श्रीकृष्ण उवाच ॥
अथ नक्तोपवासस्य विधानं शृणु पाण्डव । येन विज्ञातमाव्रेण नरो मोक्षमवान्पुयात् ॥१॥
येषु येषु च मासेषु शुक्लपक्षे चतुर्दशीम् । ब्राह्मणं भोजयित्वा तु प्रारभेत्तु ततो व्रतम् ॥२॥
मासि मासि भवन्ति द्वावष्टम्यौ च चतुर्दशी । शिवार्चनरतो भूत्वा शिवध्यानैकमानसः ॥३॥
बसुधाभाजनं कृत्वा भुञ्जीयान्नक्तभोजनम् । उपवासात्परं भैक्ष्यं भैक्ष्यात्परमयाचितम् ॥४॥
अयाचितात्परं नक्तं तस्मान्नकेन भोजयेत् । देवैश्व भुक्तं पूर्वाह्ले मध्याह्रे मुनिभिस्ताथा ॥५॥
अपराह्रे च पितृभिः संध्यायां गुह्यकादिभिः। सर्वलोकानतिकम्य नक्तभोजी सदा भवेत् ॥६॥
हविष्यभोजनं स्त्रानं सत्यमाहारलाघवम् । अग्निकार्यमधःशय्या नक्तभोजी सदा भवेत् ॥७॥
एवं संवत्सरस्यांते पाव्रं पूर्णंतु सपिंषः । पूर्णकुंभोपरिस्थाप्य पूजयेच्च सुशोभने ॥८॥
कपिलापंचगव्येन स्थापयेन्मृन्मयं शिवम् । फलं पुष्णं यव क्षीरं दघि दभींकुरांस्तथा ॥९॥
घृतंकुंभस्थजलीन्मिश्रमर्धमष्टाङ्गमुच्यते । शिरसा घारयित्वा तू जानूकृत्वा महीतले ॥१०॥
महादेवाय दातव्यं गंधपुष्पं यथाक्रमम् । मक्ष्यौदनैर्बलिं कृत्वा प्रणम्य परमेश्वरीम् ॥११॥
धेनुं वा दक्षिणां दद्याद्वृषं वापि धुरंघरम् । श्रीव्रियाय दरिद्राय कल्पव्रतविदाय च ॥१२॥
यो ददाति शिवे भक्त्या तस्य पुण्यफलं शुणु । विमानमर्कप्रतिमं हंसयुक्तमलंकृतम ॥१३॥
आरूढोऽप्सरसांगीतैर्याति रुद्रालये सुखम् । स्थित्वा रुद्रस्य भवने वर्षकोटिशतव्रयम् ॥१४॥
इह लोके नृपश्रेष्ठ ग्रामलक्षेश्वरो भवेत् ॥१५॥
यश्वाष्टमीषु च शिवासु चतुर्दशीषु नक्तं समाचरति शास्त्रविधानदृष्टम् । स्वर्गांगनाकलरवाकुलितं विमानमारुह्य याति स सुखेत सुरेशलोकम् ॥१६॥ [ ४०७३ ]
इति श्रीभविष्ये महापुरा णे उत्तरपर्वणि श्रीकृष्णयुधिष्टिरसंवादे षप्णवतितमोऽध्यायः ॥९६॥