युधिष्ठर उवाच ॥
उपवासासमर्थानां सदैव पुरुषोत्तम । एका या द्वादशी पुण्या तां वदस्व ममानघ ॥१॥
श्रीकृष्ण उवाच ॥ मासि भाद्रपदे शुक्ला द्वादशी श्रवणान्विता । सर्वकामप्रदा पुण्या चोपवासे महाफला ॥२॥
सङ्गमे सरितां स्त्रात्वा द्वादश्यां समुपोषितः । अयत्नात्समवान्पोति द्वादशद्वादशीफलम् ॥३॥
बुधश्रवणद्वादश्यामेवं वै संयतो भवेत् । अत विमहती तस्यां कृतं सर्वमथाक्षयम् ॥४॥
द्वादशी श्रवणोपेता यदाभवति भारत । सङ्गमे सरितां स्त्रात्वा गङ्गादिस्त्रानजं फलम् ॥५॥
सोपवासः समान्पोति नाव्र कार्या विचारणा । जलपूर्णे तथा कुम्भे स्थापयित्वा विचक्षणः ॥६॥
पञ्चरत्नसमोपेतं सोपवीतं सुपूजितम् । तस्यस्कन्धे सुघटितं स्थापयित्वाजनार्दनम् ॥७॥
यथाशक्त्या स्वर्णमयं शंखशार्ङ्गविभूषितम् । स्नापयित्वा विधानेन सितचन्दनचर्चितम् ॥८॥
सितवस्त्रयुगच्छन्नं छव्रोपानद्युगान्वितम । ॐ नमो वासुदेवायेति शिरः संपूजयेद्धरेः ॥९॥
श्रीधराय मुखं तदूत्कण्ठं कृष्णाय वै पुनः । ॐ नमः श्रीमते वक्षी भुजौ सर्वास्त्रधारिणे ॥१०॥
व्यापकायनमः कुक्षी केशवायोदरं नमः । व्रैलोक्यजनकायेति एवं संपूजयेत्कटिम् ॥११॥
सर्वाधिपतये जङ्धे पादौ सर्वात्मने नमः । अनेन विधिना राजन्पुष्पैर्धूपैः समर्चयेत् ॥१२॥
ततस्तस्याग्रतो देयं नैवेद्यं घृतपाचितम् । सोदकांश्व नवान्कुम्भाञ्छक्तन्या दद्याद्विचक्षणः ॥१३॥
एवं संपूज्य गोविन्दं जागरं तव्र कारयेत् । प्रभाते विमले स्त्रात्वा संपूज्य गरुडध्वजम् ॥१४॥
पुष्पधूपौदिनैवेधैः फलैर्वस्त्रैः सुशोभनैः । ततः पुष्पाञ्जलिं बद्धा मन्व्रसेतमुदीरयेत् ॥१५॥
नमो नमस्ते गोविन्द बुधश्रवणसंज्ञक । अधौघसंक्षयं कृत्वा सर्वसौख्यप्रदो भव ॥१६॥
एवं संपूज्य गोविन्दं ब्राह्मणं पूजयेत्ततः । अनन्तरं ब्राह्मणे वै वेदवेदान्तपारगे ॥१७॥
पुराणज्ञे विशेषेण विधिवत्संप्रदापयेत । द्वादश्यां श्रवणे युक्ते अशेषाहप्त्करान्विते ॥१८॥
कर्तव्यं सङ्गमे स्त्रानं प्रीयतां मे जार्दनः । श्रीकृष्ण उवाच ॥ अव्राप्युदाहरन्तीममितिहासं पुरातनम् ॥१९॥
महत्यरण्येयदृत्तं भूमिपाल शृणुष्व तत । देशो दशाणेको नाम तस्य भागे तु पश्विमे ॥२०॥
अस्ति कश्विन्मरुदेशः सर्वसत्त्वभयङ्करः । सुतप्तसिकता भूमिर्यव्र दुष्टा महोरगाः ॥२१॥
अल्पछायद्रुमाकीर्णो मृतप्राणिसमाकुलः । शमीखदिरपालाशकरीरैः पीलुभिः सह ॥२२॥
तव्र भीसव्रमाः पार्थ कण्टकेः शबला द्दढै । दग्धप्राणिगणाकीर्णा यव्र भूर्दश्यते क्कचित् ॥२३॥
अन्नोदकं नो लभन्ते राजंस्तव्र बलाहकाः । कदाचिदपि द्दश्यन्ते भ्नममाणा विहङ्गमाः ॥२४॥
वृक्षान्तरगतैर्नित्यं शिशुभिस्तृषितै समम् । उत्कृत्तजीविता राजन्द्दश्यते विहगोत्तमाः ॥२५॥
तृषातुराश्व सहसा मृगाः सैकतमागताः । सैकतेष्वेव नश्यन्ति जलं सैकतसेतुवत् ॥२६॥
