श्रीकृष्ण उवाच ॥
फाल्गुनेऽमलपक्षस्य एकादश्यामुपोषितः । नरो वा यदि वा नारी समभ्यर्च जगत्पतिम् ॥१॥
द्वरेर्वाम वदन्भक्त्या भाबयुक्तो युधिष्ठिर । उत्तिष्ठन्प्रस्वपश्वैव हरिमेवानुकीर्तयेत् ॥२॥
ततोऽन्ये दिवसे प्राप्ते द्वादश्यां नियतो इरिम् । स्त्रात्वा सम्वक्समभ्यर्ग्य दत्त्वा विप्राय दक्षिणाम् ॥३॥
हरिमुद्दिश्य चैवाग्नौ घृतहोमकृतक्रियः । प्रणिपत्य जगन्नाथमिति वाणीमुदीरयेत् ॥४॥
पातालसंस्थां बसुधां यां प्रसाय मनोरथान् । अवाप वसुदेवोऽसौ प्रदद्यात्तु मनोरथान् ॥५॥
यमभ्यर्च्य दिवि प्राप्तः सकलांश्व मनोरथान् । भ्रष्टराज्यश्व देवेन्दो यमभ्यर्च्य जगत्पतिम् ॥६॥
मनोरथानभिनवान्प्राप्तवांश्व मनोहराम । पवमभ्यर्च्य पूजां च निष्पाय च व्रतं तथा । भुञ्जीत प्रयतः सम्यरहविष्यं पाण्डुनन्दन ॥७॥
फाल्गुने चैव्रवैशाखे ज्येष्ठे मासि च सत्तम । चतुर्भिः पारणं मासैरेभिंनिष्यादितं भवेत् ॥८॥
रक्तपुष्पैश्व चतुरो मासात्कृवींत चार्चंनम् । दहेतुः गुग्गुलु प्राश्य गोशृङ्गक्षालनं जलम् ॥९॥
हविष्याव्रं च नैव्रेद्यमात्मनश्वपि भोजनम् । ततश्व श्रूयतां पार्थ आषाढादौ तु या क्रिया ॥१०॥
जातीपुष्पाणि घूपश्व शस्तः सार्जरसो नृप । प्राश्य दर्भोदक चास्य शाल्यन्नं च निवेदनम् ॥११॥
स्वयं तदेव चाश्नीयाच्छेषं पूर्ववदाचरेत् । कार्तिकादिषु मासेषु गोमूवं कायशोधनम् ॥१२॥
सुगन्धं चेच्छया धूपं पूजां भृङ्गारकेन च । कांसारं चाव्र नैवद्यमश्नीयातच्च वै स्वयम् ॥१३॥
प्रतिमासं च विप्राय दातव्या दक्षिणा तथा । पारणं चेच्छया विष्णोः पारणं पावनं मतम् ॥१४॥
यथाशक्त्या यथाप्रीत्या वित्तशाठन्यं विवर्जर्यत् । सद्भावेनैव गोविन्दः पूजितः प्रीयते यतः ॥१५॥
पारनान्ते यथाप्रीत्या स्त्रापितः पूजितो हरिः । प्रीणितश्वेप्सितान्कामांस्तान्ददात्यव्ययान्नृप ॥१६॥
वर्षान्ते प्रतिमामिष्टां कारयित्वा सुशोभनाम् । स्वर्णकां च यथाशक्त्या शङ्खशार्ङ्गबिभुषिताम् ॥१७॥
पुष्पवस्त्रयुगच्छव्रां ब्राह्मणाय निवेदयेत् । हादशब्राह्मणांस्तव्र भोजयित्वा क्षमापयेत् ॥१८॥
द्वादशाव्र प्रदातव्याः कुम्भाः सान्नजलाक्षताः । छव्रोपानाधुगेः सार्द्धं दक्षिणाभिश्व भारत ॥१९॥
पषा पुण्या पापहरा द्भादशी फलसिम्छताम् । यथाभिलषितान्कामान्ददाति नूपसत्तम ॥२०॥
पूरयस्यास्विलान्मक्त्या यतश्वैषां मनोरथात् मनोरथा द्वादशीयं ततो लोकेषु बिश्रुता ॥२१॥
उपोष्यैतां व्रिभुवनं लब्धमिन्द्रेण वै पुरा । आदित्याश्वेष्टिताः पुधा धनमौशनसा तथा ॥२२॥
धौम्येनाध्ययनं प्राप्तमन्यैश्वाभिमतं फलम । राजर्पिभिस्तथा बिप्रैः खीबिट्शूद्रैश्व भूतले ॥२३॥
यं यं काममभ्यध्याय व्रतमेतदुपोषितम् । तत्तदान्पोत्यसंदिग्धं विष्णोराराधनोद्यतः ॥२४॥
अपुव्रो लमेते पुव्रमधनो लभते धनम् । रोगाभिभूतश्वारोग्यं कन्या प्रान्पोति सत्पतिम् ॥२५॥
समागमं प्रवानैरुपोष्यैतामवाप्यते । सर्वान्कामानवान्पोति मृतः स्वर्गे च मोदते ॥२६॥
नापुव्रो नाघनो ज्येष्ठो वियोगी न च निर्गुणः । उपोष्यैतद्व्रतं मर्त्यः स्त्री शूद्रो वापि जायते ॥२७॥
स्वर्गलोके सहस्त्राणि वर्षाणामयुतानि च । भोगानभिमतान्भुक्त्त्वा तव्र तव्र यथेच्छया ॥२८॥
इह पुण्यवतां नृणां धनिनां लघुशालिनास् । गृहे प्रजायते राजन्सर्वव्याधिविवर्जितः ॥२९॥
न द्वादशीमुपवसन्ति मनोरथाख्यांनैवार्चयन्ति पुरुषोत्तममादिदेवम् । गोब्राह्यणांश्व न नमन्ति न पूजयन्ति ये ते मनोमिलषितं कथसान्पवन्ति ॥३०॥ [ ३३०२ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे मनोरथद्वादशीव्रतवर्णनं नामाशीतितमोऽध्यायः ॥८०॥