श्रीकृष्ण उवाच ॥
शृणुष्वावहितो राजन्वक्ष्ये माहेश्वरं व्रतम् । व्रिषु लोकेषु विख्यातं नान्मा शिवचतुर्दशी ॥१॥
मार्गशीर्शव्रयोदश्यां सितायामेकभुङ्नरः । मासेष्वन्येषु वा राजन्पार्थ एवं हि कारयेत् ॥२॥
चतुर्दश्यां निराहारः समभ्यर्च्य महेश्वरम् । सौवर्णं वृषभं दत्वा वक्ष्यामि च परेऽहनि ॥३॥
एवं नियमकृत्सुप्त्वा प्रातरुत्थाय मानवः । कृतस्नानजपः पश्वादुमया सह शंकरम् ॥४॥
पूजयेत्कुसुसैः शुक्लैर्गंधधूपानुलेपनैः । पादौनमः शिवायेति शिरःसर्वात्मनेनमः ॥५॥
ललाटं तु व्रिनेव्राय नेव्राणि हरये नमः । सुखमिन्दुमुखायेति तथेशानाय चोदरम् ॥६॥
पाश्वौं चानंतधमीय ज्ञानरूपाय वै कटिम् । ऊरू चानंताय नमः जानुनी चार्चयेदबुधः ॥७॥
प्रधानाय नमो जंघे गुल्फौ व्योमात्मने नमः । व्योमव्योमात्मरूपाय पृष्ठमभ्यर्चयेन्नरः ॥८॥
नमः सृष्टन्यै पार्वतीं चापि पूजयेत् । ततश्व वृष्णभंहैममुदकुंभसमन्वितम् ॥९॥
शुक्लमाल्यांबरयुतंपञ्चरत्नविभूषितम् । भक्ष्यैर्नानाविधैर्युक्तं ब्राह्मणाय निवेदयेत् ॥१०॥
प्रीयतां देवदेवोऽव्र सद्योजातःपिनाकधूक् । पृषदाज्यं च संप्राश्य स्वपेद्धूमावुदङ्मुखः ॥११॥
पञ्चदश्यां ततः प्रातः सर्वमेतत्समाचरेत् । तर्पयित्वा ततोन्नेन ब्रह्मनाञ्छक्तितः शुभान् ॥१२॥
सुह्रद्भृत्यादि सहितः पश्वाद्भुञ्जीत वाग्यतः । तमः कृष्णचतुर्दश्यामेतत्सर्वं समाचरेत् ॥१३॥
चतुर्दशीषु सर्वाम् कुर्यात्पूर्ववदर्चनम् । ये च मासे विशेषाः स्युस्तान्निबोधक्रमादिह ॥१४॥
मार्गशीर्षादिमसेषु स्वपन्नेतानुदीरयेत् । शंकराय नमस्तुभ्य़ं नमस्ते करवीरक ॥१५॥
व्यंबकाय नमस्तुभ्य़ं महेश्वरमतःपरम् । नमस्तेऽस्तु महादेव स्थाणवे च ततः परम् ॥१६॥
नमः पशुपते नाथनमस्ते शंभवे नमः । नमस्ते परमानंद नमः सोमार्द्धधारिणे ॥१७॥
नमो भीमाय चोग्राय त्वामहं शरणं गतः । गीमूव्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥१८॥
पंचगव्यं तथा बिल्वं यवागूक्षीरवारिजम् । तिलांश्व कृष्णान्विधिव प्राशयेत्समुदाह्रतम् ॥१९॥
प्रतिमासं चतुर्दश्यामेकै प्राशन स्मृतम् । मंदारैर्मालतीभिश्वतथाधत्तूरकैरपि ॥२०॥
सिंदुवारैरशोकैश्व मल्लिकाकुब्जपाटलैः । अर्कपुष्पैः कदंबैश्व शतपव्रिस्तथोत्पलैः ॥२१॥
करवीरैश्व राजेन्द्र तथा पूज्यो महेश्वरः । एकैकेन चतुर्दश्यामर्चयेत्पार्वती पतिम् ॥२२॥
पुनश्व कार्तिकेमासि संप्राप्ते तर्पयेदिद्वजान् । अन्नैर्नानाविधैर्भक्ष्यैर्वस्त्रैर्माल्यविभूषणैः ॥२३॥
कृत्वा नीलंबृषौत्सर्गं श्रुत्युक्तविधिना नरः । उमामहेश्वरं हैमं वृषभं च गवा सह ॥२४॥
मुक्ताफलाष्टकयुतंसितनेव्रपटावृतम् ।सर्वोपस्करयुक्तायां शाय्यायां विनिवेदयेत् ॥२५॥
उदकुंभयुतं तद्वच्छालितंदुलसंयुतम् । स्थाप्य विप्राय शांताय वेदव्रतपराय च ॥२६॥
ज्येष्ठसामविदेदेयं न च कुर्वंति ते क्वचित् । अव्यंगंगाय सौभ्यायसदा कल्याणकारिणे ॥२७॥
सपन्नीकाय संपूज्यमाल्यवस्त्रविभूषणैः । न वित्तशाठन्यं कुर्वीत कुर्वकुर्वल्लाँभात्पतत्यधः ॥२८॥
अनेनविधिनायस्तुकुर्याच्छिवचतुर्दशिम् । सोऽश्वमेधसहस्त्रस्य फलं प्रान्पोति मानवः ॥२९॥
ब्रह्महत्यादिकं पापं यदव्रामुव्र वा कृतम् । पितृभिमार्तृभिर्वापि तत्सर्वं नाशमान्पुयात् ॥३०॥
दीर्घायुरारोग्यकुलाभिवृद्धिरव्राक्षयान्यव्रचतुर्भुजत्वम् ।गणधिषत्यं दिवि कल्पकोटी स्वर्गे वसित्वा पदमेति शंभोः ॥३१॥
न बृहस्पतिरप्येतन्नरस्य फलमिंद्रो न पितामहोऽपि वक्तुम् । न च सिद्धगणोऽप्यलं न वाहं यदि जिह्रायुतकोप्यपि वक्त्व्रे ॥३२॥
भवत्यमरवल्लभः पठति यः स्मरेद्वा सदा शृणोत्यपि विमत्सरः सकलपापनिर्मोचनम् । इमां शिवचतुर्दशीममरकामिनीकोटयः स्तुवन्ति दिवि नन्दिताः किमु समाचरेद्यः सदा ॥३३॥
या पार्थ नारी कुरुतेऽतिभक्या भर्त्तारमापृच्छन्य शुभं गुरुं वा । सापि प्रसादात्परमेश्वरस्य परं पदं याति पिनाकपाणेह ॥३४॥ [ ४१०७ ]
इति श्रीभविष्ये महापुराणे उत्तरषर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शिवचतुर्दशीब्रतं नाम सप्तनवतितमोऽध्यायः ॥९७॥