श्रीकृष्ण उवाच ॥
तथान्यामपि ते वच्मि गोविन्दद्वादशीं शृणु । तस्याः सम्यगनुष्ठानात्प्रान्पोत्यभिमतं फलप ॥१॥
पौषे मासे सिते पक्षे द्वादश्यां समुपोषितः । सम्यक्संपूज्य गोविन्दनान्मा देवमधोक्षजम् ॥२॥
धूपपुष्पोपचारैश्व नैवेद्यैश्व समाहितः । गोविन्देति जपेन्नाम पुनस्तद्नतमानसः ॥३॥
विप्राय दक्षिणां दद्याद्यथाशाक्त्या तराधिप । स्वयं विबुद्भस्तुलितो गोविन्द्रेति च कीर्तयेत् ॥४॥
पाखण्डिभिर्विकर्मस्थैरालपांश्व विवर्जयेत् गोमूव्रं गोमयं वापि दधिक्षीरमथापि वा ॥५॥
गोदोहतः समुद्भतं प्राश्नीतात्मविशुद्धये । द्दितीयेऽह्रि पुनः स्त्रानं तथैवाभ्यर्च्य केशवम् ॥६॥
तेनैव नान्मा संपूज्य दत्त्वा विप्रस्य द्वक्षिणाम् । ततो भुञ्जीत गोदोहं संभूतेन समुद्भुवम् ॥७॥
एवमेदाखिलान्मासानुपोष्य प्रयतः शुचिः । दद्याद्नवाह्रिकं विद्वान्प्रतिमासं तु शक्तितः ॥८॥
पारिते च पुनर्बर्षे गोविन्दं पद्मया सह । गोविन्दः प्रीतिमायात व्रतेनानेत मे सदा ॥९॥
विशेषतः पुनर्दद्यात्तस्मिन्नह्रि गवाह्रिकम् । भक्त्या परमया राजञ्छृणु यत्फलमान्पुयात् ॥१०॥
स्वर्णशृङ्गं रौप्यखुरं गोशतं वृषभं वरम् । प्रतिमासं द्विजातिभ्यो दत्वा यत्फलमश्नुते ॥११॥
तदान्पोत्यखिलं सम्यग्व्रतमेतदुपोषितः । तं च लोकमवान्पोति गोविन्दो यव्र तिष्ठति ॥१२॥
गोविन्दद्वादशीमेतामुपोष्यन्ति विधानतः । विद्योतमाना द्दश्यन्ते लोकेऽद्यापि शशाङ्कवत् ॥१३॥
गोविन्दमर्चयति गोरसभोजनस्तु गावो विनोदयति तद्वद्नवाह्रिकश्व । यो द्वादशीषु कुरुराज कृतोपवासः प्रान्पोत्यसौ सुरभिलोकमपेतशोकम् ॥१४॥ [ ३२४६ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादगोविन्दव्रतवर्णनं नामाष्टसप्ततीतमोऽष्यायः ॥७८॥