तस्मिंस्तथाविधे देशे कश्विद्दैववशाद्वणिक् । निजसार्थपरिभ्रष्टः प्रविष्टो मरुजङ्गले ॥२७॥
पिशाचान्मलिनांस्तीक्ष्णान्निर्मांसान्भमिदर्शनान् । इतस्ततः संचरतो ददर्श वणिजोत्तमः ॥२८॥
ब्रभ्रामोद्भ्रान्तह्रदयः क्षुत्तृषान्भमकर्षितः । क्व ग्रामः क्व जलं क्वाहं यास्यामि न बुबोध सः ॥२९॥
अथ प्रेतान्ददर्शासौ तृषणाव्याकुलितोन्द्रियान् । स्नायुबद्धास्थिचरणान्प्रेक्षमाणानितस्ततः ॥३०॥
प्रेतस्कन्धसमारूढमेकं प्रेतं ददर्श ह । अपश्यद्वहुभिः प्रेतैः समन्तात्परिवारितम् ॥३१॥
आगच्छमानमव्यग्रं स्त्रुतुशब्दपुरःसरम् । प्रेतस्कन्धान्महीं गत्वा तस्यान्तिकमुपागमत् ॥३२॥
सद्दष्टाथवणिकछ्रेष्ठमिदं बचनमब्रवीत् । अस्मिन्दै निर्जले देशे गमनं भवतः कथम् ॥३३॥
तसुवा च वणिग्धीमान्सार्थभ्रष्टस्य चैव मे । प्रवेशो दैवयोगेन पूर्वकर्मकृतेन तु ॥३४॥
तृष्णा मां बाधतेऽत्यर्थं क्षुद्दुनोति भृशं तथा । प्राणाः कण्ठमनुप्राप्ता वचनं नश्यतीव मे ॥३५॥
अव्रोपायं न पश्यामि जीवेयं येन केनचित् । कृष्ण उवाच ॥ इत्येवसुक्ते प्रेतस्तं वणिजं वाक्यमब्रवीत ॥३६॥
पुंनागमिममाश्रित्य प्रतीक्षस्व मुहूर्तकम् । कृतातिथ्यो यथालाभं गमिष्यसि यथासुखम् ॥३७॥
एबमुक्तस्तथा चक्रे स वणिक्तृष्मयादिंतः । मध्याह्रसमये प्राप्ते ततस्तं देशमागतः ॥३८॥
पुन्नागवृक्षात्करको वारिधारामनोरमः । दध्योदनसमायुक्तो वर्धमानेन संयुतः ॥३९॥
आगते करके तस्मिन्प्रादादतिथये तदा । भुक्त्वास्त्रं च जले पीत्वा वणिक्तुष्टिसुपागतः ॥४०॥
विटुष्णो विज्वरश्वैव क्षणेन समपद्यत । ततंस्तु प्रेतसङघस्य भोक्तुकामस्य वै ददौ ॥४१॥
दध्योदनं सपानीयं प्रेतास्तृप्तिं परां गताः । अतिथिं तर्पयित्वा च प्रेतलोकं च सर्वशः ॥४२॥
ततः स्वय स बुभूजे भुक्तशेषं यथासुखम् । तस्य भुक्तवतश्वान्नं पानीयं च क्षयं ययौ ॥४३॥
प्रेताधिपं ततस्तृप्तो वणिग्वचनमब्रवीत् । आश्वर्यमेतत्परमं वनेऽस्मिन्प्रतिभाति मे ॥४४॥
अन्नपानस्य संप्राप्तिः परमस्य कुतस्तव । स्तोकेन च तथान्नेन बिभषिं सुबहून्पृथक् ॥४५॥
तृप्ताः परं कथं त्वेते निर्सांसा भिन्नकुक्षयः । अपरं च च कथं चेह मम पापपरिक्षयः ॥४६॥
हस्तावलस्बनः कस्त्वं संप्राप्तो निर्जने वने । तृप्तश्वासि कथं ग्रासमाव्रेणच शुभव्रत ॥४७॥
कस्त्वमस्यां सुघोरायामटव्यां तु कृतालयः । तदेतत्संशयं छिन्धि परं कौतूहलं मम ॥४८॥
एवसुक्तः स वणिजा प्रेतो वचनमब्रवीत् । शृणु भद्र प्रवक्ष्यामि दुष्कृतं कर्म चात्मनः ॥४९॥
शाकले नगरे रम्ये अहमासं सुदुर्मतिः । वणिजासक्तितः पूर्वं कालो नीतो मयानघ ॥५०॥
धनलोभान्म्या तव्र कदाचिच्च प्रमादिना । न दत्ता भिक्षवे भिक्षा तृष्णया पीडिताय च ॥५१॥
प्रतिवेशे च तव्रासीद्ब्राह्मणो गुणवान्मम । भ्रवणद्वादशीयोगे मासि भाद्रपदे तथा ॥५२॥
