श्रीकृष्ण उवाच ॥
येयं मार्गशिरे मासि षष्ठी भरतसत्तम । पुण्या पापहरा धन्या शिवा शान्ता ग्रहप्रिया ॥१॥
निहत्य तारकं षष्ठन्यां गुहस्तारकराजवत् । रराज तेन दयिता कार्तिकेशस्यसा तिथिः ॥२॥
स्त्रानदानादिकं कर्म तस्यामक्षयमुच्यते । यस्यां पश्यन्ति गाङ्गेयं दक्षिणापथमाश्रितम् ॥३॥
ब्रह्महत्यादिषापैस्ते मुच्यन्ते नाव्र संशयः । तस्मादस्यां सोपवासः कुमांर स्वर्णसंभवम् ॥४॥
राजतं वा महाराज मृन्मयं वापि कारयेत् । अपराह्रे ततः स्नात्वा समाचम्य यतव्रती ॥५॥
पद्मासनस्थो गाङ्गेयं ध्यायंस्तिष्ठेत्समाधिना । ब्राह्मणस्तु ततो विद्वान्गृहीत्वा करकं नवम् ॥६॥
पातयेत्तस्य शिरसि धारां वै दक्षिणामुखः ॥७॥
गङ्गाकुमार धारेयं पतिता तव मस्तके । एवं स्त्रात्वा समभ्यच्यं भास्करं भुवनाधिप ॥८॥
पुष्पधूपादिना पश्र्वात्पूजयेत्कृत्तिकासुतम् । देव सेनापते स्कन्द कार्तिकेय भवोद्भव ॥९॥
कुमार गुह गाङ्गेय शक्तिहस्त नमोऽस्तु ते । एभिर्नामपदैः पूज्य नैवेद्यं विनिवेदयेत् ॥१०॥
फलानि दक्षिणान्यानि चन्दनं मलयोद्भवम् । पाश्वस्थौ पूजयेच्छागकुक कुटौ स्वामिवल्लभौ ॥११॥
सकलापं मयूर च प्रत्यक्षां हिमजां तथा । कृत्तिकाकटकं पार्श्वे संपूज्य स्कन्दवल्लभम् ॥१२॥
तैरेव नामभिर्होमः कार्यः साज्यैस्तिलैस्तथा । एवं निर्वर्त्य विधिवत्फलमेवं युधिष्ठिर ॥१३॥
भक्षयित्वा स्वपेद्भूमौ स्वास्तृते दर्भसस्तरे । नालिकेरं मातुलुङ्गं नारिङ्गं पनसं तथा ॥१४॥
जम्बीरं दाडिमं द्राक्षां ह्रद्यान्याम्रफलानि च । श्रीफलम्मलकं तद्वत्व्रपुस कदलीफलम् ॥१५॥
क्रमेण भक्षये द्राजन्संयतो नियतव्रती । प्रोक्तफलाभावे वै लब्धफलमद्यात् ॥१६॥
प्रत्यक्षो हेमघटितश्छागो वा कुक्कुटोऽथवा । प्रातर्दद्याद् द्विजायैतत्सेनानीः प्रीयतामिति ॥१७॥
सेनायां स च संभूतः क्रौञ्चारिः षण्मुखो गुहः । गाङ्गेयः कार्तिकेयश्व स्वामी बालग्रहाग्रणीः ॥१८॥
छागप्रियश्शक्तिधरो द्वारो द्वादशमः स्मृतः । प्रीयतामिति सर्वेषु क्रमान्मासेषु कीर्तयेत् ॥१९॥
ब्राह्मणान्भोजयित्वादौ पश्वाद्धुञ्जीत वाग्यतः । एवं संवत्सरस्यान्ते कार्तिके मासि शोभने ॥२०॥
कार्तिकेयं समभ्यर्च्य वासोमिर्भूषणैः सह । गाङ्गेयः कार्तिकेयश्व सकृदेवैवमाचरेत् ॥२१॥
संवत्सरविधिं कृत्वा जप होमपुरस्कृतम् । दद्याद्विप्राय रोजन्द्र वाचकाय विशेषतः ॥२२॥
एत विप्राः स्मृता दिव्या भौमास्त्वन्या द्विजातयः । पालितेऽस्मिन्व्रते पार्थ तीर्णः स्याद्भवसागरे ॥२३॥
य एवं कुरुते भक्त्या नरो योषिदथापि वा । स प्राप्येह शुभं कामं गच्छतीन्द्रसलोकताम् ॥२४॥
सदैव पूजनीयस्तु कार्तिकेयो महीपते । कार्तिकेयाद्दते नान्यो राज्ञां पूज्यः प्रवक्ष्यते ॥२५॥
सङग्रामं गच्छमानो यः पूजयेत्कृत्तिकासुतम् । स सर्वं जयते वीरो यथेन्द्रो दानव्रान्रणे ॥२६॥
तस्मात्सर्वप्रयत्नेन पूजयेच्छकरात्मजम् । पूज्यमानस्तु सद्भक्त्या सर्वान्कामानवाप्रुयात् ॥२७॥
यस्तु षष्ठन्यां नरो नक्तं कुर्याद्भारतसत्तम । सर्वपापाविनिर्मुक्तो गाङ्गेयस्य सदा व्रजेत् ॥२८॥
श्रुत्वैवं व्रतमेतद्वि गत्वा श्रद्धासमन्वितः । पूजयेद्देवदेवेशं स गत्वा शिवमन्दिरम् ॥२९॥
स्कन्द गुहं शरवणोद्भवमादिदेवं शंभोः सुतं स दयितं गिरिराजपुव्र्याः । स्वर्गे निरर्गलसुखान्यनुभूयते ना सेनापतिर्भवति राज्यधूरंधुराऽसौ ॥३०॥ [ १८६९ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्ययुधिष्ठिरसंवादे तारकवधकार्तिकेयपूजाषष्ठीव्रतवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥४२॥