श्रीकृष्ण उवाच ॥
महिषासुरे विनिहते भगवत्या महासुरैः । पूर्ववरैमनुस्मृत्य संग्रामा बहवः कृताः ॥१॥
नानारूपधरा देवी अवतीर्य पुनः । पुनः । धर्मसंस्थापनार्याय निजन्घै दैत्यसत्तमान् ॥२॥
अथ रक्तासुरो नाम महिषस्य सुतो महान । आसीत्तेन तपस्तप्तं वर्षाणां नियुतानिषट् ॥३॥
तस्मै ददौ चतुर्वक्रो राज्यं व्रैलोक्यमण्डले । तेन लब्धवरेणाथ मेलयित्वा दनोः सुनान् ॥४॥
प्रारब्धं सह शक्रेण युद्ध गत्वाऽमरावतीम् । तददृष्टवा दानवमलं सन्नधात्युद्धतध्वजाः ॥५॥
युयुधे दानवैः सार्द्धं सुरैः शकपुरस्सरैः । तव्र प्रावर्तत नदी शोणितौघतपङ्गिणी ॥६॥
फ्त्यश्व गदाग्राहवसुनन्दककच्छपाः । वहन्ति पितृलोकाय सुरासुरभयानकाः ॥७॥
अथ रक्तासुरौ रोषाद्युयुधे विबुधैः सह । ते हन्यमाना विबुधा रक्ताक्षेण महारणे ॥८॥
भ्रष्टाःस्वर्गं परित्यज्य त्यक्तप्रहरणा द्रतम् । करच्छव्रां पुरीं प्राप्ता यव्रास्ते भवल्लभा ॥९॥
दुर्गा चामुण्डया सार्धं नवदुर्गासमन्विता । आद्या तावन्महालक्ष्मीर्नन्दा क्षेमकरीतथा ॥१०॥
शिवदूती महारुण्डा भ्रामरी चन्द्रमङ्गला । रेवती हरासिद्धिस्तु नैवातः परिकीर्तिताः ॥११॥
एतासां ते स्तुर्ति चकुस्त्रिदशाः प्रणताननाः ॥१२॥
अमरपतिमुकुटचुम्बितचरणाम्बुजसकलभुवनसुखजननी । जयति जगदीशवन्दिता सकलामलगुणला दुर्गा ॥१३॥
विकृतनखदशनभुषणारुधिरवशच्छुरितक्षतखड्गहस्ता । ययति नरमुण्डमण्डितापिशितसुराहारकृच्चण्डी ॥१४॥
प्रच्छादितशिखिगणोद्वर्हविकटजटाबद्धचन्द्रमणिशोभा । जयति दिगम्बरभूषा सिद्धवटेशा महालक्ष्मीः ॥१५॥
करकमलजनितशोभा पद्मासनबद्धपद्मवदना च । जयति कमण्डलुहस्ता नन्दा देवी नतार्तिहरा ॥१६॥
दिग्वसना विकृतमुखा फेत्कारोद्दामपूरितदिशौधा । जयति विकारालदेहा क्षेमङ्करी रौपभावस्था ॥१७॥
क्रोशितब्रह्माण्डोदरसुरवरमुखरहुंकृतनिनादा जयति मदातिमिहस्ता शिवदूती प्रथमशिवशक्तिः ॥१८॥
मुक्ताद्दहासभैरवदुः सहतरचकितसकलदिधचक्रा । जयति भुजगेन्द्रबन्धनशोभितकर्णा महातुण्डा ॥१९॥
पटुपटहमुरजमर्दलझल्लरिझङ्कारनर्तितावयवा । जयति मधुव्रतरूपा दैत्यहरीभ्रामरी देवी ॥२०॥
शान्ता प्रशान्तवदना सिंहारूढा ध्यानयोगतन्निष्ठा । जयति चतुर्भुजदेहा चन्द्रकला चन्द्रमण्डला देवी ॥२१॥
पक्षपुटचञ्चधातैः सचूर्णितविविधशवुसंघाता । जयति शितशूलहस्ता बहुरूपा रेवती भद्रा ॥२२॥
