श्रीकृष्ण उवाच ॥
भगवाञ्छंकःपूर्व कृतोद्वाहो मयासह । रममाणस्तया साद्ध बहुवर्षगणान्स्थितः ॥१॥
ततः सुरगणाः सर्वे परं त्रासमुपागताः । तयोरपत्यस्य भयात्तमेव शरण गताः ॥२॥
वैश्वानरमुखादेवामहादेवंत्रिलोचनम् । प्रसन्नश्वाभवत्तेषां विबुधानां त्रिलोचनः ॥३॥
ईश्वर उवाच ॥
किं भीतखिदशाः सर्वे किं वरं च ददामि वः । मयि प्रसन्ने विबुधा दुर्लभं हि न किंचन ॥४॥
देवा ऊचः। भगवंस्तव संयोगः पार्वाया सह शंकर । मोघोभवतु देवेशो भीताः स्म तनयस्य ते ॥५॥
अस्यप्रत्यश्व देवेश भव भूतपते सदा । अशक्ताः स्म वयं सर्वे भवदोजोविधारणे ॥६॥
श्रीभगवानुवाच ॥ अतः प्रभृत्यहं देवा ऊर्ध्वरेता व्यवस्थितः । स्थाणुवच्च स्थितश्वास्मि नाम चैतद्भविष्यति ॥७॥
ततः कुद्धा उमा तेषां देवानां वाक्यमब्रवीत् । वितथं पुत्रणं सौख्यं भवद्भिर्मे कुतं सुराः ॥८॥
यस्मात्तस्माद्भवंतोऽपि न पुत्राञ्जनयिष्यथ । ततः प्रभृति वै देवाः प्रसूयंते न भूपते ॥९॥
दत्त्वा शापं ततो देवी देवानामाह शंकरम् । पुत्रञ्जन्म मया प्राप्तं न तावज्जगतः पते ॥१०॥
अपुत्रस्य गतिर्नस्ति इतीयं श्रूयते श्रुतिः । तदादिश महाभाग लोकद्वयहितं प्रभो ॥११॥
भगवानुवाच ॥ अपुत्रः पुरुषो यश्व नारी वा पर्वतात्मजे । सौवर्णस्तेन दातव्यः कल्पवृक्षो गुणन्वितः ॥१२॥
कृत्रिमं वापि गृह्रीयादृक्षं वा स्थावरादिकम् । जातपुत्रोऽथवा पुत्रः पुत्रत्वे परिकल्पयेत् ॥१३॥
तेन पुत्रवतां लोका देवि तस्य न सशयः । कल्पवृक्षस्तु कर्तव्यः शुद्धकांचनसंभवः ॥१४॥
बहुशाखः सुवर्णागोप्यनेककुसुमान्वितः । महास्कंधस्वरुपश्व रत्नालंकृतविग्रहः ॥१५॥
फलानि तस्य दिव्यानि सौवर्नानि प्रेकल्पयेत् । कुर्याद्विंशत्पलादूर्ध्व मुक्तादामावलंबितम् ॥१७॥
चतुष्कोणेषु कुर्वीत चतुरः कांचनद्रुमान् । सुवर्ण य प्रमाणं च कथयामि वरानने ॥१८॥
सहस्त्रेण तदर्द्धेत तस्याप्यर्द्धेन वा पुनः । नद्यास्तीरे गृहे वापि देवतायतेने तथा ॥१९॥
प्रागुद्क्प्रवणेदेशे मंडपं तत्र कारयेत् । दशहस्तप्रमाणानि दशहस्ताश्व वेदिकाः ॥२०॥
हस्तमात्रप्रमाणेन कुंडमेक सुशोभनम् । आग्नेय्यां कारयेद्राजन्मेखलामुपलेपनम् ॥२१॥
तत्र वै ब्राह्मणा योज्या ऋग्यजुःसामपाटकाः । उपदेष्टा च तत्रैव तृतीयः पंचमोऽथवा ॥२२॥
