श्रीकृष्ण उवाच ॥
लोमशो नाम विप्रर्षिर्मथुरायां गतः पुरा । सोर्चितो वसुदेवेन देवक्या च पुधिष्ठिर ॥१॥
उपबिष्टः कथाः पुण्याः कथयित्वा मनोहराः । ततः कथयितुं भूयो कथामेतां प्रचक्रमे ॥२॥
कसे हते मृताः पुव्राः पुव्रा जाता पुनः पुनः। मृतवत्सा दिवकि त्वं पुव्रदुःखेन दुःखिता ॥३॥
यथा चन्द्रमुखी दीप्रिर्बभूव मृतपुव्रिका । पश्वाच्चीर्णव्रता सैव बभूवाक्षतबत्सका ॥४॥
त्वमेब देवकि तथा भविष्यसि न संशयः । देवक्युवाच ॥ का सा चन्द्रमुखी ब्रह्यन्वभूव बहुपुव्रिका ॥५॥
किं विचीर्णं व्रतवर बहुसन्ततिकारकम् । सतां सदर्थकरणं सौभाग्यारोग्यवर्धनम् ॥६॥
लोमश उवाच ॥ अयोध्यायां पुरा राजा नहुषो नाम विश्रुतः । तस्य राज्ञो महादेही नाम्ना चन्द्रमुखी पुरा ॥७॥
पुरोहितस्य तस्येव पत्न्यातीन्मानमानिका । तयोरासीद्द्दढा प्रीतिः स्पृहणीया परस्परम् ॥८॥
अथापि तेपि मिव्रिण्यौ स्त्रानार्थं शरयूजले । प्राप्ते प्राप्ताश्व वव्रैव बह्रन्यश्व नगराङ्गनाः ॥९॥
स्त्रात्वा तु मण्डलं चकुः स्वपतेर्व्यक्तरूपिणः । लेखयित्वा शिवं शान्तमुमया सह शकरम् ॥१०॥
गन्धपुष्पाक्षतैभक्त्या पूजयित्वा यथाविधि । प्रणम्य गन्तुकामास्ताः पृष्टास्ताभ्या नरस्त्रियः ॥११॥
ता ऊचूः शङ्करोऽस्मानिः पावत्या सह पूजितः । स्वणंसूव्रमयं तन्तुं शिवायात्मा निवेदितः ॥१२॥
घारामयमिदं तावद्यावत्प्राणावधारणम् । तासां तु वचनं श्रुत्वा मिव्रिण्यौ तेऽपि भारत ॥१३॥
व्रस्यैव समयं तव्र बदध्वा दोर्भ्यां तु डोरकैः । ततस्तह स्वगृहाञ्चरमुः स्वसखीभिः समावृताः ॥१४॥
कालेन महता यातं तस्यां वैतद्व्रत नृप । चन्द्रवत्याः प्रमत्ताया विस्मृतः स तु डोरकः ॥१५॥
मृता कैश्विदहोराव्रैः सा बभूव प्लवङ्गमी । मानी च कु्क् कुटी जाता प्रायः संनिकटं चरे ॥१६॥
तथैव जाते मिव्रिण्यौ पूर्वजातिस्मो तथा ॥ माभूय भूपसमयं प्रारभूतं चक्रनुः पुनः ॥१७॥
तद्दिने तव्र संप्राप्ते पुनः कालेन ते मृते । तव्रैद देशे जाते गोकुलसंयुते ॥१८॥
राज्ञो जाया बभूवाथ पृथ्वीनाथस्य वा पुनः । ईश्वरी नाम विख्याता राज्ञी राजन्द्रवल्लभा ॥१९॥
अग्निमीला द्विजस्याभूद्भार्या भूषणनामिका । पुरोहितस्य कालेन कुक कुटी चहुपुव्रिणी ॥२०॥
जातिस्मरा पद्महस्ता अष्टपुव्राऽमृतप्रजा । पुनर्निरन्तरा प्रीतिर्बभूवाय तयोर्नृप ॥२१॥
तव्रेश्वरी पुव्रमेकं प्रसूता चैव रौगिणम् । नव वर्षं तु पञ्चत्वमगात्स च युधिष्ठिर ॥२२॥
ततस्तां भूषणां द्रष्टुमथैषा पव्रदुःखिता । सखीभावादतिस्त्रेहात्सर्वपुव्रसमन्विता ॥२३॥
अमुक्ताभरणा नित्यं स्वबावनैव भूषिता । तां द्दष्टवा पुव्रिणीं भव्यां प्रजज्वालेश्वरी रुषा ॥२४॥
