुभाम् ॥४७॥
पञ्चमे तन्मुखे राजन्सर्वकामर्थसिद्धये । पूर्णाहुत्यः समाख्याताः कोटिहोमे नराधिप ॥४८॥
सहस्त्राणि नृपश्रेष्ठ दश शास्त्रविशारदैः । प्रारंभदिनमारभ्य ब्राह्मणैर्ब्रह्यवादिभिः ॥४९॥
भाव्यं सयजमानैस्तु अथवा सपुरोहितैः । क्रोधलोभादयो दोषा वर्जनीयाः प्रयत्नतः ॥५०॥
यजमानेन राजेन्द्र सर्वान्कामानभीप्तसा । संवरण उवाच ॥ बहुत्वात्कर्मणो ब्रह्मन्कोटिहोमः सुदुप्करः ॥५१॥
कालेन महता चैव शक्यः प्राप्तुं कथंचन । नियमाद्ब्रह्मचर्याद्वा दुष्करो हीति मे मतिः ॥५२॥
निरोधोऽत्र ब्राह्मणानां भूषय्यादिः सुदुष्करः । कार्यादगुरुतया यस्मात्पर्वकालाद्यपेक्षया ॥५३॥
एतद्विज्ञायते ब्रह्मन्यदि शास्त्रेषु कथ्यते । कोटिहोमस्यसंक्षेपंवदमेब्रह्मसंभव ॥५४॥
सनत्कुमार उवाच ॥
शताननो दशमुखो द्विमुखैकमुखस्तथा । चतुर्विधो महाराज कोटिहोमो विधीयते ॥५५॥
कार्यस्य गुरुतां ज्ञात्वा नैव कुर्यादपर्वणः । यथा संक्षेपतः कार्यः कोटिहोममस्तथा शृणु ॥५६॥
कृत्वा कुंडशतं दिव्यं यथोक्तं हस्तसंमितम् । एकैकास्मिंस्ततः कुंडे विप्रान्नियोजयेत् ॥५७॥
सद्यपक्षे तु विप्राणां सहस्त्रं परिकीर्तितम् । एकस्थानप्रणीतेग्री सर्वतः परिभा ते ॥५८॥
हौमं कुर्युर्द्विजाः सर्वे कुण्डे कुण्डे यथोदितम् । यथा कुंडबहुत्वेऽपि राजसूये महाक्रतो ॥५९॥
न च वह्रिबहुत्वं स्यात्तत्र यज्ञे विधीयते । तथा कुंडशतेऽप्यत्र घृतर्चिषि वितानिते ॥६०॥
एक एवभवेद्यज्ञः कोटिहोमो न संशयः । एवं यत्क्रियते क्षिप्रं व्याकुलैः कार्यगौरवात् ॥६१॥
शताननः स विज्ञेयः कोटिहोमो न संशयः । स्वल्पैरहोमिः कार्यः स्याद्वर्षाकालादिकेऽपि वा ॥६२॥
तदा दशगुणः कार्यः कोटिहोसो विजानता । विप्राणां द्वे शते तत्र सुविभज्य नियोजयेत् ॥६३॥
तेऽपि विज्ञानशीलाः स्युर्व्रतवंतो जितेन्द्रिंयाः । यत्र कुंडद्वयं कृत्वा विभज्य च विभावसुम् ॥६४॥
होमं कुर्युर्द्विजा भूयः संस्कृत्य विधिपूर्वकम् । शतं तत्र नियोज्यं स्याद्विप्राणां प्रविभज्ये वै ॥६५॥
मासे वाथ द्विमासे वा यथाकाले ह्युपस्थिते । एवं च द्विमुखं कार्यः कोटिहोमो विचक्षणैः ॥६६॥
यदा तु स्वेच्छया यज्ञं यजमानः समापयेत् । कालेन बहुधा राजंस्तदा चैकमुखो भवेत् ॥६७॥
एककुंडास्थितो वह्निरेकचित्तैः समाहितैः । यथालाभ स्थितैविंप्रैर्ज्ञानशिलैविंचक्षणैः ॥६८॥
न संख्यानियमश्चात्र ब्राह्मणानां नरोत्तम । न कालनियमश्वैव स्वेच्छायज्ञः स उच्यते ॥६९॥
आवृत्या सर्वकामस्य चातुर्मास्यानुकर्भवत् । तदप्रसक्तौ कर्तव्यो यज्ञौयं सर्वकालिकः ॥७०॥
अयमेकमुखो राजन्कालेन त्रहुना भवेत् । बहुविश्नश्च कालेन तस्मात्संक्षेपमाचरेत् ॥७१॥
यतो हि चित्तवित्ताद्यमायुश्वैवास्थिरं सदा । अतः संक्षेपतः कार्य धर्मकार्य प्रशस्यते ॥७२॥
ततः समाप्ते यज्ञे तु कारयेत्सुमहोशवर । शंखतूर्यनिनादेन ब्रह्मघोषस्वनेन च ॥७३॥
ततस्तुपूजयेद्विमाह्रोतृंश्व श्रद्धयान्वितः । निष्कैश्व कंकणैश्वैव कुंडलैर्विविधर्नृप ॥७४॥
गोशतंचैव दातव्यमश्वानां च भुतं सदा । सहस्त्रं च सुवर्णस्य सर्वेषामपि दापयेत् ॥७५॥
ग्रामैर्गजैरथैरश्वैः पूजयेच्च पुरोहितम् । दिनान्धकृपणान्सर्वान्वस्त्राद्यैश्वापि पूजयेत् ॥७६॥
ततश्वावभृथं स्त्रायात्तैर्घटैः पूर्वकल्पितैः । लक्षहोमोक्तमंत्रेण सदा विजयकारिणा ॥७७॥
एवं समापयेद्यस्तु कोटिहोमममखंशुभम् । तस्यारोग्यं वित्तपुत्रराष्ट्रवृद्धिस्तथैव च ॥७८॥
सर्वपापक्षयश्वैव जायतेनृपसत्तम् । अनावृष्टिभयं चैव उत्पातभयमेव च ॥७९॥
दुर्भिक्षं ग्रहपीडा च प्रशमं याति भूतले । एतत्पुण्यं पापहरं सर्वकामफलप्रदम् । सनत्कुमारमुनिना पार्थिवाय निवेदितम् ॥८०॥
सर्वोपसर्मशभनं भवने वने वा येकारयन्तिमनुजानृपकोटिहोमम् । भोगानवाप्य मनसोभिमतान्प्रकामं ते यांति शक्रसदनंसुविशुद्धसत्त्वाः ॥८१॥ [ ६४०४ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्टिरसंवादे कोटिहोमविदिवर्णनं नाम द्विचस्वारिंशदुत्तरशततमोऽध्यायः ॥१४२॥