श्रीकृष्ण उवाच ॥
घृतधेनुं प्रवक्ष्यामि तां शृणुष्व नरोत्तम । दीयते येन विधिना चादृग्रूपां च कारयेत् ॥१॥
गव्यस्य सर्पिषः कुंभान्गंधमाल्यविभूषितान् । कांस्योपदोहसंयुक्तान्सितवस्त्रावगुंठितान् ॥२॥
इक्षुयष्टिमयाः पादाः खुरा रौप्यमयास्तथा । सौवर्णे चाक्षिणी कार्ये शृङ्गे चागुरुकाष्ठके ॥३॥
सप्तधान्यमये पार्श्वे पटोर्णेन च कम्बलम् । कुर्यात्तुरुष्ककर्पूरैर्घ्राणं फलमयान्स्तनान् ॥४॥
तद्वच्छर्करया जिह्रां गुडक्षीरमयं मुखम् । क्षौमसूत्रण लांगूलं रोमाणि सितसर्षपैः ॥५॥
ताम्रपात्रमयं पृष्ठं कुर्याच्छ्रद्धासमन्वितः । ईद्रग्रूपां तु संकल्प्य घृतधेनुं नराधिप ॥६॥
तद्वत्कल्पनया धेनोर्वत्सं च परिकल्पयेत् । मंत्रेणानेन राजेन्द्र तां समभ्यर्च्य बुद्धिमान् ॥७॥
आज्यं तेजः समुद्दिषमाज्यं पापहरं परम् । आज्यं सुरागामाहारः ॥८॥
सर्वमाज्ये प्रतिष्ठितम् त्वं चैवाज्यमयी देवि कल्पितासि मया किल । सर्वपापापनोदाय सुखाय मत्र भामिनि ॥९॥
तं च विप्रं महाभाग मनतैव घृतर्चिषा । कल्पयित्वा ततस्तस्मै प्रयतः प्रतिपादयेत् ॥१०॥
दक्षिणा सहिता धेनुः कल्पिताज्य मयी शुभा । एतांममोपकाराय गृहाण त्वं द्विजोत्तम ॥११॥
इत्युदाहृत्य विप्राय तां गां प्रतिपादयेत् । दत्वैकारात्रं स्थित्वा च धृताहरो यतव्रतः ॥१२॥
अनेन च विधानेन नवनीतमयी शुभा । दातव्या नृपते धेनुर्न्युनाविकविवर्जितो ॥१३॥
शृणु पार्थ महाबाहो प्रदानफलमुत्तमम् । घृतक्षीरमहानद्यो यत्र पायसकर्दमाः ॥१४॥
घृतधेनुप्रदा यांति तत्र कामैः सुपूरिताः । पितुरुर्ध्व च ये मतपुरुषास्तस्य येऽप्यधः ॥१५॥
तांस्तेषु नृप लोकेषु स नयत्यस्तकल्मषसम् । स कामानामिय व्युष्टिः कथिता नृपसत्तम ॥१६॥
निष्किल्बिषं पदं यांति निष्कामा घृतधेनुदाः । घृतमग्निर्घृतंसोम तन्मया सर्वदेवताः ॥१७॥
घृतं प्रयच्छातां भीता भवंत्य खिलदेवताः ॥१८॥
मायाजलंसुतकलत्रमहोर्मिमालं लोभोग्रनक्रविषमं बहुपुण्यभाजः । लग्ना निमग्नवपुषो घृतधेनुपुच्छे संसारसाग मषारमहो तरंति ॥१९॥ [ ६८५८ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे घृतधेनुदानव्रतविधिवर्णनं नाम चतुःपंचाशदुत्तरशततमोऽध्यायः ॥१५४॥