संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १७७

उत्तर पर्व - अध्याय १७७

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

अगस्त्येन पुरा गीतो दानानां विधिरुत्तमः । शृणु त्वं राजशार्दूल कथ्यमानं मयाधुना ॥१॥

येन दत्तेन राजेन्द्र सर्व पापं व्यपोहति । मानसं वाचिकं वापि कायिकं च सुदुस्तरम् ‍ ॥२॥

मंगल्यं मंगलं पुण्यं सर्वदानेषु चोत्तमम् ‍ । धन्यं यशस्यमायुष्यं परलोकभया पहम् ‍ । ब्रह्मांडं कांचनं कृत्वा सर्वलक्षणसंयुतम् ‍ ॥३॥

देवसुरमनुष्यैगंधर्वोरमराक्षसैः । संयुक्तं च नदीभिश्व समुद्रैः पर्वतैस्तथा । विमानशतकोटीभिर्भूषितं चाप्सरोवरैः ॥४॥

दिग्गजाष्टकरसंयुक्तमध्यस्थितचतुर्मुखम् ‍ । शिवाच्युतार्कशशिनमुमालक्ष्मीसमन्वितम् ‍ ॥५॥

तस्यांगे कल्पयेद्राजन्भुवनानि चतुर्दश । वितस्तेरं गुल । यावदायामविस्तरम् ‍ ॥६॥

कुर्यार्द्विशत्पलादूर्ध्वसहस्त्राच्च भक्तितः । शकलद्वयसंयुक्तं पुटाकारं सुसंहितम् ‍ ॥७॥

शिल्पिना विहितं यस्माद्‌ब्रह्मांडं सर्वकामदम् ‍ । अयने विषुवेचैव चंद्रादित्यग्रहे तथा ॥८॥

अन्येष्वपि तु कालेषु श्रद्धावित्तसमन्वितः पुष्पमंडपिकां कृत्वा तत्र संस्थापयेद्‌बुधः ॥९॥

तिलद्रोणोपरिगतं कुंकुअमक्षोदचर्चितम् ‍ संछाद्य पुष्पगंधाधिवासितम् ‍ ॥१०॥

तस्य दिक्षुत्व सर्वासु पूर्णकुंभांश्व विन्यसेत् ‍ । अष्टादशैव धान्यानि द्रोणमात्राण्यहरेत् ‍ ॥११॥

गृहे वा मंडपे वापि स्थापयेत्तद्विचक्षणः । पादुकोपानहच्छत्रभाजनासनदर्पणैः ॥१२॥

संयुक्तं कारयेत्तत्र पयस्विन्या तथैव च । कारयेत्कुंडमेकं तु हस्तमात्रं विधानतः ॥१३॥

चतुश्वारणिकास्तत्र होमं कुर्युर्द्विजोत्तमाः । सर्वाभरणसंपन्नाः सुस्त्राताहतवाससः ॥१४॥

प्रचोयुर्धिजास्तत्र उपाध्यायसमन्विताः । तथा पुरोहितश्वैव राज्ञां षष्ठो विधीयते ॥१५॥

इतरेषा तु पंचैव कुर्युर्यज्ञमतंद्रिताः । ग्रहयज्ञविधानेन ग्रहाणांयज्ञ इष्यते ॥१६॥

ब्रह्मविष्णु शिवानां च तन्नाम्रा जुहुयात्तिलान् ‍ । अयुतं होमयेत्पश्वान्महाव्याहृतिभिर्नृप ॥१७॥

रुद्रजापस्तु कर्तव्यस्तस्यैवा तरं द्विजैः । ततः सर्वसमाप्तौ तु स्नात्वा शुल्कांवरः शुचिः ॥१८॥

ब्रह्मांडं पूजयेद्भक्तया गृहतिकुसुभांजलिः । नमो जगत्प्रतिष्ठाय विश्वधाम्ने नमोस्तु ते ॥१९॥

वाङ्गमयंतिनिमग्नाय ब्रह्मांड शुभकृद्भवा । ब्रह्मांडोदरवर्तीनि यानि सत्त्वानि कानिचित् ‍ ॥२०॥

तानि सर्वाणि मे तुष्टिं प्रयच्छंत्वतुला सदा । ब्रह्मविष्णुश्व रुद्रश्व लोकपालास्तथा ग्रहाः ॥२१॥

नक्षत्राणि तथा नागा ऋषयो मरुतस्तथा । सर्वे भवंतु संतुष्टाः सप्तजन्मांतराणि मे ॥२२॥

इत्युच्चार्य ततो दद्याद्‌चह्यांडं सर्वकाममदम् ‍ । सदक्षिणं च तं कृत्वा वसुसंपादयेद्विजान् ‍ ॥२३॥

