श्रीकृष्ण उ वा च ॥
अन्नदानस्य माहात्मयं कथयामि तवानघ । यत्प्रोक्तमृषिभिः पूर्व तदिहैकमनाः शृणु ॥१॥
ददस्त्वान्नं ददस्वान्नं ददस्वान्नं युधिष्ठिर । सद्यस्तुष्टिकरं लोके किं दत्तेन परेण ते ॥२॥
रामेण दशरथिना वनस्थेन निजानुजः । निर्वेदाद्यत्पुरा प्रोक्तस्तदहं प्रब्रवीमि ते ॥३॥
पृथिव्यामन्नपूर्णायां वयमन्नस्य कांक्षिणः । सांमित्रे नूनमस्माभिर्न ब्राह्मणमुखे हुतम् ॥४॥
यदुच्यते कर्मबीजं तस्यावश्यं फलं नरैः । प्राप्यते लक्ष्मणास्माभिर्नान्नं विप्रमुखे हुतम् ॥५॥
यन्न प्राप्यं तदप्राप्यं विद्यया पौरुषेण वा । सत्यो लोकप्रवादोऽयं नादत्तमुपतिष्ठति ॥६॥
भक्षोपयोगादन्नस्य दानं श्रेयस्करं परम् ॥७॥
प्रकारंतभोज्यानि दानान्यन्यानि भारत ॥ अन्नमेव पर्म दानं सत्यवाक्यं परं पदम् ॥८॥
बुद्धिश्वार्थात्परो लाभः संतोषः परमं सुखम् । स्त्रातान्यमनुलितानां भूषितानां च भूषणैः ॥९॥
न सुख न च संतोषो मवेदन्नादृतेनृणाम् । श्वेतो नाम महीपालः सार्वभौमोऽभवत्पुरा ॥१०॥
तेनष्टं बहुभिर्यज्ञैः संग्रामा बहवो जिताः । दानानि च प्रदत्तानि धर्मतः पालिता मही ॥११॥
भुक्ता भोगाः सुविपुलाः शत्रूणां मूर्धनि स्थितम् । वानप्रस्थेन विधिना त्यक्त्वा राज्यश्रियं नृप ॥१२॥
स्वर्ग जगाम मुकवा तु पूज्यमानो मरुद्वणैः । विमानसर्कप्रतिमं प्रतिपेदे मुदा युतः ॥१३॥
तत्रास्ते रममाणोऽसौ साकंविद्याधरैः सुखम् । प्रसिद्धैः स्तूयते सिद्धैः सेव्यतेऽप्सरसां गणैः ॥१४॥
गंधर्वैर्गीयते हृष्टैः शक्रेणाप्यनुगम्यते । दिव्यमाल्यांबरधरो दिव्याभरणभूषितः ॥१५॥
स च नित्यं विमानाग्रयादवतीर्यमहीतलम् । स्वमांसान्यत्ति कौतेयं पूर्व त्यक्त्वा कलेवरम् ॥१६॥
तच्छरीरं तथैवास्ते रक्षितं पूर्वकर्मभिः । स कदाचिन्सुरेशानं ब्रह्माणं समुपंस्थितेः ॥१७॥
प्रणम्य प्रांजलिर्भूत्वा निर्वेदादिदमब्रवीत् । भगवंस्त्वत्प्रसादेन प्राप्तं स्वर्गसुखं मया ॥१८॥
सर्वेषामपि संपूज्यः सुराणां सुरपुंगव । किं तु क्षुद्धाधतेऽत्यर्थ स्वर्गस्थस्यापि मे प्रभो ॥१९॥
यया मांसान्यहं स्वस्य भक्षयाम्यशनं विना । ब्रह्योवाच ॥ श्वेताभिजनसंपन्नश्वेत शृणु बचो मम ॥२०॥
त्वयाधीतं हुतं दत्तं गुरवः परितोषिताः । नाशनं भवता दत्तं यदिद्वजेभ्यो नराधिप ॥२१॥
अनन्नदानस्व फलं त्वयेक्मुपभुज्यते । तर्ह्यन्नदानतो नान्यच्छरीरारोम्यकारकम् ॥२२॥
नान्यदन्नादृते पुंसां किंचित्संजीवनौषधम् । महीं गत्वा महाराज कुरुष्व वचनं मम ॥२३॥
तपःस्वाध्यायसंपन्ने शास्त्रेज्ञे संजितेंद्रिये । येन संपद्यते तृप्तिक्षया क्ष्मापते तव ॥२४॥
विरिंचेर्वचनाद्नत्वा त्वरायुक्तो महीतलम् । अगस्त्यं भोजयामास भक्त्या मरतसत्तम् ॥२५॥
