श्रीकृष्ण उवाच ॥
बुधाष्टमीव्रतं भूयो ब्रवीमि शृणु पाण्डव । येन चीर्णेन नरकं नरः वश्यति न क्कचित् ॥१॥
पुरा कृतयुगस्यादौ इलो राजा बभूव ह । बहुभृत्यसुह्रन्मिव्रमन्व्रिभिः परिवारितः ॥२॥
जगाम हिमवत्पार्श्वे महादेवेन वारितः । योऽन्यः प्रविशते भूमौ सा स्त्री भवति निश्वितम् ॥३॥
स राजा मृगसङ्गेन प्राविशत्तदुमावने । एकाकी तुरगोपेतः क्षणात्स्त्रीत्वं जगाम ह ॥४॥
सा बभ्राम वने शून्ये पीनोन्नतपयोधरा । कुतोऽहमागतत्येवं न त्वबुध्यत किञ्चन ॥५॥
तां ददर्श बुधः सौम्यां रूपौदार्यगुणान्चिताम् । अष्टम्यां बुधवारेण तस्यास्तुष्टो बुधो ग्रहः ॥६॥
दधौ गर्भं तदुदरे इलाया रूपतोषितः । पुव्रमुत्पादयास योऽसौ ख्यातः पुरूरवाः ॥७॥
चन्द्रवंशकरो राजा आद्यः सर्वमहीक्षिताम् । ततःप्रभृति पूज्ययमष्टमी बुधसंयुता ॥८॥
सर्वपापप्रशमनी सर्वोपद्रवनाशिनी । अथान्यदपि ते वच्मि धर्मराज कथानकम् ॥९॥
आसीद्राजा विदेहानां मिथिलायां स वैरिभिः । संग्रामे निहतो वीरस्तस्य भार्या दसिद्निणी ॥१०॥
ऊर्मिला नाम बभ्राम महीं बालकसंयुता । अवन्तीविषय प्राप्ता ब्राह्मणस्य निवेशने ॥११॥
चकारोदरपूर्त्यर्थं नित्यं कण्डनपेषणे । हृत्वा सा स्तोकगोधूमान्ददौ बालकयोस्तदा ॥१२॥
कारुण्यान्मातृवात्सल्यात्क्षुधासंपीडन्यमानयोः कालेन बहुना साध्वी पञ्चत्वमगमच्छुभा ॥१३॥
पुव्रस्तस्य विदेहायां गत्वा स्वपितुरासने । उपविष्टः सत्त्वयोगाद्बुभुजे गामनकुलः ॥१४॥
अन्विष्य घर्मराज्ञो वै सा कन्या मिथिवंशजा । विवाहिता हिता भर्तुः सा महानायिकाऽभवत् ॥१५॥
श्यामला नाम चार्वङ्गी प्रसिद्धा श्रूयते श्रुतौ । तामुवाच वरारोहां धर्मराजः स्वयं प्रियाम् ॥१६॥
बहस्व सर्वव्यापारं श्यामले त्वं गृहे मम । कुरु स्वजनभृत्यानां दानक्षेपं यथेप्सितम् ॥१७॥
किं त्वेते पञ्चराः सप्त कीलकैरतियस्त्रिताः । कदाचिदपि नोद्धाटन्यास्त्वया वैदेहनन्दिनि ॥१८॥
एवमस्त्विति साप्युक्ता निजं कर्म चकार ह । कदाचिह्याकुलीभूते धर्मराजे विदेहजा ॥१९॥
उद्धाटायित्वा प्रथमं ददर्श जननीं स्वकाम् । सा पच्यमाना क्रन्दन्ती भीषणैर्यमकिङ्करैः ॥२०॥
हेलया क्षिप्यते बद्ध्वा तप्ततैले पुनः पुनः । तथैव तालकं दत्त्दा व्रीडिता सा मनखिनी ॥२१॥
द्वितीये पञ्जरे तद्वन्मातामेव्र ददर्श हा तप्तेन लिप्यमानां तां शिलातल्परसेन तु ॥२२॥
तृतीयपञ्जरे तद्वत्तां ददर्श स्वमातरम् । क्रकत्तैः पाठन्यते मूर्न्धि धण्टायुक्तैः कराल्वणैः ॥२३॥
चतुर्थे पञ्जरे स्थाने भीषणैर्दारुणाननैः । भक्ष्यमाणैः श्वापदैश्व क्रन्दन्तीं ता पुनः पुनः ॥२४॥
