श्रीकृष्ण उवाच ॥
अतः परं प्रवक्ष्यामि तद्वत्कमलसप्तमीम् । यस्याः संकीर्तनादेव तुष्यतीह दिवाकरः ॥१॥
वस्तन्तेऽमलसप्तम्यां स्त्रातः सन्गौरसर्षपैः । तिलपाव्रे च सौवर्णं निधाय कमलं शुभम् ॥२॥
वस्त्रयुग्मवृतं कृत्वा गन्धपुष्पैरथार्चयेत । नमस्ते पद्महस्ताय नमस्ते विश्वधारिणे ॥३॥
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते । ततो द्विकालवेलाथामुदकुम्भसमन्विसम् ॥४॥
विप्राय दधात्संपूज्य वस्त्रमाल्यविभूषणैः । अहोराव्रे गते पश्वादष्टम्यां भोजयेद द्विजान् ॥५॥
यथाशक्त्याथ भुञ्जीत विमांस तैलवर्जितम् । अनेन विधिना शुक्लसप्तम्यां मासि मासि च ॥६॥
सर्वं समाचरेद्भक्त्या वित्तशाठन्यविवर्जितः । व्रतान्ते शयन दद्यात्सुवर्णकमलान्वितम् ॥७॥
गावं स दद्याच्छक्त्या तु सुवर्णाढन्यां पयस्विनीम् । भाजनासनदीपादीन्दद्यादिष्टानुपस्करान् ॥८॥
अनेन विधिना यस्तु कुर्यात्कमलसप्तमीम् । लक्ष्मीमनन्तामभ्येत्य सूर्यलोके च मोदते ॥९॥
कल्पे कल्पे तथा लोकान्सप्त गत्वा पृथक्पृथक् । अप्सरोभिः परिवृतस्ततो याति पराङ्गतिम् ॥१०॥
यः पश्यतीदं शृणुयान्मुहूर्तं पठेच्च भक्त्या सुमतिं ददाति । सोऽप्यव्र लक्ष्मीमचलामवाप्य गन्धर्ववि्द्याधरलोकमेति ॥११॥ [ २०३० ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठरसंवादे कमलासप्तमीव्रतवर्णनं नाम पञ्चाशत्तमोऽध्यायः ॥५०॥