युधिष्ठिर उवाच ॥
कांतारवनदुर्गेषु सुप्रसन्नाटवीषु च । समुद्रतरणे दाने संग्रामे तस्करार्दने ॥१॥
कां देवतां स्मरेत्कृष्न परिव्राणकरीमिह । कथं च देघः पुरुषः परिव्राणं स्मृतो जनैः ॥२॥
श्रीकृष्ण उवाच॥ सर्वसंगलमागल्याम दुर्गां भगवतीमिमाम् । नान्पोति दुःख पुरुषः संस्मरन्सर्व भङ्गलाम् ॥३॥
अलक्ष्याम लक्षभतानां संस्मरन्सर्वमंगलाम् । न भयं समवान्पोति पुरुषः प्रार्थ कुव्रचित् ॥४॥
यदा तां प्रतिजिज्ञासुरवंत्याममहमागतः । पुरा संदोपनौ पार्थ वलेन सह भारत ॥५॥
प्राप्तविद्येन मयाप्रतिज्ञातास्य दक्षिणा । दिव्यं स्तवं विदित्वामे तेनाहं याचितः प्रभो ॥६॥
प्रभासतीर्थे पुव्रो मे गतः केनाप्यसौ हतः । तमानय महाबाहो सत्यं कुरु वचो मम ॥७॥
उपाध्यायस्य वचनाद्वैवरवतपुरे मया । प्राप्तः संदीपनेः पूव्रः समानीतः क्षणादसौ ॥८॥
दक्षिणां तामुदाह्रत्य प्रस्थितौ पुनरागतौ पितृणां दर्शनार्थं वै आवां स्वगृहमागतौ ॥९॥
ततः प्रभृति पुव्रार्थाः पुजयंति जनाः सदा । मां चैव बलभद्रम च मध्यस्तां सर्वमंगलाम् ॥१०॥
वामे नारायणोहं सो दक्षिणे बल देवकः मध्ये सा वै महादेवी येन पूज्या भवेविह ॥११॥
व्रयोदश्यां सिते पक्षे मासि यतव्रतः नक्तेनैवोपवासेन एकभक्तेन वा पुनः ॥१२॥
गंपूष्पैश्व मधुभिः सीधुभिश्व सुरासवैः । मृन्मयीं कांचनीं वापि कृत्वा प्रीति कृतिं तु यः ॥१३॥
यक्षगंधबलिक्षेपैः पललौदनसंसृजैः । सोऽभ्यर्चयति राजेन्द्र सर्वपापैः प्रमुच्यते ॥१४॥
नारि वा भर्तृसहिता स्वर्गलोके महीयते ॥१५॥
अंवाम्बिकांद्वादशमेऽह्लि सिते सदैवयः पृजयेत्कृसुममांससुरोपहारैः ॥ नश्यन्ति तस्य भवनेष्वति भीषणानि चौराग्निमारजनितानि भयानि सद्यः ॥१६॥ [ ३७१५ ]
इति श्रीभविष्ये महापुराणे उत्तरषर्वणि श्रीकृष्णधिष्ठिरसंवादें अवाधकव्रतवणनं नाम सप्ताशीतितमोऽध्यायः ॥ ८७॥