श्रीकृष्ण उवाच ॥
अनंतव्रतमस्त्यन्यत्सर्वपापहरं शिवम् । सर्व काम प्रदं नृणां खीणां चैव युधिष्ठिर ॥१॥
शुकृपक्षेचतुर्दश्यां मासिभाद्रपदे शुभे । तस्यानुष्ठानमाव्रेण सर्व पाषैः प्रमुच्यते ॥२॥
युधिष्ठिर उवाच ॥ कृष्णकोऽय त्वयाख्याते अनंतैतिविश्रुतः । किंशेष नागाआहोस्विदनं तस्तक्षकः स्मृतः ॥३॥
परसात्माथवानंत उताहोब्रह्मौच्यते । कएषोऽनं तसंज्ञोवै तथ्यं ब्रूहिकेशव ॥४॥
श्रीकृष्ण उवाच ॥ अनंत इत्यहं पार्थ मम नाम निबोधय । आदित्यादिषुवारेषु यःकालौपषयते ॥५॥
कलाकाष्ठामुहूर्तादि दिनराव्रि शरीरवान् । पक्षमासर्तुवर्षादि युगकल्य व्यवस्थया ॥६॥
योऽयं कालोमयाख्यातस्तवधर्म भृतांवर । सोऽहं कालोऽवतीर्णोऽव्रभुवोभारवतारणात् ॥७॥
दानवानां विनाशाय वसुदेव कुलोद्धवम् । मां विद्धन्ययं तं पार्थ त्वं विष्णुं विष्पुं हरं शिवम् ॥८॥
ब्रह्याणं भास्करं शेषं सर्वव्यापि नमीस्वरम् । विश्वन्यपं महात्मानं सृष्टिसहारकारकम् ॥९॥
प्रत्ययार्थं मयाख्यातं सोऽहं पार्थं न संशय । युधिष्टिर उवाच ॥ अनंतव्रतमाहात्म्यं विधिंवदविदांवर ॥१०॥
किं पुण्यं किं फलं चास्य ह्यनुष्ठानवतां नृणाम् । केनवादौपुराचीर्णं मर्त्यंकेन प्रकाशितम् ॥११॥
पवं समस्तं विस्तार्य ब्रुह्यनतव्रतं हरेः । श्रीकृष्णौवाच ॥ आसीत्पुराकृतयुगे सुमंतो नाम वैद्धिजः ॥१२॥
वसिष्ठ गोवे चोत्प्रन्नः सुरूपश्वभृगोः सुताम् । दीक्षांनामो पयेमेतां वेदोक्तविधिनाततः ॥१३॥
तस्याःकालेनसेजातादुहितानंतलक्षणा । शीला नासमुशीलासार्वधतेपितृसद्मनि ॥१४॥
माताचतस्यः कालेनहरदाहेनपीडिता । विननाशनदीतीरेमृतास्वर्मपुरं ययौ ॥१५॥
सुमतोपिततोन्यांवैधर्मपुंसःसुतांपुनः । उपयेमेविधानेनकर्कशांनामनामतः ॥१६॥
दःशीलांकर्कशांचंडींनित्यंकलहकरिणीम् । सपिशीलापितुर्गेहेगृहार्चनरताविभो ॥१७॥
कुडन्यस्तंभतुलाधारदेहलीतोरणादिषु । चातुर्वर्णकरङ्गैश्वनीलपीतसितासितैः ॥१८॥
स्वस्तिकैःशंखपद्मैश्वअर्चयंतीपुनःपुनः । पिव्राद्दष्टासुमंतेनस्त्रीचिह्रायौवनेस्थिता ॥१९॥
करमैदेयामयाशीलाविचायैंवंसुदुःखितः । पिताददौमुनीन्द्रायकैंडिन्थायशुभेदिने ॥२०॥
रमृत्युक्तशास्त्रविधिनाविवाहमकरोत्तदा । निवर्त्योद्वाहिकंसर्वंप्रोक्तवान्कर्कशांद्विजः ॥२१॥
किञ्चिद्दायादिकंदेयंजामातुःपारितोषिकम् । तच्छुत्वाकर्कशाक्रुद्धाप्रोद्धत्युगृहमंडपम् ॥२२॥
कपाटेसुस्थिरंकृत्वागम्यतामित्युवाचह । भोज्याबशिष्ठचूर्णेनपाथेयंचचकारसा ॥२३॥
कौंडिन्योपिविवाह्यैनांपथिगच्छञ्छनैःशनैः । शीलांसुशीलामादायनवोढांगोरथेनहि ॥२४॥
मध्याह्रेभोज्ववेलायांसमुत्तीर्यसरित्तटे । ददर्शशीलासस्त्रीणांसमूहरंक्तवाससाम् ॥२५॥
