श्रीवसिष्ठ उवाच ॥
अथान्यदपि ते वच्मि व्रतं राजन्महाफलम् । अपराधशतं येन क्षयं याति श्रृणुष्व तत् ॥१॥
इक्ष्वाकुरुवाच ॥
किं व्रतं तन्ममाचक्ष्व कीऽपराधशतं वद । कः पूज्यते च वै तस्मिन्कदा वा क्रियते नरैः ॥२॥
श्रीवसिष्ठ उवाच ॥
शृणु राजन्महाबाहां अपराधशतव्रतम् । येनानुष्ठितमात्रेण काममोक्षो लभेन्नरः ॥३॥
प्रायश्वित्तान्यशेषाणि सर्वपापापनुत्तये । कृतान्यप्यकृतानि स्युरिति होवा च पद्मजः ॥४॥
पापं गुरुतरं चापि दह्यते तुलराशिवत् । अपराधशतं राजञ्छुणुष्व गदतो मम ॥५॥
न करोति नरो मोहाद्व्रतद्दिने दिने । अनाश्रमित्वं प्रथमोऽनग्निता व्रराहीनता ॥६॥
अदातृत्वमशौच च निर्दयत्वं स्पृहालुता । अक्षांतिर्जनपीडा च मायित्वमप्यमंगलम् ॥७॥
क्षतव्रतत्वं नास्तिक्यं वेदनिंदा कठोरता । असल्यता हिंसकत्वं स्तैन्यमिन्द्रियविप्लवः ॥८॥
मनसोऽनिग्रश्वैव क्रोध ईर्ष्याथ मत्सरः । दंभः शाठ्यं च धौर्त्य च कटुकोक्तिः प्रमादता ॥९॥
भार्यामातृसुतादीनां त्यागश्वापूज्यपूजनम् । श्राद्धह्यनिर्जपन्यागः पंचयज्ञविवर्जनम् ॥१०॥
संध्यातर्पणहोमानां हानिरग्नेः प्रणाशनम् । अनृतौ मैथुनं पार्थ पर्वण्यपि च मैथुनम् ॥११॥
पैशुनं परदारेषु दानं वेश्याभिगामिता । अपात्रदानं चांचल्ये मलिकादिकभक्षणम् ॥१२॥
अंत्यजागमनं मातृत्यागः पितृविवर्जनम् । पित्रोरभक्तिर्वादश्व पुराणस्मृतिवर्जनम् ॥१३॥
अमक्ष्यभोजनं चापि पतिद्रोहोऽविचाता । कृषिकर्मक्रियाबाहं भार्यांसंग्रहकारिता ॥१४॥
इंद्रियाजयमायित्वं विद्याविस्मरणं तथा । शास्त्रत्याग ऋणं चित्रकर्म चानंगधावनम् ॥१५॥
भार्यापुत्रसुतादीनां विक्रयः पशुमैथुनम् । इन्धनार्थ द्रुमच्छेदी बिले वार्यादिपूरणम् ॥१६॥
तडागभेदनं राजन्विद्याविक्रयकारिता । वृत्तिलोपो महीपाल याचाकत्वं कुमित्रता ॥१७॥
स्त्रीवधो गोवधश्वैव पौरोहित्यं सुहृद्वधः । भ्रूणहत्या परान्नं च शूद्रान्नस्य निषेवर्णन ॥१८॥
शूद्रस्य चाग्रिकर्म त्वमविधित्वं कुपुत्रता । विद्वद्भयो याचकत्वं हि वाचाटत्वं प्रतिग्रहः ॥१९॥
श्रौतसंस्कारहीनत्वमार्तत्राणविवजैनम् । ब्रह्महत्या सुरापानं रुक्मस्तैन्यमतः परम् ॥२०॥
गुरुदाराभिगामित्वं संयोगश्वापि तै सहः । अपराधशतं त्वेतत्कथितं ते गयानघः ॥२१॥
अन्येऽपि विविधाः संति प्रोक्ताः प्राधान्यत्स्वमी । यदि वक्रसहस्त्राणि वक्रे जिह्राशतानि च ॥२२॥
तथाप्येते न शक्यंते वक्रुं यस्मादनंतकाः । अपराधसहस्त्राणी लक्षकोटिशतानि च ॥२३॥
नश्यंति तत्क्षणान्नूनं सत्येशस्यानुपूजनात् । पूज्यते भगवानत्र व्रतकृत्ये पराजिते ॥२४॥
ध्वजे सत्यः स्थितश्वायं लक्ष्म्या सह जगत्पतिः । वामदेवस्ततः पूर्व नृसिंहो दक्षिणे स्थितः ॥२५॥
कपिलः पश्चिमास्ये तु वार्वाहश्वोत्तरे स्थितः । ऊर्ध्ववक्रोऽच्युतो ज्ञेय एतद्वैब्रह्मापञ्चकम् ॥२६॥
तं सत्येशं स्थितं राजन्पूजयेच्च सदैव हि । क्षीरोदेअर्धचन्द्रस्थपद्मकर्णिकसंस्थितम् ॥२७॥
पद्मक्ॐओदकीशंखचक्रायुधबिधारणम् । वामेचाधस्तथादक्षे ऊर्ध्वेपश्वादधोनृप ॥२८॥
पादाधस्ताद्विनीष्क्रांता गंगा पूता सदा नृभिः । शक्त्यष्टकं तथाचान्यत्तन्नामानि च मेशृणु ॥२९॥
जया च विजया चैव जयंती पापनाशिनी । उन्मीलनी वंजुली च त्रिस्पृशाक्षविवर्द्धना ॥३०॥
एताभिः शक्तिभिर्युक्तं लोकदिक्पालवर्जितम् । शुल्कांबरधरं सौम्यं प्रहृष्टवदनं शिवम् ॥३१॥