भोजयित्वा ततः प्रादाद्दक्षिणां क्षणिकल्मषः । एकाबलिं स्वकात्कंठात्समुत्तार्य समुज्ज्वलाम् ॥२६॥
ततो दुंदुभिघोषेण पूजितः सुरसत्तमैः । श्वेतरतृप्तोगतः स्वर्ग दत्वान्नं दक्षिणायुतम् ॥२७॥
पौलस्त्ये निहते पश्वाद्देवदानवसंकटे । रामायैकावलि प्रादादगस्त्यः परया मुदा ॥२८॥
एतदन्नस्य माहात्म्यं कथयाम्यपरं च ते । च चान्नादपरं किम्चित्सत्यं तव मयोदितम् ॥२९॥
अन्नं वै प्राणिनां प्राणा अन्नमोजो बलं सुखम् । एतस्मात्कारणात्सद्भिरन्नदः प्राणदः स्मृतः ॥३०॥
सुदूरादशया यस्य गृहं प्राप्ता बुभुक्षिताः । तृप्ताः प्रतिनिवर्तते कोऽन्यस्तत्सदृशः पुमान् ॥३१॥
दीक्षितः कपिला सत्री राजा भिक्षुर्महोदधिः । दृष्टमात्राह पुनं येते तस्मात्पश्यंति नित्यशः ॥३२॥
एकस्याप्यतिथेरन्नं यः प्रदातुमशक्तिमान् । तस्याऽऽरंभैः परिक्लेशैर्वसतः किं फलं गृहे ॥३३॥
शक्त्यते दुष्करेप्यर्थे चिररात्राय जीवितुम् । न त्वाहारविहीनेन शक्यं वर्तयितं चिरम् ॥३४॥
भुक्त्वा गृहे गृहस्थस्य मैथुनं यश्व सेवते । यस्यान्नं तस्य ते पुत्रा इति प्राहुम्रनीषिणः ॥३५॥
दुष्कृतं हि मनुष्याणामन्नमाश्रित्य तिष्ठति । यो यस्मान्नं समश्नाति स तस्याश्नाति दुष्कृतम् ॥३६॥
वनस्पतिगते सोमे परान्नं यस्तु भुंजति । तस्य मासकृतं पुण्य़ं दातारमुपगच्छति ॥३७॥
कस्मान्न दीयते नित्यं कस्मादन्नं न दीयते । यस्येदृशी फलावाप्तिः कथिता पूर्वसूरिभिः ॥३८॥
भिक्षां पुष्कलां वापि हंतकारं द्विजातये । भोजनं वा यथालाभमदत्त्वश्नातिकिल्विषम् ॥३९॥
येनायुतं सहस्त्रं वा भोजितं स्यादिद्वजन्मनाम् । तेनब्रह्मगृहासन्नंनूनं बद्धंकुटीरकम् ॥४०॥
वाराणस्यां पुरा पार्थ वणिगापणजीवनः । धनेश्वर इति ख्यातो देवब्राह्मणपूजकः ॥४१॥
तस्यापणकैदेशे तु मुक्त्रांडं पांडुरच्छवि । ससर्प सर्पस्तेद्देशाद्वणिग्दृष्ट्रवा विशंकितः ॥४२॥
तदंड वणिजा तेन दृष्टं कारुण्यबुद्धिना । ततः प्रभृत्यनुदिनं ररक्ष च पुपां च ॥४३॥
निर्जगाम दिनैः कैश्विद्भित्त्वांडं सर्पपोतकः । तं बणिवक्षीर पानाद्यैरुपचारैरवर्धयम् ॥४४॥
लिलिहे घृतभांडानि जिघ्रे च गंधसंचयात् । लुलोठ पांसुप्रकरे चचार घरिमध्यगः ॥४५॥
वणिजाक्ष्यमाणः सस्त्रेहाच्चाहरहर्निशम् । जगाम समहान्कालोऽभवदेष भयंकरः ॥४६॥
अथैकस्मिन्दिने गंगां गतः स्त्रातुं त्रिलोकगाम् । वणिगापणे पण्यविदं स्थापयित्वा सुतं मतम् ॥४७॥
व्यवहर्तु समारब्धं वणिक्पुत्रेण धीमता । ददाति प्रतिगृह्राति घृततैलयवैशवम् ॥४८॥
व्यवहाराकुलतया पादयोरंतरेण सः । सर्पश्वचालचापल्याद्वणिग्विक्षेपपमभ्यगात् ॥४९॥
जानन्नपि तद्धत्तांतं निघनं नियतेर्वशात् । त्रासात्संतर्जयामास बलेन पदचारिणम् ॥५०॥
समाहतः समुत्थाय मूर्द्धानमवर ह्य च । उवाच दारुणतर वचनं पन्नगाधमः ॥५१॥