चतुर्दश्यामर्चयंतंभक्त्यादेवंपृथक्पृथक् । उपगम्यशनैःशीलापप्रच्छस्त्रीकदंबकम् ॥२६॥
नार्यःकिमेतन्मेब्रूतकिंनामव्रतमीदृशम् । ताऊचुयोंषितःसर्वाअनंतोनामविश्रुतः ॥२७॥
साब्रवीदहमप्येवंकरिष्येव्रतमुत्तमम् । विधानंकीद्दशंतव्रकिंदानंकस्यपूजनम् ॥२८॥
स्त्रियऊचुः ॥ शीलेपक्वान्नप्रस्थस्यपुन्नान्मःसुकृतस्यतु । अर्द्धंविप्रायदातव्यमर्द्धमा मनिभोजनम् ॥२९॥
कर्तव्यंतुसरित्तीरेकथांश्रुत्वाहररिमाम् । अनंतानंतमभ्यर्च्यमंडलेगन्धदीपकैः ॥३०॥
धूपैःपुष्पैःसनैवेद्यैः पीतालक्तैश्वतुःशतेः। तस्याग्रतोद्दढंसूव्रंकुंकुमाक्तंसुदोरकम् ॥३१॥
चतुर्दशग्रंथियुतंवामेस्त्रीदक्षिणेपुमान् । मंव्रेणानेन राजेन्द्रयावद्वर्षंसमाप्यते ॥३२॥
अनंतसंसारमहासमुद्रेमग्नान्समभ्युद्धरवासुदेव । अनंतरूपेविनियोजितात्माअनंतरूपायनमोनमस्ते ॥३३॥
अनेनदोरकंबध्द्वाभोक्तव्यंस्वस्थमानसैः। ध्यात्वानारायणंदेवमंनंतंविश्वरूपिणम् ॥३४॥
भुक्त्वाचांतेव्रजेद्वेश्ममिदंप्रोक्तंव्रतंतव । सापिश्रुत्वाव्रतंचक्रेशीलाध्द्वासुदोरकम् ॥३५॥
भर्तातस्या समागत्यतांददर्शमहाधनाम् । पाथेयशेषंविप्रायदत्त्वाभुक्त्वातथैवच ॥३६॥
पुनर्जगामसाहृष्टागोरथेनस्वमाश्रमम् । भर्व्रासहैवशनकैःपत्यक्षंतत्क्षणादभूत् ॥३७॥
तेनानंतप्रभावेनशुभगोधनसंकुलम् । गृहाश्रमंश्रियायुक्तंधनधान्यसमायुतम् ॥३८॥
आकुलंव्याकुलंरम्यंसर्वव्रातिथिपूजनम् । सपिमाणिक्यकाञ्चीभिर्मुक्ताहारविभूषिता ॥३९॥
दिव्याङ्गवस्त्रसंछन्नासाविव्रीप्रतिमाभवत् । कदाचिदुपविष्टेनद्दष्टंसुदोरकम् ॥४०॥
शीलायाहस्तमूलेतुसाक्षेपंव्रोटितंरुषा । तेनकर्मविपाकेनतस्यसाश्रीःक्षयंगता ॥४१॥
गोधनंतस्करैर्नीतंगृहंचाग्निविदाहितम् । यद्यदेवागतंगेहेतव्रतव्रवैनश्यति ॥४२॥
स्वजनैःकलहोमिव्रैर्वचनंनजनैस्तस्था । अनंताक्षेपदोषेणदारिद्रन्य पतितंगृहे ॥४३॥
नकश्विद्वदतेलोकस्तेनसार्द्भंयुधिष्टिर । ततोजगामकौंडिन्योनिर्वेदाद्वनगह्ररम् ॥४४॥
मनसाध्यायतेनंतंकदाद्रक्ष्यामिकेश्वम् । व्रतंनिरशनंगृह्यब्रह्यचर्यंजपन्हरिम् ॥४५॥
विह्रलःप्रययौपाथंअरण्यंजनवार्जितम् । तव्रापश्यन्महावृक्षंफलितंपुष्पितंतथा ॥४६॥
तमषृच्छत्त्वयानंतःकच्चिद्द्दष्टोमद्रुम । तद्ब्रूहिसोप्युवाचेदंनानन्तवेद्मन्यहंद्विज ॥४७॥
एवंनिरीक्षितस्तेनगांददर्शसवत्सकाम् । तृणमध्येप्रधावंतीमितश्वेतश्वपांडव ॥४८॥
सोब्रवीद्धेनुकेब्रूहियद्यनंतस्त्वयेक्षितः। गौरुवाचाथकौंडिन्यंनानंतंवेद्मन्यहंविभो ॥४९॥
ततोजगामाथवनेगोवृषंशाड्वलेस्थितम् । द्दष्टवाप्रच्छगोस्वामिन्ननन्तोलक्षितस्त्वया ॥५०॥
गोवृषस्तमुवाचाथनानंतोवीक्षितोमया । ततांव्रजन्ददर्शाग्रेरम्यंपुष्ककरिणीद्वयम् ॥५१॥
