युधिष्ठिर उवाच ॥
यन्न तापाय वै पुसां भवत्यामुष्सिकं कृतम् । तद्पापाय भवति तदाचक्ष्व यदूत्तम ॥१॥
उपवासप्रभावं वै कृष्णाराधनकाङ्क्षिणाम् । कथयेह महाबाहो नैव तृप्यामि कथ्यतः ॥२॥
श्रीकृष्ण उवाच ॥ श्रूयतां पार्थ यत्पृष्टाः कौतुकाद्भवता वयम् । आमुष्मिकं न तापाय प्रतापाय च जायते ॥३॥
उपोषितप्रभावं च कृष्णाराधनकाङ्क्षिणाम् । कथयामि यथावृत्तं पूर्वमेव नरोत्तम ॥४॥
वैदिशं नाम नगरं प्रख्यातं नृपसत्तम । तव्र वैश्योऽभवत्पूर्वं सीरभद्र इति श्रुतः ॥५॥
भार्यया मातृदुहितापुव्रपौव्रैः समन्चितः । प्रभूतभृत्यवर्गश्व बहुव्यापारकारकः ॥६॥
पुव्रपौव्रादिभरणे व्यासक्तिर्मतिरेव च । परलोकं प्रति मतिस्तस्य नातीत्कदाचन ॥७॥
चकारानुदिनं सोऽथ न्यायान्यायैर्धनार्जमम । सर्वव्रान्यव्र निःस्त्रेहः पुव्रन्मेहपरिप्लुतः ॥८॥
न जुहोत्युदिते काले न ददात्यतितृष्णया । बभूब चोद्यमस्तस्य पुव्रादिभरणे परः नित्यनैमित्तिकानां च हानिं चक्रे स्वकर्मणा ॥९॥
तुष्णाभिभूतो राजेन्द्र स्ववर्गभर्णोज्झितह । कलेनागच्छता सोऽथमूतो विन्ध्याटवीतटे ॥१०॥
यातनादेहभृत्प्र्तो ग्रीष्मकालेऽभवन्नृप । तं ददर्श महाभागो दिव्ययानसमन्वितः ॥११॥
वेदवेदाङ्गविद्वेषी विपीतो नामः वै द्विजः । भास्करस्यांशुभिर्दीतैर्दहन्तमतिदारुणैः ॥१२॥
प्रतप्तवालुकामध्ये तृपर्तश्वतिपीडितः । क्षुत्क्षामकण्ठं शुष्कास्यं तथोद्वृतविलोचनम् ॥१३॥
निष्कान्तजिह्र ङ्गिबु विस्फाटैः सर्वतश्वितम् । निश्वासायासखेदेने विह्रलः पीडितोदरः ॥१४॥
निजेन कर्मणा बद्धमसमर्थं प्रसर्पणे । तथाद्दशमथो द्वष्ट्रवा गर्दभेयो महानुषिः ॥१५॥
विपीतः प्राह राजेन्द्र कारुण्यभरितं वचः जानन्नपि यश्राप्राप्तं तस्यानुष्ठानजं फलम् ॥१६॥
जन्तोस्तस्योपकाराय सर्वतोह्रादयन्निव । विपीत उवाच ॥ अष धूर्यां शूभिस्तप्तैर्बहुभिः पथि पांशुभिः ॥१७॥
उपर्यर्ककरैस्तीक्ष्णैस्तृषावातानेपीडितम् । अन्यस्तव्राण कैर्धोरैरविधह्यैः सुदारुणैः ॥१८॥
कययेह यथातस्त्रमेकाकी दह्यसे कथन् । तस्यैतद्वचनं श्रुत्वा विपीतस्य सवेदनः ॥१९॥
वेदनार्त उवाचेदं कृच्छ्रादुच्छ्रस्य मन्दकम् । सीरभद्र उवाच ॥ बह्मन्नालोचितं पूर्वं कथमन्ते भविष्यति ॥२०॥
अशाश्वते शाश्वतधीस्तेन दह्यामि दुर्मतिः । इदं करिष्याम्यपरं त्विदं कृत्वा त्विदं पुनः ॥२१॥
इतीच्छाशतमारूढस्तेन दह्यामि दुर्मतिः । शीतोष्णवर्षादिभवं लोभात्सोढं मयाऽशुभम् ॥२२॥
तदेव हि न धर्मार्थं तेन दह्यामि दुर्मतिह । पितृदेवमनुष्याणामदत्त्वा पोषिता हि ये ॥२३॥
ते गता नापि वर्तन्ते दह्याम्येकोऽव्र दुर्मतिः । पुव्रक्षेव्रकलव्रेषु ममा वार्हतचेतसा ॥२४॥
बह्रसाधुकृतं कर्म तेन दह्यामि दुर्मतिः । मृते मयि धने तस्मिन्नन्यायोपाजिंते सदा ॥२५॥
