युधिष्ठिर उवाच ॥
केन धर्मेण नारीणां व्रतेन नियमेन च । सौभाग्यं जायतेऽतीव पुव्राश्व बहवः शुभाः ॥१॥
धनं धान्यं सुवर्णं च वस्त्राणि विविधानि च । अवियोगं च सततं लभते पुव्रपौव्रयोः ॥२॥
श्रीकृष्ण उवाच ॥ शृणु पार्थ प्रवक्ष्याभि व्रतानामुत्तमं व्रतम् । यत्कृत्वा सुभगा नारी बह्रपत्या च जायत ॥३॥
धनं धान्यं हिरण्यं च दासीदासादिकं बहु । उत्पद्यते गृहे येन तद्व्रतं कथयामि ते ॥४॥
उमामहेश्वरं नाम अप्सरोभिः पुरा कृतम् । विद्याधरैः किन्नरैश्व ऋषिकन्याभिरेव च ॥५॥
रूपिण्या रम्भया चैव सीतयाऽहल्यया तथा । रोहिण्या दमयन्त्या च तारया चानसुयया ॥६॥
एनाभिश्वरितं पार्थ व्रतं सर्वव्रतोत्तमम् । सौभाग्यारोग्यफलदं दारिद्यव्याधिनाशनम् ॥७॥
मत्यलोके स्त्रियो याश्व दुर्भगा रूपवर्जिताः । अपुव्रा निर्धनाश्ववै सर्व भोगविवर्जिताः ॥८॥
तासां हिनार्थं पार्वत्या उमामहेश्वरं व्रतम् । अवतारितं पुरा पार्थ न जान , न्त्यधमाः स्त्रियः ॥९॥
पूर्वं मार्गशिरे माति नारी धर्मपरायणा । शुक्लपक्षे तृतीयायां सोपवासा जितेन्द्रिया ॥१०॥
स्त्रात्वा संपूज्य ललितां हरकायार्धवासिनीम् । पुनः प्रभातसमये स्नानं चाकृव्रिमे जले ॥११॥
कृत्वा देवीस्तर्ययित्वा इदं वाक्यमुदीरयेत् । नमो स्मस्ते देवेश उमादेहार्द्धधारक ॥१२॥
महादवि नमस्तेऽस्तु हरकायार्द्ध्वासिनि । ह्रदि कृत्वा शिवं देवीं जपेद्यावद्गृहं गता ॥१३॥
पुजयेद्देवमीशानं पुष्पैः कालोद्भवैस्ततः । वामपार्श्वे उमां देवीं दक्षिणे तु महेश्वरम् ॥१४॥
धूपं वा गुरगुलुं वापि दहेत्पश्वात्सुभाविता । नैवेद्यं तु यथाशक्त्या घृतपक्कं निव्रेदयेत् ॥१५॥
कारयेद्वैश्वोवं तु तिलाज्येन सुसंस्कूतम् । पञ्चगव्य ततः प्रास्य आत्मकायविशोधनम् ॥१६॥
एवं द्वादशमासांस्तु पूजपित्वा महेश्वरम् । उद्यापनं ततः कुर्यात्यह्रष्टेनान्तरात्मना ॥१७॥
शिवं रौप्यमयं कृत्वा उमां हैममयीं तथा । आखडौं बुषभे रौप्ये सर्वालङ्कारभुषितौ ॥१८॥
चन्दनेन शिवं चर्च्य कुङ्कुमेन च पार्वतीम् । अर्चयेत्कुसुमैः पश्वात्सुगन्धैः सुमनाहरैः ॥१९॥
वेष्टपच्छुक्लवलेण शिवं रकेन पावतीम् । पश्वाद्भूपं दहेन्नारी भक्तिभावंन भाविता ॥२०॥
भोजयेच्छिवभक्तांश्व ब्राह्मणान्वेदपारगान् । भक्तेभ्यो दक्षिणा देया भक्त्या शाठन्याविबर्जितः ॥२१॥
ततः प्रदक्षिणीकृत्प इदमुच्चारयेदबुधः । उमामहेश्वरौ देवौ सर्वलोकपितापहौ ॥२२॥
व्रतंनानेन सुप्रीतौ भवेताम मम सर्वदा । एवमुक्त्वा जितक्रोवे ब्राह्यणे वेदपारगे ॥२३॥
व्रतं निवेदयेद्भक्त्या वाचके वा गुणान्विते । इदं कृत्वा व्रतं नारी महेशार्पितमानसा ॥२४॥
प्रयाति परमं स्थान यव्र देवो महेश्वरः । शिवलोके वसेनावद्यावदिन्द्राश्वतुर्दश ॥२५॥
अप्मरोभिः परिवुता किन्नरीभिस्तथैव च । यदा मानुष्यमायाति जायते विमले कुल ॥२६॥
रूपयौवनसंपन्ना बहुपुव्रा पतिव्रता । धनधानयसमायक्ते सुवर्णमणिमण्डिते ॥२७॥
यावज्जीवं गृहे रम्ये तिष्ठत्यव्याह्रतेन्द्रिया । वियागं नैव्र सा पश्येद्भर्नृमिव्रसुतादिकात् ॥२८॥
मृता शिवपुरं यानि शिवगौरीप्रमादतः ॥२९॥
हैमीममां रजतपिण्डमयं महेसं रौप्ये सुस्त्रपवृषभे च समास्थितौ नौ । सम्पूज्य रक्तसितवखघुगावगूद्वौ नारी भवत्यविधवा सुतसौखपयूक्ता ॥३०॥ [ ११५५ ]
इति श्रीभविष्ये महायुगण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवाद उमामहेश्वरव्रतं नाम व्रयोविंशतितमोऽध्यापः ॥२३॥