अनेन विधिना दत्त्वा यत्पुण्यं स्यान्नरोत्तम । तत्तेऽहं संप्रवक्ष्यामि शृणुष्व गदतो मम ॥२४॥

आसीदादियुगे राजा सुघुम्रो नाम भारत । नागायुतबलः श्रीमान्बहुभृत्यपरिच्छदः ॥२५॥

त्रिंशद्वर्षसहस्त्राणि कृत्वा राज्यमकंटकम् ‍ । ततः संस्थाप्य तनयं राजा राज्ये वनं ययौ ॥२६॥

प्रविश्य च वनं घोरं तपस्तोब्र चचार ह । अध्यात्मगतित्वज्ञः कर्मकांडं विसृज्य च ॥२७॥

कालेन महता राजा दिष्टांतमगमत्पुरा । दिव्यं विमानमारुह्य नानाबाधद्यरवाकुलम् ‍ ॥२८॥

अतीत्य शक्रलोकादीन्ब्रह्मलोकमितो गतः । तस्यासनं दिदेशाथ ब्रह्मा सुरगणैर्वृतः ॥२९॥

दिव्यं कनकचित्रांग रत्नालंकृतविग्रहम् ‍ । एवं लोकवरे तस्मिन्रममाणो नृपोत्तम ॥३०॥

आस्ते चानुदिनं सोऽथ दिव्यभोगविवर्जितः । वसतस्तस्य राज्ञस्तु शरीरं परितप्यते ॥३१॥

बुभुक्षया नरश्रेष्ठ तथात्यंत पिपासया । स पीडयमानो ब्रह्माणं कृतांजलिरभाषत ॥३२॥

भगवन्ब्रह्यलोकोऽयं सर्वदोषविवर्जितः । अत्र स्थितं च मां देवं क्षुतुष्णा च प्रबाधते ॥३३॥

कन कर्मविपाकन क्षुधो मे नापसर्पति । ब्रह्मलोके गतस्यापि संशयं छेत्तुमर्हसि ॥३४॥

ब्रह्योवाच । त्वया हि क्रुर्वता राज्य पुष्टान्यंगानि पार्थिव । नैव दत्तं तु बहुलमात्मवादरतेनवै ॥३५॥

दानं वंधात्मकं मत्वो तस्माद्दत्तं त्वया नहि । ज्ञानाद्‌ब्रह्मपदं प्राप्तमदानात्क्षुत्प्रबाधते ॥३६॥

राजोवाच ॥ भगवंस्तृषापनृत्तिः स्यात्कथं मे परमेश्वर । उपदेशप्रदानेन प्रसादं कर्तृमर्हसि ॥३७॥

ब्रह्मोवाच ॥ भूयो गत्वा महीं राजन्ब्रह्मांडं सार्वकामिकम् ‍ । प्रयच्छ द्विजमुख्यानां तेन तृप्तिमवाप्स्यासे ॥३८॥

इत्युक्तः सम्यगागत्य मर्त्यलोकं महीपतिः । ब्रह्मांडं तु विधानेन ब्राह्मणेभ्यः प्रदत्तवान् ‍ ॥३९॥

स जगाम पुनः स्वर्ग लेभेतृप्ति च शाश्वतीम् ‍ । एतत्ते सर्वमाख्यातं महादानरय यत्फलम् ‍ ॥४०॥

ब्रह्मांड यः प्रयच्छेत तेन दत्तं चराचरम् ‍ । सप्तावरान्सप्तपरान्सप्तचैव परावरान् ‍ ॥४१॥

तरयेत्कलजान्दत्वा भविष्यांश्व न संशयः । मन्वंतराणि षट्‌शदूब्रह्मलोके महीयते ॥४२॥

पुनमार्नृष्यमभ्येत्य धार्मिको जायते कुले । न दारिघ्रं न च व्याधिर्वियोगं नवि पश्यति ॥४३॥

नारी वा पुरुषो वापि दानस्यास्य प्रभावतः । यश्वैतच्छृणुयाद्भक्या भक्तानां श्रावयेच्च यः ॥४४॥

सोऽपि सद्बति माप्नोति किं पुनर्यः प्रयच्छति ॥४५॥

ब्रह्मांडखंडयुगल सकुलाचलं च दिग्भागसागरसरोवरासद्धजुष्टम् ‍ । दिक्सख्यया गुणवतां द्विजसत्तमानां दत्त्वा पुमान्पदमुपैति पितामहरय ॥४६॥ [ ७७२६ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे ब्रह्मांडदानविधिवर्णन नाम सप्तसप्रत्युत्तरशततमोऽध्यायः ॥१७७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP