श्रीकृष्ण उवाच ॥
आदिवराहदानं ते कथयामि युधिष्ठिर । धरण्यै यत्पुरा प्रोक्तं वराहबपुषा मया ॥१॥
पुण्यं पवित्रमायुष्यं सर्वदानोत्तमोत्तमम् । महापापादिदोषघ्नं पूजितं धर्मसत्तभैः ॥२॥
देयं संक्रमणे भानो र्ग्रहणे द्वादशीष्वथ । यज्ञोत्सवविवाहेषु दुःस्वप्नाद्धुतदर्शने ॥३॥
यदा च जायते वित्तं चित्तं श्रद्धासमन्वितम् । तदैव दानकालःस्यादध्रुवं जीवितं यतः ॥४॥
कुरुक्षेत्रादितीर्थेषु गंगाद्यासु नदीषु च । पुरेषु च पवित्रेषु अरण्येषु वनेषु च ॥५॥
गोष्ठे देवालये वापि रथे वा स्वगृहांगणे । देयं पुराणविधिना ब्राह्मणाय कुटुंबिने ॥६॥
कुशैरास्तीर्य तां पार्थ प्रणवाक्षरमंत्रितैः । उपरिष्टात्तिलैस्तेषां वराहं परिकल्पयेत् ॥७॥
द्रोणैश्वतुर्भिः संपूर्ण तदर्धेनाथवा पुनः । आढकेनाथकुर्वीत वित्तशाठ्यं न कारयेत् ॥८॥
सुवर्णेन मुखं कार्य भुजौ चक्रादान्वितौ । पुष्पैर्वाकरयेद्विद्वान्पादौ रुप्यमयौ तथा ॥१०॥
दंष्ट्राग्र्लाग्रवसुधां सौवर्णी कारयेच्छुभाम् । सर्वधान्यरसोपेतां वस्त्रालंकृतविग्रहाम् ॥११॥
प्रच्छाद्य वस्त्रैर्देवेशं वराहं सर्व कामदम् । रोम राजिं कुशैः कृत्वा गंधपुष्पैरथार्चयेत् ॥१२॥
नवग्रहमखः कार्यो होमश्वात्र तिलैः स्मृतः । एवं संस्थाप्य विधिवत्ततः स्तोत्रमुदीरयेत् ॥१३॥
वराहेश प्रदुष्टानि सर्वपापफलानि च । मर्द्द मर्द्द महादंष्ट्र भास्वन्कनककुंडल ॥१४॥
शंखचक्रासिहस्ताय हिरण्याक्षांतकाय च । दंष्ट्रा द्धृतधराभृते त्रयीमूर्तिमते नमः ॥१५॥
इच्युच्चार्य नमस्कृत्य प्रदक्षिणमनुव्रजेत् । ततस्तं ब्राह्मणे । दद्याद्वस्त्रलंकारभूषितम् ॥१६॥
प्रतिग्रस्तु तस्योक्तः पादयोः परमर्षिभिः । अनेन विधिना दत्त्वां प्रणिपत्य क्षमापयेत् ॥१७॥
एवं दत्त्वा महीनाथ वराहं सर्वकामदम् । यत्फलं समवाप्नोति पार्थ तत्केन वर्ण्यते ॥१८॥
सर्वदानेषु यत्पुण्यं सर्वक्रतुषु यत्फलम् । तत्फलं समवाप्नोति दत्त्वादेवं जनार्दनम् ॥१९॥
यथा शकवा समुद्धृता वराहेण वसुंधरा । तथा कुलं समद्धृत्य विष्णुलोके महीयते ॥२०॥
ब्राह्मणक्षत्रियविशां स्त्रीणां शूद्रजनस्य च । एतत्साधारणं दानं शैववैष्णवयोगिताम् ॥२१॥
विप्राय वेदविदुषे नृवराहरुपं दत्त्वा तिला मलसुवर्णमयं सवस्त्रम् । उद्धृत्य पूर्व पुरुषान्सकलत्रमित्रः प्राप्नोति सिद्धभुवनं सुरसिद्धजुष्टम् ॥२२॥ [ ७७२७ ]
इति श्रीभविष्य महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे वराहदानविधिवर्णनं नाम चतुर्नवत्युत्तरशततमोऽध्यायः ॥१९४॥