पर्यटति जगति ह्रष्टा पिनृवननिलयेषु योगिनी सहिता । जयति हरसिद्धिनान्मी हरसिद्धिन्दिता सिद्धैः ॥२३॥
इति नव दुर्गा संस्तवमनुपममार्याभिरपरराट् कृत्वा । इदमूचे सह दवैस्त्राह्यस्मान्स्वर्वभीतिभ्यः ॥२४॥
पुनः पुनः प्रणभ्योचुर्भवानीं सिंहवाहिनीम् । अस्माकं भयभीतानां शरण्ये शरणं भव ॥२५॥
देवानां तद्वचः श्रूत्वा दत्त्वा तेभ्योऽभयं ततः सिंहारूढा विनिर्गत्य दुर्गाभिः सहिता पुरा ॥२६॥
युयुधे दानवैस्सार्धं महासमरदुर्दिनम् । कुमारी विंशतिभुजा घनविद्युल्लत्तोपमा ॥२७॥
तेऽपि तव्रासुराः प्राप्ताः प्रचण्डा रुद्ररूपिणः । सर्वे लब्धबराः शूगः सुतप्त पसस्तथा ॥२८॥
महाग्राहपराकान्ता दुष्टमायाविनष्टये । अब्राह्मण्याद्धद्यमिषां नामतश्व निजोद्यतात् ॥२९॥
इन्द्रमारी मसत्क्लेतः प्रलम्बो नरकः सुतः । कुष्ठः पुलोमा शरभः शम्बरो दुन्दुभिः खरः ॥३०॥
इल्वलो नमुचिर्भौमा वातापिर्धैनुकः कलिः । मायावुतौ बलौ बन्धुर्मधुकैटभकालाजित् ॥३१॥
सहः पौण्ड्रादिदैत्येन्द्राः प्राधान्येन प्रकीर्तिताः । धनगोभिर्जनाः सर्वे सन्नद्धाः स्वाग्रतो ध्वजाः ॥३२॥
रूपतो वर्णिताश्वैव ध्वजास्तेषां पृथक्पृथक् । प्रत्यद्वश्यन्त राजेन्द्र ज्वलिता इव पावकाः ॥३३॥
काञ्चनाः काञ्चनापीडाः काञ्चनखगलङकृताः । पताका विविधैर्वालैरूच्छित लक्षणान्विताः ॥३४॥
नील्यः पीताः सितारक्ताः कृष्णास्त्राः पञ्चवर्णकाः । तव्र पद्दपटीसौव्राः कुतबुदबुदकर्बुराः ॥३५॥
पताका कन्तिरनलानर्तक्य इव शोभनाः । ततो हलहलारावं चकुस्ते दानवोत्तमाः ॥३६॥
प्रास्फालयन्ति पणबभेरीझर्झरगोमुखान् । न्यवादयन्त्यान्कान्वै शङ्खाडम्बरडिण्डिमान् ॥३७॥
एवं ते समयुध्यन्त भवानीं दैत्यदानवाः । समाजघ्तुः शरैः शूलैः परिवैः शक्तितोमरैः ॥३८॥
कर्णकैरिषणैः कुन्तैः शतन्घीकूटमुद्नरैः आहत्य मानरो षेण जज्बाल समेरऽधिकम् ॥३९॥
सिंहारूडा द्रुतं देवी रणमध्ये प्रधाविता । आच्छिवाच्छिवचिह्रानि ध्वजा नानाविधास्तथा ॥४०॥
बलात्कारेण दैत्यानामनाथ समरे रुषा । चिह्रकानि ददौ तुष्टा देवेभ्यः श्रीन्घचारिणी ॥४१॥
सुरैरपि गुहीतानि जयदेवीतिवादिभिः । अम्विका तु भृशं तुष्टा तेंषीं चक्रे क्षणात्क्षयम् ॥४२॥
कालराव्री दानवानां मारीव विपपात सा । जीवितानि च जग्राह दैत्यानां देवनन्दिनी ॥४३॥