पञ्चमे निहितां भूमौ कण्ठे पादेन पीडिताम् । संदंशैर्घनघातैश्व विदीणा क्रियते रुषा ॥२५॥
षष्ठे चेक्षुयन्व्रगतां मस्तके मुद्नराहताम् । संपीडन्यप्नानामनिशं सुद्दढं खण्डखण्डवत् ॥२६॥
सप्तमे पञ्जरे चीर्णस्वनां पूतिसुगन्धिनीम् । द्दष्ट्वा तथागतां तां तु मातरं दुःखकर्षिता ॥२७॥
श्यामला म्लानवदना किञ्चिन्नोवाच भामिनी । अथागतं यमं प्राह सरोषा श्यामला पतिम ॥२८॥
किं तवापह्रतं राजन्मम माव्रा सुदारुणम् । येनेयं विविधैर्घातैर्बध्यते बहुधा त्वाया ॥२९॥
यमः प्राह प्रियां हष्ट्रवा भद्रे ह्युद्धाटितास्त्वया । एते पञ्चरकाः सप्त निषिद्धा त्वं मया पुरा ॥३०॥
तव माव्रा सुतस्नेहाद्नोधूमा ये ह्रताः किल । किं न जानासि ते भद्रे येन रुष्टा ममोपरि ॥३१॥
ब्रह्मस्वं प्रणयाद्भुक्तं दहत्यसप्तमं कुलम् । तदेव चौर्यरूपेण दहत्याचन्द्रतारकम् ॥३१॥
गोधूमास्त इमे भूताः कृमिरूपाः सुदारुणाः । ये पुरा ब्राह्मणगृहे ह्रतास्तव कृतेऽनया ॥३३॥
श्यामलोवाच ॥ जानामि तदहं सर्वं पन्मे माव्रा कृतं पुरा । तथापि त्वां समासाद्य सा च जामातरं शुभम् ॥३४॥
मुच्यते कृमिराशित्वाद्यथा तदधुना कुरु । तच्छ्रत्वा चिन्तयाविष्टश्विरं स्थित्वा जगाद ताम् ॥३५॥
धर्मराजः सहासीनां प्रियां प्राणधनेश्वरीम् । इतश्व सप्तमेऽतीते जन्मनि ब्राह्मणी शुभा ॥३६॥
आसीस्तस्मिंस्त्वया मङगत्सखीनां पर्युपासिता । बुधाष्टमी सुसंपूर्णा यथोक्तफलदायिनी ॥३७॥
तत्फलं यदि ददास्यस्यै सत्यं कृत्वा ममाग्रतः । तेन मुच्येत ते माता नरकात्पापसंकटात् ॥३८॥
तच्छ्रत्वा त्वरितं स्त्रात्वा ददौ पुण्यं स्वकं कृतम् । स्वनातुः श्यामला तुष्टा तेन मोक्षं जगाम सा ॥३९॥
ऊर्मिला रूपसंपन्ना दिव्यदेहधरा शुभा । विमानवरमारूढा दिव्यमाल्याम्बरावृता ॥४०॥
भर्तुः समीपे स्वर्गस्था द्दश्यतेऽद्यापि सा जनैः । बुधस्य पार्श्वे नभसि मिथिराजाभीपतः ॥४१॥
विस्फुरन्ती महाराज बुधाष्टम्याः प्रभावतः ॥४२॥
युधिष्ठिर उवाच ॥ यद्येवं प्रवरा कृष्ण सा तिथिर्वै बुधाष्टमी । तस्या एव विधिं ब्रूहि विधानं च विशेषतः ॥४३॥
तस्या एव विधिं ब्रूहि यदि तुष्टोऽसि मे प्रभो ॥४४॥
श्रीकृष्ण उवाच ॥ शृणु पाण्डव यत्नेन बुधाष्टम्या विधिं शुभम् । यदा यदा सिताष्टम्यां बुधवारो भवेद्यदि ॥४५॥
तदा तदा च सा ग्राह्या एकभक्ताशनैर्नृभिः । स्त्रात्वा नद्यां तु पूर्वाह्ले गृहीत्वा कलशं नवम् ॥४६॥
जलपूर्णं तु सद्रव्यं पूर्णपाव्रसमन्वितम् । अष्टवारं प्रकर्तव्या विधानैस्तु पृथक्पृथक् ॥४७॥