ततो गृहे प्रेष्य च तां सखीं वै तीव्रमत्सरा । चिन्तयामास सा राव्यां तस्याः पुव्रबधं प्रति ॥२५॥
हता ह्ताश्व तापुव्रा पुनर्जीवन्त्यनामयाः । कदाचिदाहुय सखीं भूषणां पुरतः स्थिताम् ॥२६॥
ईश्वरी प्राह किमिदं सखि पुण्यं त्वया कृतम् । येन ते निहताः पुव्राः पुनर्जीबन्ति नो भयम् ॥२७॥
बहुपुव्रा जीववासा अमुक्ताभरणा कथम् । शोभसेऽभ्यधिकं भद्रे विद्युत्सौदामिनीव हि ॥२८॥
भूषणोवाच ॥ भद्रे भाद्रपदे मासि सप्तम्यां सलिलाशये ।स्त्रात्वा शिवं मण्डलके लेखयित्वा सहाम्बिकम् ॥२९॥
भक्त्या संपुज्य समयं कुर्याद्वद्ध्वा करे गुणम् । यावज्जीवं मया तावच्छिवस्यात्मा निवेदितः ॥३०॥
इत्येवं समयं कृत्वा ततःप्रभृति डोरकम् । स्वर्णरौप्यमयं वापि करशाखासु धारयेत् ॥३१॥
मण्डकं वेष्टिकां दद्याच्छवश्रूपक्षे द्विजे तु वा । स्वयं च ता न भोक्तव्या व्रतमङ्गमयात्सखि ॥३२॥
परितो मुद्रिका रौप्या सौवर्णा युधिष्ठिर । ताम्रपाव्रोपरि स्थाप्य ब्राह्मणाय निवेदयेत् ॥३३॥
सोहालकानिकासार दह्याद्भुञ्जीत च स्वयम् । मण्डल सद्मवित्तं च शिवं शक्तिसमन्वितम् ॥३४॥
सपूज्य सखि दुष्पाप्यं व्रैलोक्येऽपि न बिद्यते । तदेव समयं पुर्वं त्वया सह मया कृतः ॥३५॥
स मया पालितो भक्त्या ततोऽह सुस्थिता सखि । त्वया स भग्नः समयो दर्पात्त्यक्तः शरीरयोः ॥३६॥
तेन सततिविच्छिन्ना राज्येपि सवि दुःखिता । एप प्रभावः कथितो व्रतस्यास्य मया तव ॥३७॥
अर्द्धं तव प्रदास्यामि तस्य धर्मस्य सुव्रते । सखिभावात्प्रतीच्छ त्वं नाव्र कार्या विचारणा ॥३८॥
इत्युक्त्वा प्रतिजग्राह व्रतदानफल ततः । बभूव सुप्रजाः साध्वी मोक्षं प्राप्य सुरेश्वरी ॥३९॥
व्रतस्यस्य प्रभावेण सपुव्रा त्वं च देवकि । भविष्यसि व्रिलाकेश पुव्रं च जनयिष्यसि ॥४०॥
इत्येवं कथयित्वास्या लोमशो मुनिपुङ्गवः । जगाम नमसा पार्थ मयाऽप्येतत्तवोदितम् ॥४१॥
ये चरिष्यन्ति मनुजा व्रतमेतद्यधिष्ठिर । कृकवाकुषसङ्गाख्यं देवक्या चरितं शुभम् ॥४२॥
तेषां संततिविच्छेदो न कदाचिद्भविष्यति । स्त्रियश्व याश्वरिष्यन्ति व्रतमेतत्सुतप्रदम् ॥४३॥
मर्त्यलोके सुखं स्थित्वा यास्यन्ति शिवमन्दिरम् ॥४४॥
यः कुक् कुटीव्रतवरं प्लवगीसमेतं चक्ते चराचरगुरुं ह्रदये निधाय । तह्याकरोति कलुषौघविघातरक्षां सा स्त्री युवा भवति शोभनगीतवत्सा ॥४५॥ [ १९५८ ]
इति श्रीभविष्ये महापुराण उत्तारपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कुक् कुटमर्कटीव्रतवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥४६॥