स कदाचिन्म्या सार्धं तोषां नाम नदीं ययौ । तस्प्राश्वसङ्गमः पुण्यो यव्रासीच्चन्द्रभागया ॥५३॥
चन्द्रभागा सोमसुता तोषा चैवार्कनन्दिनी । तयोः शीतोष्णसलिलसङ्गमः सुमनोहरः ॥५४॥
तत्तीर्थवरमासाद्य प्रतिवेश्यः स च द्विजः । श्रवणद्वादशीयोगे स्त्रातश्वैवमुपोषितः ॥५५॥
चन्द्रभागातोषयोश्व वारिधान्यैर्नवैर्द्दढैः । दध्योदनयुतैः सार्धं संपूर्णैर्वर्धमानकैः ॥५६॥
छव्रोपानद्युगं वस्त्रं प्रतिमां विधिवद्धरेः । चन्द्रभागाजीवनेन दध्योदनयुतं तदा ॥५७॥
एतत्कृत्वा गृहं प्राप्तस्ततः कालेन केनचित् । पञ्चत्वमहामासाद्य नास्तिक्यात्प्रेततां गतः ॥५८॥
अस्यामटव्यां घोरायां यथा द्दष्टस्त्वयानघ । ब्रह्मस्वहारिणस्त्वेते पापाः प्रेतत्वमागताः ॥५९॥
परदाररताः केचित्स्वाभिद्रोहरताः परे । मिव्रद्रोहरताः केचिद्देशेऽस्त्रिंस्तु सुदारुणे ॥६०॥
ममैते भृत्यतां याता अन्नपानकृतेन च । अक्षय्यो भगवान्कृष्णः परमात्मा सनातनः ॥६१॥
यद्दीयते तमुद्दिश्य अक्षय्यं तत्प्रकीर्तित्म् । मिया विहीनाः किं त्वेते वनेऽस्मिन्भृशदारुणे ॥६२॥
पीडामनुभविष्यन्ति दारुणां कर्मयोनिजाम् । एतेषां त्वं महाभाग ममानुग्रहकाम्यया ॥६३॥
अनेकनामगोव्राणि गृहाण लेखनेन च । अस्तु कक्षागता चैव तव संपुटिका शुभा ॥६४॥
हिमवत्यां तथासाद्य तव्र त्वं लप्स्यसे निधिम् । गयाशीर्षे ततो गत्वा श्राद्धं कुरु महामते ॥६५॥
एकमेकमथोद्दिश्य प्रेतं प्रेतं यथासुखम् । एवं संभाष्यमाणोऽसौ तप्तजा म्बूनदप्रभः ॥६६॥
विमानवरमारुह्य स्वर्गलोकमितो गतः । स्वर्गते प्रेतनाथे तु प्रभावात्स वणिक्पुमान् ॥६७॥
नामगोव्राणि संगृह्य प्रयातः स हिमाचलम् । तव्र प्राप्य निधि गत्वा विनिक्षिप्य स्वके गृहे ॥६८॥
धनभागमुपादाय गयाशीर्षवटं ययौ । प्रेतानां क्रमशस्तव्र चक्रे श्राद्धं दिने दिने ॥६९॥
यस्य यस्य गया श्राद्धं स करोति दिने वणिक । स च तस्य सदा स्वन्पे दर्शयत्यात्मनस्तनुम् ॥७०॥
ब्रवीति च महाभाग प्रसादेन तवानघ । प्रेतभावो मया त्यकः प्राप्तोस्मि परमां गतिम् ॥७१॥
स कृत्वा धनलोभाच्च प्रेतानां सत्कृतिं वाणेक । जगाम स्वगृहं तव्र मासि भाद्रपदे तथा ॥७२॥
श्रवणद्वादशी योगे पूजयित्वा जनार्दनम् । दानं च दत्त्वा विप्रेभ्यः सोषवासो जितेन्द्रियः ॥७३॥
महानदीसङ्गमेषु प्रतिवर्षे युधिष्ठिर । चकार विधिवद्दानं ततो दिष्टान्तमागतः ॥७४॥
अवाष परमं परमं स्थानं दुर्लभं चाव्र मानवैः । यव्र कामफला वृक्षा नद्यः पायसकर्दमाः ॥७५॥
शीतलामलपानीयाः पुष्करिण्यो मनोहराः ॥७६॥
तं देशमासाद्य वणिङ् महात्मा सुतप्तजाम्बूनदभूषिताङ्गः । कल्पं समग्रं सह सुन्दरीभिः स्वर्गे स रेमे मुदितः सदैव ॥७७॥ [ ३१५० ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णायुधिष्टिरसंवादे श्रवणद्वादशीव्रतवर्णनं नाम पञ्चसप्ततितमोऽष्यायः ॥७५॥