प्रथमा मोदकैः कार्या द्वितीया फेणकैस्तथा । तृतीया घृतपूपैश्व चतुर्थी वटाकैर्नृप ॥४८॥
पञ्चमी शुभ्रकारैश्व षष्ठी आपूपकैस्तथा । अशोकवर्तिभिः शुभ्रैः सप्रमी खण्डसंयुतैः ॥४९॥
अष्टमी फलफुष्पैश्व केवलैः खण्डफेणिकैः । एवं क्रमेण कर्तव्याः सुह्रत्स्वजनबान्धवैः ॥५०॥
सह कृत्वा स्थितैर्भोज्य भोक्तव्यं स्वस्थमानसैः । उपाषाणामिदं श्रेष्ठ कर्तव्यं वै शनैः ॥५१॥
श्रुत्वाष्टमी बुधस्यापि माहात्म्यं भोजनं त्यजेत् । तावदेव हि भोक्तव्यं कथा यावत्समाप्यते ॥५२॥
तथा भुक्त्वा बुधस्याग्रे आचम्य च पुनः पुनः विमाय वेदविदुष तं ब्रुवन्प्रतिपादयेत् ॥५३॥
साक्षत्म सहिरण्यं च जातरूपमयं शुभम् । अर्चितं विविधैः पुष्पैर्धूपदीपैः सुगन्धिभिः ॥५४॥
पीतवस्त्रैः समाच्छन्नम बुधं सोमात्मजाकृतिम् । माषकेण सुवर्णेन तदर्धार्धेन वा पुनः ॥५५॥
ॐ बुधाय नमः । ॐ सोमात्मजाय नमः । ॐ दुर्बुद्धिनाशनाय नमः । ॐ मुबुद्धिप्रदाय नमः । ॐ ताराजाताय नमः । ॐ सौभ्याग्रहाय नमः। ॐ सर्वसौख्यप्रदाय नमः । एते पूजामन्व्राः ॥ श्रष्टमी तु यदा पूर्णा तदा राजर्षिसत्तम । ब्राह्मणान्भोजयेदष्टौ गां दद्याच्च सवत्सकाम् ॥५६॥
वस्त्रालङ्करणैः सर्वैर्भूषणौर्विविधैरपि । सपत्नीकं समभ्यर्च्य कर्णमाव्राङ्गुलीयकैः ॥५७॥
मन्व्रेणानेन कौन्तेय दद्यादेवं समाचरन् । बुधोऽयं प्रतिगृह्लातु द्रव्यस्थोऽयं बुधः स्वयम् ॥५८॥
दीयते बुधराजाय तुष्यतां च बुधो मम ॥५९॥
इति दानमन्व्रः ॥ बुधः सौभ्यस्तारकेयो राजपुव्र इलापतिः । कुमारो द्विजराजस्य यः पुरूरवसः पिता ॥६०॥
इति प्रतिग्रहणमन्व्रः । दुर्बुद्धिबाधजनितं नाशयित्वा च मे बुधः । सौख्यं च सौमनस्य च करोतु शशिनन्दनः ॥६१॥
इत्युच्चार्य गृहीत्वा तु दद्यान्मन्व्रपुरःसरम् । सप्तजन्मनि राजेन्द्र जातो जातिस्मरो भवेत् ॥६२॥
धनधान्यसमायक्तः पुव्रपौव्रप्रवर्द्धनम् । दीर्घायुर्विपुलान्भोगान्भुक्त्वा चैव महीतले ॥६३॥
ततः सुतीर्थे मरणं ध्यात्वा नारायणं विभुम् । मृतोऽसौ स्वर्गमान्पोति पुरन्दरसमो नरः ॥६४॥
वसते यावदासृष्टेः पुनराभूतसंप्लवम् । एवमेतन्मया ख्यातं व्रतानामुतमं व्रतम् ॥६५॥
एतदेव मया ख्यातं गुह्यं पार्थ बुधाष्टमी । यां श्रुत्वा ब्रह्महा गोन्घः सर्वपापैः प्रमुच्यते ॥६६॥
यच्चष्टमीं बुधयुतां समवाप्य भक्त्या संपूजयेद्विधूप्तुतं घटपृष्टसंस्थम् । पक्कान्नपाव्रसहितैः सहिरण्यवस्त्रैः पश्येदसौ यमपुरं न कदाचिदेव ॥६७॥ [ २२०० ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे बुधाष्टमीव्रतवर्णन नाम चतुःपञ्चाशत्तमोऽध्यायः ॥५४॥