अथ रक्तासुरं कष्टे गृहीत्वापात्य भूतले । देवी जग्राह तीक्ष्णेन व्रिशूलेन भृशं दिवि ॥४४॥
स भिन्नह्रदयः पश्वाद्भूमौ तव्र प्रपोथितः । तथापि देव्या निहतः पपात च ममार च ॥४५॥
देवास्तानुराञ्जित्वा गत्वा शव्रुपुरं जितम् । दहशुस्ते रणप्रान्ते लम्बमानान्महाध्वजान् ॥४६॥
याव्रां चकुः संप्रह्रष्टा नवम्यां ध्वजचिह्रिताम् । अतोऽद्यापीह भूपालैर्जयलब्धीच्छयाद्दतैः ॥४७॥
उपोष्यते नरैर्भक्तैर्भारीभिश्वैव पाण्डव ॥४८॥
युधिष्ठिर उवाच ॥ कीद्दग्विधानं तस्यास्तु नवम्यां ब्रुहिमे प्रभां । सरहस्यं समन्व्रं च तुष्यते येन चण्डिका ॥४९॥
श्रीकृष्ण उवाच ॥ पौषस्य शुकुपक्षे या नवमी संपरिश्रुता । तस्यां स्त्रात्वा शुभैः पुष्पैरर्चनीया हरेः स्वसा ॥५०॥
कुमारी सुभगा देवी सिंहस्यन्दगामिनी । ध्वजान्नानाविघान्कृत्वा पुरस्तम्याश्व पूजयेत् ॥५१॥
मालतीकुसुमैर्दीपैर्गन्धधूपविलेपनैः । बलिभिः पशुभिर्मेध्यैः सुराप्रांसासृगम्बरैः ॥५२॥
दधिचन्दनचूर्णैश्व खाद्यैश्वानग्निपाचितैः । मन्व्रेणानने कौन्तेयब्राह्मणे नाथवा ननु ॥५३॥
भद्रां भगवतीं कृष्णां विश्वस्य जगतो हिताम् । संवेशिनीं संयमनीं ग्रहनक्षव्रमालिनीम् ॥५४॥
प्रपन्नोह शिवां रावीं भद्रां वै पारमेश्वरीम् । सर्वभूतपिशाचेभ्यः सर्वसत्त्वसरीसृपैः ॥५५॥
देवेभ्यो मानषेभ्यश्वोभयेभ्यो रक्ष मां सदा । ततश्वारोपयेद्राजा देवानां भवने तथा ॥५६॥
भोजयेच्च कुमारीं च प्रणिपत्य क्षमापयेत् । उपवासेन कुर्वीत एकभक्तेना व पुनः ॥५७॥
भक्त्या भूपाल यश्वास्य भक्तिस्तस्य गरीयसी । एवं ये पूजयिष्यन्ति ध्वजैर्भगवतीं नराः ॥५८॥
तेषां दुर्गादुर्गमार्गे चोरव्यालाग्निसङ्कटे । रणे राजकुले गेहे युद्धमध्ये जले स्थिते ॥५९॥
रक्षां करोति सततं भवाजी सर्वभङ्गला । अस्यां बभूव विजय नवम्यां पाण्डुनन्दन ॥६०॥
भगवत्यास्तु तेनैषा नवमी सततं प्रिया । धन्या पुण्या पापहरा सर्वोपद्रवनाशनी ॥६१॥
अमुष्ठेया प्रयत्नेन सर्वान्कामानभीप्प्तुभिः ॥६२॥
देव्यर्चनाहितमतिर्मनुजा नवम्यां हेमखजं ध्वजवरं स हि रोपयेद्यः । भोगानवाप्य मनसोऽभिमतान्प्रकामं देहं विहाय समृपौति सवीरलोकम् ॥६३॥ [- ४९९ ]
इति श्रीभविष्ये महापुराणउत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे ध्वजनवमीव्रतवर्णन नामैकषष्टितमोऽध्यायः ॥६१॥