सर्वाभरणसंपन्नास्ताम्रपत्रद्वयान्विताः । अनुलिप्ताश्वंदनेन वस्त्रमाल्यादिभूषिताः ॥२३॥
गुडप्रस्थोपरिष्टाच्च स्थापयेत्कल्पपादपम् । ब्रह्मविष्णुशिवोपेतं पंचशाखं सभास्करम् ॥२४॥
कामदेवमधस्ताच्च प्रयोजयेत् । संतानं सह गायत्र्या पूर्वतो लवणोपरि ॥२५॥
मंदारं दक्षिणे पार्श्वे श्रिया सह तथा घृते । पश्चिमे पारिजातं तु उमया सह पादपम ॥२६॥
सुरभीसंयुतं तद्वत्तिलेषु हरिचंदनम् । कौशेयवस्त्रसंयुक्तानिक्षुमाल्यफलान्वितान् ॥२७॥
तथाष्टौ पूर्णकलशान्समंतात्परिकल्पयेत् । अग्निप्रणयनं कृत्वा अधिवारस्य च पादपान् ॥२८॥
धान्यानि चैव सर्वाणि समंतात्परिकल्पयेत् । नानाभक्ष्याणि नैवेद्यं सर्व तत्र नियोजयेत् ॥२९॥
दीपमालाविचित्राश्व ज्वालयीत समंततः । मंत्रेण योजयित्वा तं मयोक्तेन वरानने ॥३०॥
कामदस्त्वं हि देवानां कामवृक्षस्ततः स्मृतः । मया संपूजितो भक्त्या पूरयस्व मनोरथान् ॥३१॥
एवं संपूष्य विधिना जागरं तत्र कारयेत् । शंखवादित्रनिर्घोषैर्वेदध्वनिविमिश्रितैः ॥३२॥
होमं च ब्राह्मणाः कुर्युर्मद्बतेनांतरात्मना । आघारावाज्यभागौ तु पूर्व हुत्वा विचक्षणः ॥३३॥
तल्लिंगैः स्थापितान्देवान्होमेनाप्याययेत्ततः । महाव्याहृतिभिश्वैव होमं कुर्युस्ततः परम् ॥३४॥
अयुतेन भवेसिद्धिर्यज्ञस्य वरवर्णिनि । ततःप्रभाते चोत्थाय स्त्रात्वा शुक्लांबरःशुचिः ॥३५॥
दद्यात्पर्वसमीपे तु कल्पवृक्षं सदक्षिणम् । त्रिःप्रदक्षिणमावृत्य विश्वमूर्तये ॥३७॥
यस्मात्त्वमेवविश्वात्माब्रह्मस्थाणुदिवाकराः । मूर्तामूर्तपरं बीजमतपाहि सनातन ॥३८॥
एवामामन्त्र्य तं दृष्टाव गुरवे कल्पपादपम् । चतुर्भ्यश्वापि ऋत्विग्भ्यः सामंतादीन्प्रकल्पयेत् ॥३९॥
अनेन विधिना यस्तु दानमेतत्प्रयच्छति । तस्य पुण्यफलं देवि शृणुध्वग्दतो मम ॥४०॥
विमानवरमारुह्य सूर्यतेजःसमप्रभम् । अप्सरोगणसंकीर्ण किंकिणीजालमा ॥४१॥
याति लोकं सुरोशस्य सर्वबाधाविवर्जितम् । पुनः कर्मभूमावेत्य जायते श्रोत्रिये दुले ॥४२॥
यज्वा शूरेऽपि विद्वांश्व नरो भवति धार्मिकः । पुनरंते प्राप्नुयति लोकं देवस्य शार्ङ्गिणः ॥४३॥ [ ७७६९ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कल्पवृक्षादानविधिवर्णनं नामाष्टसप्तत्युत्तरशततमोऽध्यायः ॥१७८॥