युधिष्ठिर उवाच ॥
मधुरा भारती केन व्रतेन मधुसूदन । तथैव जनसौभाग्यमतिविद्यासु कौशलम् ॥१॥
अभेदश्वापि दम्पत्योस्तथा बन्धूजनेन च । आयुश्व विपुलं पुंसां जायते केन केशव ॥२॥
श्रीकृष्ण उवाच ॥ सम्यव्रपृष्टस्त्वया राजञ्छ्रणु सारस्वतं व्रतम । यस्थ संकीर्तनादेव तुष्यतीह सरस्वती ॥३॥
योऽयं मक्तः पुमान्कुर्यादेतदवरतमनुत्तममत्तमम् । तद्वत्सरादौ संपूज्य विप्रेण तं समाचरेत् ॥४॥
अथ चादित्यवारेण ग्रहताराबलेन च । पायसं भोजयित्वा च कुर्याद्ब्राह्मणवाचनम् ॥५॥
शुक्लवस्त्राणि दद्याच्च सहिरण्यानि शक्तितः । गायव्रीं पूजयेद्भक्त्या शुक्लमाल्यानुलेपनैः ॥६॥
एभिर्मन्व्रपदैः पश्वात्पर्वं कृत्वा कृताञ्जलिः । तथा तु देवि भगवान्ब्रह्या लोकपितामहा ॥७॥
त्वां परित्यज्य नोत्तिष्ठेत्तथा भव वरप्रदा । वेदशास्त्राणि सर्वाणि नृत्यगीतादिकं च यतू ॥८॥
पाहितं यत्त्वया देवि प्तथा मे सन्तृ सिद्धयः । लक्ष्मीर्मेधा बरा रिष्टिर्गौरी तुष्टिः प्रमा मतिः ॥९॥
एताभिः पाहि तनुभिरष्टाभिर्मां सरस्वति । एवं संपूज्य गायप्रीं वीणाक्षमणिधारिणीम् ॥१०॥
शुक्लपक्षेऽक्षतैर्भक्त्या सकमण्डलुपुस्तकाम् । मौनव्रतेन भुञ्जीत सायंप्रातश्व धर्मवित् ॥११॥
पञ्चम्यां प्रतिपक्षे च पूजयित्वा सुवासिनीः । तिलैश्व तन्दुलपस्थं घृतपाप्रेण संयुतम् ॥१२॥
क्षीर तथा हिरण्यं च गायव्री प्रीयतामिति । सन्ध्यायां च ततो मौनं तदूव्रतं तु समाचरेत् ॥१३॥
नान्तरा भोजनं कुर्यान्याबन्मासास्त्रयोदश । समाप्ते तु व्रते दद्याद्भाजनं शुक्लतण्डुलैः ॥१४॥
पुर्णं सुवस्त्रयुग्मं च गां च विप्राय भोजनम् । देव्यै वितानं घण्टां च सिसं छ्त्रं पटान्वित्तम् ॥१५॥
चन्दनं बखगुग्मं च दघ्यभ्नं च क्षिरैर्युप्तम् । तथोपदेष्टारमपि भक्त्या संपूजयेद्गुरुम् ॥१६॥
वित्तशाठन्येन रहितो षस्त्रप्राल्यानुलेपनैः । अनेन विधिना यस्तु कुर्यात्सारस्वतं व्रतम् ॥१७॥
विद्यावाप्रर्थयुक्तश्व रक्तकण्ठश्व जायते । सरस्वत्याः प्रसादेन व्यासवत्तु कविर्भवत् ॥१८॥
नारी बा कुरुते पा तु सापि तत्फलभागिनी । ब्रह्मलोके वसेत्तावद्यावत्कल्पायुतव्रयम् ॥१९॥
सारस्वत व्रतं यस्तु शृणुयादपि यः पटेतू । विद्याधरपुरे सोऽपि वसेत्कल्यायुतव्रयम् ॥२०॥
संवत्सरं व्रतवरेण सरस्वतीं पे संपूजपन्ति जगतो जनमीं जनिव्रीम् । विद्यावदातह्रदया मधुरक्ष्वरास्ते रूपान्विता बहुकलाकशला भवन्ति ॥२१॥ [ १६४६ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे सारस्वतव्रतनिरुपणं नाम पञ्चव्रिंशत्तमोऽध्यायः ॥३५॥