श्रीकृष्ण उवाच ॥
अथान्यदपि ते वच्मि संक्रांतद्यापने फलम् । यदक्षयं परं लोके पुराणकवयो विदुः ॥१॥
विषुवे अयने वापि संक्रातिव्रतमारभेत । पूर्वेद्युरेकभक्तेन दंतधावनपूर्वकम् ॥२॥
संक्रांतिवासरे प्राप्ते तिलैः स्त्रानं विधियते । अभिसंक्रमणं भूमौ चन्दनेनाष्टपत्रकम् ॥३॥
पद्मं सकर्णिकं कुर्यात्तस्मिन्नावाहयेद्रविम् । कर्णिकायां न्यसेत्सूर्यमादित्यं पूर्वतरततः ॥४॥
नमः सप्तार्चिषेऽग्नेये याम्येऽरुङ्रमण्डलाय च । नमः सवित्रे नैऋत्ये वारुणे यजेत् ॥५॥
सप्तसप्तिं च वायव्ये पूजयेद्भास्वतां पतिम् । मार्तडमुत्तरे विष्णुमीशाने विन्यसेद्दले ॥६॥
गंधमाल्यफलैर्भक्ष्यैः स्थंडिले पूजयेत्ततः । चन्दनोदकपुष्पैस्तु दत्वार्घ विन्यसेद्भुवि ॥७॥
नमस्ते विश्वरुपाय विश्वधाम्रे स्वयंभुवे । नमो नमस्ते वरद ऋक्सामजयुषांपते ॥८॥
अनेन विधिना दत्वा भानवेऽर्घ्य नरोत्तम । द्विजाय सोदकं कुंभं घृतपात्रं हिरण्ययम् ॥९॥
कमलं च यथाशक्त्या कारयित्वा निवेदयेत् । विधिनानेन कर्तव्यं मासि मासि नरोत्तम ॥१०॥
एकत्रक्ताशनैः पुंभिः सर्वमेतद्यथाविधि । एकस्मिन्नाही कर्तव्यं वत्सरांतेऽथवा पुनः ॥११॥
कौतेय तस्मिन्घृतपायसेण संपूज्य वह्रिं द्विजपुंगजाय । कुंमान्पुनर्द्दादशधेनुक्तान्दौर्गत्ययुक्तः कुशलामथै काम् ॥१२॥
निवेदयेद्ब्राह्मणपुङ्गवाय हैमीं च दद्यात्पृथिवीं ससस्याम् । शक्त्याथ रौप्यामथवापि ताम्रीं पैष्टीमशक्तो वसुधां विधाय ॥१३॥
सौवर्ण सूर्येण समं प्रदद्यान्न वित्तशाठ्यं पुरुषोऽत्र कुर्यात् । फुर्वन्नधी याति नरेन्द्र चंद्र यावन्महेन्द्रप्रमुखाः सुरेशाः ॥१४॥
पृथ्वी च यावत्सकुला च यावरु सूर्यानिलयतिविंचंद्राः । तावत्संगंकुलैरशेषैः संपूज्यते भारतनाकपृष्ठे ॥१५॥
ततस्तु कर्मक्षयप्राप्य सप्तद्वीपधिपः स्यात्सुकुलप्रसुतः । दिव्यै सुखैर्युक्तवपुः सभार्षः प्रभूतपुत्रान्वयबंधुवर्मः ॥१६॥
इति पठति शृणोति ; योऽतिभक्त्या विपिमखिलं रविसंक्रमेष्ठु पुण्यम् । मतिमपि च ददाति सोऽपि देवैरमपतिप्रमुस्वैर्मतस्तु पूज्यः ॥१७॥ [ ४९२५ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे संकांत्युद्यापनवर्णनं पाठतोत्तरशततमोऽध्यायः ॥११६॥