युधिष्ठिर उवाच ॥
शङ्खचकगदापाणे श्रीवत्स गरुडासन । ब्रूहि मे मल्लद्वादश्या विधानं देवकिसुत ॥१॥
श्रीकृष्ण उवाच ॥ यदा भाण्डीरन्यग्राघे वसामि यमुनातट । मापालमध्ये गोवत्सैरष्टवर्षोस्मि लीलया ॥२॥
कंसासुरवधार्थाय मथुरोपवने तदा । आबालोल बालरूपेण गोपमल्लैर्बलोत्कटैः ॥३॥
समेत्य मल्लगोपस्य बलेन सह कानने आस्फोटयन्ति नृत्यन्ति व्रिदशे व्रिदशा हव ॥४॥
सुरभद्रो मण्डलीकयोगवर्द्धनयोगदाः । यक्षेन्द्रभद्र इत्यादि तेषां नामानि गोकुले ॥५॥
गोपीनामपि नामानि प्राधान्येन निबोध मे । गोपाली पालिका धन्या बिशाखा घ्याननिष्ठिका ॥६॥
इल्वानुगङ्धा सुभगा तारका दशमी तथा । इत्येवमादिभिरहं पूपविष्टो वरासने ॥७॥
पूजितोऽस्मि सुरैः पुष्णैर्दधिदुग्धाक्षतैस्तथा । शतानि व्रीणि षष्टिश्व मल्लानां पूजयन्ति माम् ॥८॥
मल्लिन्यश्व सुरामांसैरङ्रग जागरनर्तनैः । मल्लयुद्धैर्बहुविधैर्बाह्यैर्मल्लभटैः स्फूटैः ॥९॥
भक्ष्यैर्भोज्यैस्तथा पानैर्दधिदुगधघृतासवैः । गोदानैर्वर्षदानैश्व श्रद्धया विप्रपूजनैः ॥१०॥
गोष्टीप्रभूतैर्बन्धूनां स्नेहसंभाषणौर्मिथः । एव द्वादश द्वादश्यो गृहीतव्या यथेच्छया ॥११॥
संबन्धिभिः क्रमेणैव मल्लानां च पृथकपृथक् । पूजयन्ति क्रमेणैव मासि मासि तनुं मम ॥१२॥
मार्गादिकार्तिकान्तं च भक्त्या द्वादशनामभिः । पारणे पारणे दद्यान्मल्लकानि द्विजातये ॥१३॥ केशवनारायणमाधवगोविन्दविष्णुमधुसूदनव्रिविक्रमवामनश्रीधरह्रषीकेशपद्मनाभदामोदराणां नमो नमः ॥१४॥
गन्धैः पुष्णैस्तथा धूपैर्दीपैर्जागरणैर्निशि । गीतवाद्यैश्व नृत्यैश्व मल्लक्ष्वेडाङ्गयुद्धकैः ॥१५॥
घृतदानैः क्षीरदानैः कृष्णो मे प्रीयतामिति। एवमेष विधिः प्रोक्तो मासैर्द्वादशभिर्चृप ॥१६॥
द्वादशी या ममाद्यापि मनसः प्रीतिवद्धनी । मल्लैः प्रवर्तिता यस्मादतोऽर्थं मल्लद्वादशी ॥१७॥
यैः कृतेयं द्वादशी वै मलाख्या हि युधिष्ठिर । गोष्ठे बभूव सुपाज्यगोमहिष्याद्यजाविकम् ॥१८॥
मत्यसादाद्धर्मपुव्र बलं कीतर्यशो धनम् । एवमन्येऽपि पुरुषा ह्यबला मल्लद्वादशीम् ॥१९॥
ये करिष्यति मद्बक्तास्तेषां दास्यामि ह्रद्नतम् । आरोग्यं बलमैश्वर्यं विष्णुलोकं च शाश्वतम् ॥२०॥
भाण्डीरपादपतले मिलितैर्महद्भिर्मल्लैरनाकुलितबाहुबलैर्बलिष्ठैः । संपूजितह सपदि यव्र तिथौ ततश्व सा द्वादशी सुविदिता व्रतमल्लसंज्ञा ॥२१॥ [ ३००० ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे मल्लद्वादशीव्रतवर्णनं नाम व्रिसप्ततितमोऽध्यायः ॥७३॥