रूपवन्तोऽभिवर्तन्ते दह्याम्येकोव्र दुर्मतिः न मया पुजिता गेहान्निर्गता द्विजसत्तमाः ॥२६॥
स्ववर्गमिहकामेन तेन दह्याम्यहंमतिः । यन्मे न पुजिता देवाः कुटुम्बं पोषितं परम् ॥२७॥
एकाकी तव्र दह्यामि ये सुतास्तेऽन्यतो गताः । नित्यं नैसित्तिकं कर्म पूर्वेषां चैव नो कृतम् ॥२८॥
एकाकी तेन दह्यामि गतास्ते फलभोगिनः । दाराः पुव्राश्व भृत्याश्व भृत्याश्व पापबुद्धन्या मया भृताः ॥२९॥
एककी तेन दह्यामि गतास्ते फलभोगिनः । दाराः पुव्राश्व भृत्यार्थे मयान्यायार्थसंचयः ॥३०॥
कृतस्तेनाव्र दह्यामि ये भुक्तास्तेऽन्यतो गताः । क्षतपापं मयाभुक्तमन्यैस्तत्कर्मसंचितम् ॥३१॥
दह्याम्येकोऽहमत्यन्तं गतास्ते फलभोगिनः । यन्ममत्वाभिभृतेन मया पापमुपाजिंतम् ॥३२॥
व तदन्यस्य कस्यापि केवलं मम दुष्कृतम् । अन्तर्दुःखेन दग्धोऽहं बहिर्दह्यामि भावयन् ॥३३॥
एवं दुःखदूयास्वादात्पापमेकं द्विधास्थितम् । करु तस्मान्समुद्धारं पश्येमं विषसागरं ॥३४॥
तव्र येनाहमाह्लादं प्रान्पुयां मुनिसत्तम । विपीत उवाच ॥ अल्पकालिक उद्धारे तव्र पश्यामि संशयम् ॥३५॥
प्रक्षीणं पापमैतावत्सुदृत्तं चास्ति ते परम् । अतीते दशमे जन्मम्यष्युताराधनेच्छया ॥३६॥
सुकर्म जयदा भद्र द्वादशीं समुपोषितः । न च तस्याः फलंलब्धं पापमत्यन्तदुर्जयम् ॥३७॥
अल्पैरहोभिः संक्षीणमामपाव्रे यथा जलम् । गतं पापमयं ह्यस्याः प्रभावोऽत्यन्तदुर्लभः ॥३८॥
नाशः पापस्य कुरुते जयं सुकृतकर्मणः। सकृत्कर्मप्रदा ह्येषा ततो वै द्वादशी स्मृता ॥३९॥
यथैतद्वदतार्तेन भवता परिदेवितम् । तथैव पापिनः सर्वे वदन्त्यार्तस्वरेण हि ॥४०॥
पापमव्र कृतं प्रेत्य भद्र तापाय जायते । आह्लादाय तथा पुण्यमिह पुण्यसिह पुण्यकृतां नृणाम् ॥४१॥
सीरभद्रं समाश्वास्य यथावित्थं महामुनिः । सोप्यल्पेनैव कालेन ततो मोक्षभवाप्तवान् ॥४२॥
उपवासप्रभावश्व कथितस्ते नरोत्तम । येनाल्पैरेव दिवसैर्भूरिपापं क्षयंगतम् ॥४३॥
तस्मान्नरेण पुण्याय यतितव्यं न पातकम् । उपवासाश्व कर्तव्याः सदैवात्महितैषिणा ॥४४॥
युधिष्टिर उवाच । अथैतत्कष्टपापानां विपाको नरकस्थितैः । पुरुषैर्भुज्यते शश्वत्तन्मोक्षं वद सत्तम ॥४५॥
श्रीकृष्ण उवाच ॥ जयासमेताः पुरुषाः सदा सुकृतकर्मणः । जया सा द्वादशी शस्ता नृणां सुकृतकर्मणाम् ॥४६॥
फालगुनामलपक्षस्य एकादश्यामुपोषितः । द्वादश्यां तु द्विजश्रेष्ठ पूजयेन्मधुसूदनम् ॥४७॥
एकादश्यां समुत्तिष्ठन्विष्णोर्नामानुकीर्तयन् । पूजायां वासुदेवस्य भुञ्जीत सुसमाहितः ॥४८॥
कामं ऋघं च लोभं च मदं मोहं च वर्जयेत् । दोहादीन्वर्जयेद्दोषान्सर्वान्धनमदोद्भवान् ॥४९॥
भावयेद्विष्णुभक्तश्व संसारेऽसारतां तथा । एवं भावितचित्तेन प्राणिनां हितमिच्छता ॥५०॥