शरणागतं पोषितं च तव पित्रा प्रियंकरम् । कस्मान्मी हसि दुष्टात्मन्कथं जीवन्विमोक्ष्यसे ॥५२॥
अनंतंर कलकलः संजातो रोदतां नृणाम् । धनेश्वरसुतो दष्टः सर्पेणापि भृशाकुलः ॥५३॥
अच्युतानंत गोविंद कृष्ण कृष्णेत्युदीरयन । धनेश्वरोऽप्यनुप्राप्तः प्रोवाचाकुलया गिरा ॥५४॥
किं कृतं मम पुत्रेण तव पन्नग विप्रियम् । यदयं भवता मूर्ध्नि स्वभोगेनाभिवेष्ठितः ॥५५॥
मूर्खे मित्रं सुसंबंधं हनिजातिं जनोहि यः । यः करोत्यबुर्धोगारान्स स्वहस्तेन कर्षति ॥५६॥
तमुवाच च सर्पोऽसौ बाष्पगद्नदया गिरा । निरपराधो भवतिः पुत्रेणाहं समाहतः ॥५७॥
तदहं पश्यतस्तेद्य दशाम्येन नराधिप । यथा न भूयो भूतानां भवेदस्मात्क्कचिद्भयम् ॥५८॥
धनेश्वर उवाच ॥ उपकारव्रतं भक्त्वा स्नेहपाशो न यस्य च । संता मागंमपाक्रम्य प्रयातः केन वार्यते ॥५९॥
क्षणमात्रं प्रतीक्षस्व यावदेव शिशुर्मम । और्ध्वदेहि ककर्माणि करोति स्वयमात्मनः ॥६०॥
एवमुक्त्वा गृहं गत्वा यतीनां ब्रह्मचारिणाम् । सहस्त्रं भोजयामास घृतपायसभोजनै ॥६१॥
समुत्थाय ततः सर्वे ब्राह्मणा हृष्टमानसाः । वनीक्पुत्रस्योत्तमांगेचिक्षितुः कुसुमाक्षतान् ॥६२॥
वेणिक्पुत्रचिरंजीव नश्यंतु तव शत्रवः । अमीष्टफलसंसिद्धिरस्तु ते ब्राह्मणाज्ञया ॥६३॥
ततः स दुष्टप्रकृतिर्विप्रवाग्वज्रताडितः । पन्नगो नगसंकाशः पपात्त च ममार च ॥६४॥
विपन्नं वन्नगं दृष्टाव त्रस्तचक्षुर्धनेश्वरः । आः किमेतदिति प्रोच्य विषादमगमत्परम् ॥६५॥
पोषितोऽयं मया बालः पालितो लालितस्तथा । ममापचारात्पंचत्वमापन्नः पवनाशनः ॥६६॥
उपकारिषु यः साधुः साधुत्वे तस्य को गुणः । अपकारिषु यः साधुः स साधुः सद्भिरिष्यते ॥६७॥
इत्येवमवधार्यासौ दुःखसंतप्तमानसः । बुभुजे नाकुलतया न च सुष्वाप तां निशाम् ॥६८॥
ततः प्रभाते गंगायां स्नात्वा संतर्प्य देवताः । संहस्त्रं भोजयामास पुनरेवद्विजन्मनास् ॥६९॥
तैर्भुक्तैरिष्टसंसिद्धयै ब्राह्मणैरनुमोदितः । वणिक्प्राह ममाभीष्टं संजीवत्वेष पन्नगः ॥७०॥
ततो द्विजवरोन्मुक्तैरंबुभिः परिषिंचितः । उदतिष्टदहनिनांगः सहसाहिमहाकुलः ॥७१॥
प्रहर्षमतुलं लेभे दृष्ट्वा तं पुरतः स्थितम् । प्रत्यग्रावयवं दृष्ट्वा सक्तिगीपरिलोलिहम् ॥७२॥
साधुवादोमहाञ्जातः प्रशशंसुर्धनेश्वरम् । पुरीनिवासिनः सवे विस्मयोत्फुल्ललोचनाः ॥७३॥
सहस्त्रभोज्यमाहात्म्यं कथितं ते युधिष्ठिर । सम्यक्छ्रद्धाप्रयुक्तत्य । किमन्यत्कथयामि ते ॥७४॥
यच्छंति येऽनुदिवसं द्विजपुंगवानामन्नं विशुद्धमनसो भृशमागतानाम् । मर्त्ये विहृत्य सुचिरं सुसुहृज्जनास्ते प्रेत्य प्रयंति भवनं मुदिता मुरारेः ॥७५॥ [ ७३९१ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे अन्नदानमाहात्म्यवर्णनं नामैकोनसप्तत्युत्तरशततमोऽध्यायः ॥१६९॥