युधिष्ठिर उवाच ॥
अन्नदानप्रसंगेन ममापि स्मृतिमागतम् । तत्तेऽहं संप्रवक्ष्यामि श्रुतं दृष्टं च यन्मया ॥१॥
अक्षद्यूतेन भगवन्धनं राज्यंचनोहृतम् । आहूय निष्कृतिप्राज्ञैः कितवैरक्षकोविदैः ॥२॥
वनं प्रस्थापिताः सर्वे वल्कलाजिनवाससः । द्रौपद्या सहिताः कृष्ण कर्णदुर्योधनादिभिः ॥३॥
ज्ञात्वा वनगतास्मान्ब्राह्मणाः संजितेंद्रियः । द्रष्टुमभ्याययुः सर्वे पौराश्चाप्युनुजग्मिरे ॥४॥
अस्मान्स्नेहात्क्लिश्यमानाद्रष्ट्रवा ब्राह्मणसत्तमाः । पौरान्कर्मकरांश्वैव निर्वेदादिदमब्रुवन् ॥५॥
जीवतो यस्य जीवंति विप्रा मित्राणि बांधवाः । जीवनं तस्य सफलमात्मार्थे को न जीवति ॥६॥
अभ्यागतं सुहृद्वर्ग कुटुंबमपहाय च । जीवन्नपि मृतः पापः केवलं स्वोदंरभरिः ॥७॥
इत्येवमवधार्याहं तानृषीन्पुनरब्रुवम् । भवंतः सर्व एवात्र त्रिकालज्ञा महर्षयः ॥८॥
समागता मत्प्रियार्थ ज्ञानविज्ञानपारगाः । ब्रूतकंचिदुपायं मे भवंतो भिजनं प्रति ॥९॥
भवद्भिः सहितः सर्वै मृत्यैर्भ्रातृभिरेव च॥ निर्गच्छेयं वने शून्ये द्वादशेमाः समा यथा ॥१०॥
मामुदाच थ मैत्रेयः शृणु कौंतेय मद्वचः । पूर्ववृतं प्रवक्ष्यामि दृष्टं दिव्येन चक्षुषा ॥११॥
आसीत्तपोवने काचिद्वाह्यणी ब्रहचारिणी । दुर्भगादुर्गता दुःखादाराधयति सा द्विजान् ॥१२॥
शौचेन तुष्टा मुनयः प्रश्रयेण दमेन च । प्रोचुर्वद विक्षालाक्षी किं कुर्मंस्तव सुव्रते ॥१३॥
सा तानुवाच किं तन्मे व्रतं दानमथापि वा । कथयध्वं भवेयं वै येन श्रीसुखभागिनी ॥१४॥
आधारभूताभूतानांबह्रपत्यापतिप्रिया । स्पृहणीयात्रिजगतां त्रिवर्गफलभामिनी ॥१५॥
वसिष्ठस्तामुवाचाथ शृणुष्व कथयामि ते । दानं मानकरं पुंसां सर्वकामप्रदायकम् ॥१६॥
कृत्वा ताम्रमवीं स्थालीं पलानां पंचभिः शतैः । अशक्त तु तदर्द्धेन चतुर्थाशन वा पुनः ॥१७॥
सर्वशक्तिविहीनस्तु मृन्मयीमपि कारयेत् । सुगंभीरोदरदरीं दृढदंडकुंटबकाम् ॥१८॥
मुद्नतंदुलनिष्पन्नसुस्विन्नक्षिप्रपूरिताम् । उपसेचोदकयुतां घृतपात्रसमन्विताम् ॥१९॥
धौतपार्श्वा धौतकर्णा चर्चितां चंदनेन च । स्थाप्य मंडलके वस्त्रैः पुष्पधूपैरथार्चयेत् ॥२०॥
आदित्येऽहनि संक्रातौ चतुर्दश्यष्टमीषु वा । एकादश्यां तृतीयायां विप्राय प्रतिपादयेत् ॥२१॥
ज्वलज्वलपनपार्श्वस्तंडुलैः सजलैरपि । नभवेद्भोज्यसंसिद्धिर्भूतानां पिठरीं बिना ॥२२॥
त्वं सिद्धिः सिद्धिकामानां त्वं पुष्टिः पुष्ठिमिच्छताम् । अतस्त्वां प्रणमाग्याशु सत्यं कुरु वचो मम ॥२३॥
ज्ञातिबंधृसुहृद्वर्मे विप्रे प्रेष्यजने तथा । अभुक्तवति नाश्नीयात्तथा भव वरप्रदा ॥२४॥
इत्युच्चार्य प्रदातव्या हंडिका । द्विजपुंजके । तुष्टिपुष्टिप्रदा पुंसां सर्वान्कामानभीप्सताम् ॥२५॥
वसिष्टवचन श्रुत्वा सा चकार तथैव तु । प्रादास्थालीं ब्राह्मणाय बहूनां बहुदक्षिणाम् ॥२६॥
सा चैषा द्रौपदी पार्थ भवद्धार्याऽभवन्प्रिया । तेन दानप्रभावेण भविताऽशून्यपाणिका ॥२७॥
एषा सती शची रवाहा सावित्री भूररुंधती ॥ श्रीरेषा यत्र वसति न किंचित्तत्र दुर्लभम् ॥२८॥
अनया या भृता स्थाली तया सर्वमिदं जगत् । भोजयिष्यसि कौतेय किमतो ब्राह्मणा अमी ॥२९॥
मैत्रेयात्तदुपश्रूत्य तत्र संहृष्टमानसः । पूर्व भोजितवानस्मि बहुविप्रजमान्वने ॥३०॥
अन्नदानप्रसंगेन स्थालीदानमिदे मया । कथितं पुंडरीकाक्ष क्षंतव्यमनसूयया ॥३१॥
स्थालीं विशालवदनां च सतंडुलां च यच्छंति ये मधुरशुल्वमयीं द्विजेस्यः । तेषां सुहृत्सवजनविप्रजनेन भोज्यं संभुज्यमानमपि कृष्ण न याति नाशम् ॥३२॥ [ ८४२३ ]
इति श्रीभविष्ये महापुराणे उत्तरपवणि श्रीकृष्णयुधिष्ठिरसंवादे स्थालीदानविधिवर्णनं नाम सप्तत्युत्तरशततमोऽध्यायः ॥१७०॥