यु धिष्ठिर उवाच ॥
संवत्सरे च याः काश्वित्तिथयः पुण्यलक्षणाः। ता मे वद यदुश्रेष्ठ स्त्राने दाने महाफलः ॥१॥
श्रीकृष्ण उवाच । वैशाखी कार्तिकी माधीतिथयोऽतीव्र पूजिताः । स्त्रानदानिहीनैस्तान नेयाः पांडुनन्दन ॥२॥
तीथस्नानं तदा शस्तं वित्तानुरूपतः । वैशाख्यां पांडवश्रेष्ठ श्रेष्ठाद्योतनिका मता ॥३॥
कार्तिक्यां पुष्करारण्यां माघ्याम वाराणसी रमृता । स्त्रानेनोदकदानेन तारयत्यपि दुष्कृतीन् ॥४॥
कुंभान्स्वच्छांभसः पूर्णान्सहि रण्यान्नसंयुतान् । वैशाख्यां ब्राह्मणो दत्वा न शोचति कृते व्रते ॥५॥
मधुरान्नरसैः पूर्णान्भाजनान्कनकोज्ज्वलान् । गोभृहिरण्यवासांसि विधिवत्प्रतिपादयेत् ॥६॥
माध्यां मघासु च तथा संतर्प्य पितृदेवताः । तिलपाव्राणि देयानि तिलांश्व पललौदनम ॥७॥
कार्पासदानमव्रैव तिलदानं च शस्यते । कंबलाजिनरत्नानि मोचकौ पापमोचकौ ॥८॥
उपानद्दानमव्रैव कथितं सर्वकामदम् । यव्र वा तव्र वा स्त्रानं दानं वित्तानुरूपतः ॥९॥
कलिकालोद्भवं सर्वं नश्यते पांडुनंदण । कर्तिक्यां तु वृषोत्सर्गो विवाहः पुण्यलक्षणः ॥१०॥
कार्यं कुरुकुलश्रेष्ठ हरेर्नीराजनं तथा । गजाश्वरथदानं च घृतधेन्वादयस्तथा ॥११॥
प्रदेयाः पुण्यकृद्भिश्व तास्ताः संकल्प्य देवताः । फलानि यानि विद्यन्ते सुगंधि मधुराणि च ॥१२॥
जातीफलं च कंकोल लवंगलवलीफम् । खर्जूरी नालिकेरांश्वकदल्याश्चफलानिच ॥१३॥
दाडिमान्मातुलुंगांश्वकर्कटीः स्त्रपुसांस्तथा । वृंताकान्कारवेल्लांश्वबिंबान्कूष्मांडकर्बुरान् ॥१४॥
अप्रदानेन येषां तु तिथयी यान्ति भारत । ते व्याधिता दरिद्राश्व जायन्ते भुवि मानवाः ॥१५॥
नकेवलंब्राह्मणानांदानंसर्वस्यशस्यते । भगिनीभागिनेयानांमातुलानांपितृष्वसुः ॥१६॥
दरिद्राणां च बंधूनां दानं कोटिगृणोत्तरम् । मिव्रं कुलीनश्वापन्ना बंधुर्दारिद्यदुःखितः ॥१७॥
आशयाभ्य़ागतो दूरात्सोऽतिथि स्वर्गसंक्रमः । वनं प्रस्थापिते रामे ससीते सहलक्ष्मणे ॥१८॥
मातामहकुलदेत्य विशुद्धेनांतरात्मना । ससर्वैः श्रावितोनेकैः कौशल्या भरतेन वै ॥१९॥
यदा न प्रत्ययं याति कथचित्कौशलात्मजा । तदा विशुद्धभावेन तिथयः श्राविताः पुवः ॥२०॥
वैशाखी कार्तिकी माघी तिथयोऽसरपूजिताः । अप्रदानवतो यांति सवैपापीनरः सदा ॥२१॥
एतच्छुत्वा तु कौसल्या सहसा प्रत्ययं गता । अंकमानीय भरतं सांत्वयामास दुःखितम् ॥२२॥
एतुत्तिथीनां माहात्म्यम्व्रख्यातं बहुविस्तरम् । भूयस्तू किं प्रवक्ष्यामि तव्र राजन्महाम्रते ॥२३॥
वैशाखकतिकमाघासहिताथमाघेयापूर्णिमाभवतिपूर्णशशांकचिह्ला । तस्यांजलान्नकन कांबरमातपव्रं दत्वा प्रयाति पुरुषः पुरुहूतलोकम् ॥२४॥ [ ४२३२ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे वैशाखीकार्तिमाथी व्रतवर्णनं नाम शततमोऽध्याय़ ॥१००॥