अन्योन्यजलकल्लोलवीचिभिःपरिशोभितम् । छन्नंकुमुदकह्लारैःकुमुदोत्पलमंडितम् ॥५२॥
सेवितंभ्रमरैर्हंसैश्वकैःकारडवैर्बकैः । तमपृच्छद द्विजोनंतोभवद्भन्यांनोपलक्षितः ॥५३॥
ऊचतुःपुष्करिण्यौतंनानन्तंविद्वहेद्विज । ततोब्रह्मन्ददर्शाग्रेगर्दभंकुञ्जरंतथा ॥५४॥
तावप्युक्तौसुमतेनतस्यापिविनिवेदितम् । नावाभ्यांवीक्षितोनंतस्तच्छुत्वानिषसादह ॥५५॥
तस्मिन्क्षणेमुनिवरेकौंडिन्येब्राह्मणोत्तमे । कृपयानंतदेवोपिप्रत्यक्षःसमजायत ॥५६॥
वृद्धब्राह्मणरूपेणइतएहीत्युवाचतम् । प्रवेशयित्वास्वगृहीगृहीत्वादक्षिणेकरे ॥५७॥
तांपुरींदर्शयामासदिव्यनारनिरैर्युताम् । तस्यंनिविष्टमात्मानंवरसिंहासनेनृप ॥५८॥
पार्श्वस्थशंखचक्रातिगदागरुडशोभितम् । दर्शयामासविप्रायपूर्वोक्तंविश्वरूपिणम् ॥५९॥
विभूतिभेदैश्वानन्तमनन्तंपरमेश्वरम् । तंद्दष्टवातुद्विजोनन्तमुवाचपरयामुदा ॥६०॥
पापोहंपापकर्माहंपापात्मापापसंभवः । व्राहिमांपुण्डरीकाक्षसर्वपापहरोभब ॥६१॥
अद्यमेसफलंजन्मजीवितचसुजीवितम् । चूतवृक्षोवृषःकस्तुकागौःपुष्करिणीद्वयम् ॥६२॥
गर्दभंकुञ्जांचैवदेवमेब्रूहितत्त्वतः । अंनत उवाच ॥ चूतबृक्षोहिविप्रोसौविद्वान्योवेदगर्वितः ॥६३॥
विद्यादानंनोपकुर्वञ्छिष्येभ्यस्तरुतांगतः । सागौर्वसुन्धराद्दष्टानिष्फलायात्वयेक्षिता ॥६४॥
सहर्षोव्रुषभोद्दष्टोलाभार्थंयस्त्वयावृतः । धर्माधर्मव्यवस्थानं तच्च पुष्करिणी द्वयम् ॥६५॥
खरः क्रोधस्त्वया द्दष्टः कुंजुरो धर्मदषकः। ब्राह्मणोसावनंतोहंगूढःसंसारगह्ररे ॥६६॥
इत्युक्तं ते मया सर्वं विप्र गच्छ पुनर्गृहम् । चरानंतव्रतं तत्त्वं नव वर्षाणि पंच च ॥६७॥
ततस्तुष्टः प्रदास्याभि मक्षव्रस्थानमुत्तमम् । भुक्त्वा च विपुलान्भोगान्सर्वान्कामान्यथेष्सितान् ॥६८॥
पुव्रपौव्रैः परिवृतस्ततो मोक्षमवप्स्यसि । इति दत्वा वरो देवस्तव्रैवांतरधीयत ॥६९॥
कौंडिन्योप्यागतो गेहे चचारानंतसद्व्रतम् । शीलया सह धर्मात्मा भुक्त्वाभोगान्मनोरमान् ॥७०॥
अंते जगाम च स्वर्गं नक्षव्रं च पुनर्वसुम् । कल्पस्थायी च संभूतो द्दश्यतेद्यापि स ज्वलन् ॥७१॥
अनंतव्रतधर्मेण सम्यक्चीर्णेन कौरव । एतत्ते कथितं पार्थ व्रतानामुत्तमं व्रतम् ॥७२॥
यत्कृत्वा सर्वपापेभ्यो मुच्यते नाव्र संशय़ः ॥७३॥
ये च शृण्वंति सततं वाच्यमानं नरोत्तम । ते सर्वे पापनिर्मुक्ता यास्यन्ति परमां गतिम् ॥७४॥
संसारसागःगुहां सुसुखं विहर्तुं वांछन्ति ये कुरुकुलोद्भव शुद्धसत्वाः । संपूज्य ते व्रिभुवनेशमनंतदेवं बन्धन्ति दक्षिणकरे वरदोरकं मे ॥७५॥ [ ४००९ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्टिरसंवादे अनंतचतुर्दशीव्रतं नाम चतुर्नवतितमोऽध्यायः ॥९४॥