श्रीकृष्ण उवाच ॥
कथयिष्ये महाराज हेमहस्थिरथं तव । यस्य प्रदानाद्धवनं वैष्णवं याति मानवः ॥१॥
पर्वकालं समासाद्य संक्रांतौ ग्रहणेऽपि वा । कुर्यादेव रथाकारं रथं मणिविभूषितम् ॥२॥
वलभीभिर्विचित्राभिश्वकसमन्वितम् । चतुर्भिर्हेममातंगैर्युक्तं हेमविभूषतम् ध्वजे ॥३॥
च गरुडं कुर्यात्कूबराग्रे विनायकम् । लोकपालाष्टकोपेतं ब्रह्मार्कंशिवसंयुतम् ॥४॥
मध्ये नारायणो पतं लक्ष्मीपुष्टिसमन्वितम् । कृष्णाजिनतिलद्रोणं कृत्वा तं स्थापयेद्रथम् ॥५॥
नाना फलममायुक्तमुपरिष्टाद्वितानकम् । कौशेयवस्त्रसंवीतमम्लानकुसुमार्चितम् ॥६॥
कुर्यात्पंचपलादूर्ध्वमाशताच्च नरोत्तम । ततः स्नात्वा समभ्यर्च्य पितृन्देवान्यथाविधि ॥७॥
त्रिःप्रदक्षिणमावृत्य गृहीतकुसुमांजलिः । इममुच्चारयेन्मंत्रं सर्वसौख्यप्रदाय कम् ॥८॥
नमो नमः शंकरपद्मजार्कलोकेशविद्याधरवामुदेवैः । त्वं सेव्यसे वेदपुराणविज्ञैस्तथा हि नः स्यंदन पाहि तस्मात् ॥९॥
यत्तत्पदं परमगुह्यतमं पुराणमानंदहेतु गप्परुप विमक्तबन्धाः । यागैकमानसदृशो मुनयः समाधौ पश्यंति तत्त्वमसि नाथ रथाधिरुढाः ॥१०॥
यस्मात्त्वमेव भवसागरसंप्लुतानामानंदभांडचितमध्यगवानपात्रम् । तस्मादघौघशः कुरु प्रसादं चामीकरेभरतमाधवसंप्रदानात् ॥११॥
इत्थं प्रणम्य कनकेभरथप्रदानं यः कारयेत्सकलपापविमुक्तदेहः । विद्याधरामरमुनींद्रगणाभिजुष्टं प्राप्नोत्यसौ पदमतींद्रियनिंदुमौलेः ॥१२॥ कृतदुरितवितानातुष्टिसद्वह्रिव्यतिकरकृतदेहोद्वेगभानोऽपि बंधून । नयति च पितृपौत्रान्त्रौरवादप्यशेषात्कृतगजरथदानः शाश्वंत सद्म विष्णोः ॥१३॥ [ ७५०३ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे हेमहस्तिरथदानवि धिवर्णनं नामैकोननवत्युत्तरशततमोऽध्यायः ॥१८९॥