नमो नारायनायेति वक्तव्यं स्वपता निशि । तथैव कुर्यादद्वादश्यां नान्मा क्षुत्पारणं नूप ॥५१॥
सौवर्णताम्रपाव्राणि मृन्मयान्यपि पाण्डव । यवपाव्राणि पूर्वं तु दद्यान्मासचतुष्ठयम् ॥५२॥
आषाढादिद्वितीयं तु पारयेच्च महामते । तव्रापि घृतपाव्राणि दद्याच्छ्रद्धासमन्वितः ॥५३॥
कार्तिकादिषु मासेषु माघान्तेपु तथा तिलान् । विप्राय दद्यात्पाव्रं तु प्रतिमासमुपोषितः ॥५४॥
नामव्रयमशेषेण मासि मासि दिनदूयं । तथैवोच्चारयन्दद्यान्मासि मासि यवादिकम् । प्रणम्या च ह्रपीकेशं कृतपूजः प्रसादयेत् ॥५५॥
विष्णो नमस्ते जगतीप्रसूते श्रीवासुदेवाय नमो नमस्ते । नारायणास्यं प्रणतैर्विचिन्य करोतु मे शाश्वतपुण्यशिम् ॥५६॥
प्रसीद पुण्यं जयमेति विष्णो श्रीवासुदेवर्द्धिमुपैतु पुण्यम् । प्रयातु वाशेषमथो विनाशं मा तेऽङ्घ्रिपद्मादितरव्र मे मतिः ॥५७॥
विष्णो पुण्योद्भवो मेऽस्तु वासुदेवास्तु मे शुभम् । नाराय़णास्तु मे धर्मो जहि षापमशेषतः ॥५८॥
अनेकजन्मजनितं बाल्ययौवनवार्द्धके । पुण्यं विवृद्धिमायातु यातु पापं च संक्षयम् ॥५९॥
आकाशादिषु शब्दादौ श्रोव्रादौ महदादिषु । एकूतौ पुरुषे चैव ब्रह्मण्यपि च स प्रभुः ॥६०॥
यथैक एव धर्मत्मा वासुदेवो व्यवस्थितः । तेन सत्येन पापं मे नरकार्तिप्रदं क्षयम् ॥६१॥
प्रयातु सुकृतस्यास्तु ममानुदिवसञ्जयः । पापस्य हानिः पुण्यस्य बृद्धिर्मेऽस्तूत्तमोत्तमा ॥६२॥
एवमुच्चार्य विप्राय दद्याद्यत्कथितं तव्र । भुञ्जीत कृतकृत्यस्तु पारणे पारणे गते ॥६३॥
पारणान्ते तु देवेशप्रीणनं शक्तितो नृप । कुर्वीताखिलपाखण्डैरालापं च विवर्जयेत् ॥६४॥
एवं संवत्सरस्यान्ते काञ्चनीं प्रतिमां हरेः। पूजयित्वा वस्त्रपुष्पैर्घृतपाव्रेण संयुतैः ॥६५॥
गां सवत्सां च विप्राय दद्याच्छ्रद्धासमन्वितः । विलम्वितं च यत्वूर्वं देवानन्यान्भजेद्यदि ॥६६॥
तस्मिन्नहनि दातव्यं भोजते चानिवारितम् । इत्येषा कथिता पुण्या सुकृतस्य जयावहा ॥६७॥
द्वादशी नरकं पार्थ यामुपोष्य न पश्यति । नाग्नयो न च शस्त्रणि न च लोहमुखाः खगाः ॥६८॥
नारकास्तं प्रवाधन्ते मतिर्यस्य जनार्दने । नामोच्चारणमाव्रेण विष्णोः श्रीणाघसंचयः ॥६९॥
भवत्यघयिनाशश्व नरके पतनं कृतः । नमो नारायण हरे वासुदेवेति कीर्तयत् ॥७०॥
न याति नरकं मर्त्यः संक्षीणाशेषयातकः । तस्मात्पाखण्डिसंसर्गसकुर्वन्द्वादशीमिमाम् ॥७१॥
उपोष्य पुण्योपचये न याति नरकं नरः ॥७२॥
पापं क्षिणोति सुकृतस्य करोति वृद्धिं वृद्धिं प्रयच्छति नियच्छाति सर्वदोषात् । यद्द्वादशीह सुकृतातिहिता च लोके कस्मान्न तामुपवसन्ति विमढचित्ताः ॥७३॥ [ ३३८९ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुतिष्ठिरसंवादे सुकृतद्वादशीव्रतव्रर्णन नाम द्मशीतितमोऽध्यायः ॥८२॥