युधिष्ठिर उवाच ॥
यन्न सिद्धन्यन्ति कर्णाणि प्रारब्धानि नरोत्तमैः । तत्केन कारणेनैतत्पुष्टो मे ब्रूहि माधव ॥१॥
श्रीकृष्ण उवाच ॥ विनायकोऽर्थसिद्वन्यर्थं लोकस्य विनियोजितः । गणानामाधिपत्ये च रुद्रेण ब्रह्मणा तथा ॥२॥
तेनोपसृष्टो यस्तस्य लक्षणानि निबोधयेत् । स्वन्पेऽवगाहतेऽत्यर्थं जलं मुण्डांश्व पश्यति ॥३॥
कापायवारासश्वैव क्रव्यादांश्वाधिरोहति । अन्त्यजैर्गदैभैरुष्ट्रैः सहैकव्रावतिष्ठति ॥४॥
व्रजमानस्तथात्मानं मन्व्रते तु गतं परैः विमना बिफलारम्भः स सीदत्यनिमित्तव्रः ॥५॥
पातकी वित्तहीनश्व विच्छायो गतलक्षणः । करभारूढमात्मानं महीषखरगं तथा ॥६॥
यातुधानामृतं यातं श्मशानस्यान्तिकं नृप । पश्येत कुरुशार्दूल स्वप्रान्ते नाव्र संशषः ॥७॥
तैळार्द्रमाव्र संदेहं करवीरविभूषितम् । तेनोपसृष्टो लभते न राज्य राजनन्दनः ॥८॥
कुमारी न च भर्तारमपत्थं गर्ममङ्गना । आचार्थत्वं श्रोव्रियश्व न शिष्योऽष्ययम तथा ॥९॥
वणिग्लाभं नः चान्पोति कृषिं चैव कृषीवलः । स्नापनं तस्य कर्त्व्यं पुण्येऽह्रि विधिपूर्वकम् ॥१०॥
गौरसर्धपकस्केन वस्त्रेणाच्छादितस्थ तु । सर्वौषधैः सर्वगन्धैर्क्षिलिप्तशिरसस्तथा ॥११॥
शुक्लपक्षे चतुर्थ्यां तु वारे वा धिषणस्य तु । पुष्ये च बीरनक्षव्रे तस्यैव पुरतो नृप ॥१२॥
भद्रासनोपविष्टस्य स्वस्तिर्वाच्या द्विजैः शुभैः । चत्वार ऋग्यजुःस माथर्वणप्रवणास्ततः ॥१३॥
व्योमकेशं तु संपूज्य पार्वर्ती भूमिजं तथा । कृष्णस्य पितर चाथ अवतारं तितं तथा ॥१४॥
धिषणं क्लेदपुव्रं च कोणं लक्ष्मीं च भारत । बिधुन्तुदं वाहृलेयं नन्दकस्प च धारणम् ॥१५॥
अश्वस्थानद्नजस्थानाद्वल्मीकात्सङ्गमादध्रदात् । मृत्तिकां रोचनां रत्नं गुग्गुलुं चाप्सु निक्षिपेत् ॥१६॥
वदाद्वत ह्येकवर्णैश्वतुर्भिः कलशैइंदात् । चर्मण्यानङ्गुहे रक्ते स्धाप्य भद्रासनं तथा ॥१७॥
सहखाक्षं शतधारमृषिभिः पावनं कृतम् । तेन त्वामभिषिञ्चामि पावमान्वः पुनन्तु मे ॥१८॥
ॐ भगं ते वरुणो राजा भग सूर्यो बृहस्पतिः । भगमिन्द्रश्व बायुश्व भगं सप्तर्षयो ददुः ॥१९॥
यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्द्ध्नि । ललाटे कर्णयोरक्ष्णोरापस्तदव्रन्तु सर्षदा ॥२०॥
स्नातस्य सार्षपं तैलं खुवेणौदुम्बरेण तु । जुहुयान्मूर्प्रि शकलाग्सव्येन प्रतिगृह्य च ॥२१॥
मितश्व सम्मितश्वैव तथा शालकटङकटा । कूष्माण्डो राजपुप्रश्वेत्थग्ते स्वाहासमन्दितैः ॥२२॥
नामभिर्वलिमन्व्रैश्व नमस्कारसमन्वितैः । दद्याच्चतुष्पथे शूर्पे कुशानास्तीर्य सर्वतः ॥२३॥
कृताकृतांस्तण्ङ्गुलांश्व पलटोदनभेव च । मत्स्यान्ह्यपक्कांश्व तथा मांसमेतावदेव तु ॥२४॥
पुष्पान्वितं सुगग्धं च सुरां च व्रिबिधामपि । मूलकं पूरिकापूपांस्नथैवोण्डेरकखजः ॥२५॥
दष्यन्नं पायसं चैव गुडवेष्टितमोदकम् । विनायकस्य जननीमुपतिष्ठेत्ततोऽम्बिकाम् ॥२६॥
दूर्वासर्षपयुष्पाणां दत्त्वार्ध्यं पूर्णमञ्जलिम् । रूपं देहि जयं देहि भगं भवित देहि मे ॥२७॥
पुव्रान्देहि धनं देहि सर्वान्कामांश्व देहि मे । प्रबलं कुरु मे देवि बित्तविख्यातिसंभवम् ॥२८॥
शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः । भोजयेद्व्राह्मणान्दद्यादृस्त्रयुग्प्रं गुरोरपि ॥२९॥
एवं विनायकं पूज्य ग्रहस्यैव विधानतः । कर्मणां फलमान्पोति श्रियं प्रान्पोत्यनुत्तमाम् ॥३०॥
आदित्यस्य सदा पूजास्तिलकं स्वामिनस्ताथा । महागनपतेश्वैव कृर्षन्सिद्धिमवान्पुयात् ॥३१॥
बैनायकं विनयसत्त्ववतां नराणां स्त्रानं प्रशस्तमिह विन्घविनाशकारि । कुर्वन्ति ये विधिबदव्र भवन्ति तेषां कार्याण्यभीष्टफलदानि न संशयोऽव्र ॥३२॥ [ १६०१ ]
इति श्रीभविष्ये महापुराण तु तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विनायकस्त्रपनचतुर्थींव्रतं नाम द्वाव्रिंशत्तमोऽध्यायः ॥३२॥