सर्वाभरणशोभाढ्यं भुक्तिमुक्तिप्रदं हरिस् । पूजयेच्च प्रयत्नेन विधिना येन तं शृणु ॥३२॥
मार्गशीर्षादिमासेषु द्वादशस्वपि सर्वदा । द्वादश्यामावास्यामष्टम्यांचसितासिते ॥३३॥
कृतोपवासः शुद्धात्मा कुर्याद्व्रतमतंद्रितः । पक्षयोरुभयोरेवं पूजयेऽहं जनार्दनम् ॥३४॥
एवं तु नियमं कृत्वा दंतधावनपूर्वकम् । गच्छेततस्तडागे वा पुष्करिण्यां गृहेऽपि वा ॥३५॥
स्त्रात्वा तु नैत्यकं कर्म कृत्वानैमित्तिकंततः । कुर्यात्सर्वं प्रयत्नेन यथावदनपूर्वशः ॥३६॥
सौवर्ण कारयेद्देवं पूर्वोक्तं सत्यरुपिणिम् । शक्त्यष्टकयुतं लक्ष्म्या युक्तं पद्मासनस्थया ॥३७॥
सुवर्णपलमानेनकार्यमेतत्सावस्तरम् । दुग्धकुंभोपरिष्टात्तु स्वर्णपद्मं प्रकल्पयेत् ॥३८॥
तत्कर्णिकागतं देव्म शक्तिवृन्दसमन्वितम् । पूजयेद्विधिवत्पश्वाद्रुरुमंत्रप्रचोदितः ॥३९॥
शुद्धशुल्काम्बरधरो मंत्रसंभारसंस्थितः । देव क्षीरसमुद्रेऽस्मिन्यत्र वै चंद्र आस्थितः ॥४०॥
तत्र त्वं सत्यया सार्व्ह सत्येश भव सन्निधौ । ॐक्षीरसागरकल्लाले स्त्राहि पपनिषूदन ॥४१॥
अनेन भूतभव्येन दत्तेन जलबिन्दुना । हरस्व सर्व दुरितं मम नाथ जनार्दन ॥४२॥
वस्त्रदानेन शुभ्रेण सत्येश कुरु ने शुभम् । यज्ञे योगे तथा सांख्ये पवित्रस्त्वं सदोच्यसे ॥४३॥
यज्ञोपवीतदानेन कुरु मां सर्वपावनम् । विलिप्तं कर्मणा सर्व सत्यं सत्यं नमोऽस्तुते ॥४४॥
मम चन्दनलिप्तांगः सर्वलेपापहो भव । सत्यनाथ नमस्तुभ्यं मूर्तामूर्त स्वरुपिणे ॥४५॥
वासुदेव नृसिंहाख्य कपिलादिव्यभूधर । वाराहाच्युत यज्ञेश लक्ष्मीकांत नृपेश्वर ॥४६॥
पशुं पुत्रं च मे देहि पापशत्रो निरंजन । संकर्षण महावीरसर्वेशामितविक्रम् ॥४७॥
अनिरुद्धेन्द्र गोविन्द घृतचक्र नमोऽस्तु ते ॥४८॥
पूजामंत्रः ।
कृष्ण कृष्ण प्रभो राम राम कृष्ण विभो हरे । त्राहि मां सर्व दुःखेभ्यो रनया सह माधव ॥४९॥
पूजा चेयं मया दत्तापितामहजदुरो । गृहाण जगदीशान नारायण नमोऽस्तुते ॥५०॥
धनं गुप्तं महीपाल सर्व पापापनुत्तये । एकस्यैव तु विप्रस्य यावद्वर्षे समर्पयेत ॥५१॥
दानं दद्यान्महाराज ह्यशक्तौ तदभावतः । पक्षे पक्षे प्रकर्तव्यं व्रतमेतन्महत्ताम् ॥५२॥
संवत्सरे ततः पूर्णे कुर्यादुद्यापनं बुधः । पूर्ववत्पूजयेदेवं बहुसंभारविस्तरैः ॥५३॥
अनुज्ञांपार्थयेद्विप्रान्पापध्वंसोममास्तुवै । पापध्वंसोस्तु सततं तवेति च द्विजो वदेत् ॥५४॥
ततः सर्व ब्राह्मणाय समर्प्य च क्षमापयेत् । अस्मिन्व्रते कृते राजन्भवेद्वहुफलोदयः ॥५५॥
यत्फलं सर्ववेदेषु सर्वतीर्थेषु वत्फलम् । तत्फलं कोटिगुणितं व्रतस्यास्य निषेवणात् ॥५६॥
इहलोके धनं धान्यं पुग्रमित्रसुखादिकम् । प्राप्नोति पुरुषः सन्यग्विद्यारोग्य कलायुधम् ॥५७॥
धर्ममर्थ च कामं च मोक्षं च नृपसत्तम । लभते नात्र संदेहो ब्रह्मणो वचनं यथा ॥५८॥
यः पठेच्छुणुयाद्वापि सर्वपापैः प्रमुच्यते । यः कर्यात्पुनरेतद्धिसोऽनन्तफलभग्भवेत् ॥५९॥
अशक्तस्तु तथाशक्तो वित्तशाठ्यविवर्जितः । व्रतं कुर्वन्नरो भक्त्या लभते शाश्वतं पदम् ॥६०॥
कृते वै क्रियमाणे तु कर्ता फलमवाप्नुयात् । अपराघशताघौघं व्रतेनानेन नाशयेत् ॥६१॥ [ ६५६१ ]
इति श्रीभविष्येमहापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे अपराधव्रतवर्णनं नामषट्चत्वारिशदुत्तरशततमोऽध्यायः ॥१४६॥