युधिष्ठिर उवाच ॥
तन्मे कथय देवेश येन दत्तेन मानवः । बहुपुत्रो बहुधनो बहुभृत्यश्व जायते ॥१॥
श्रीकृष्ण उवाच ॥
पुरा भारतवंशोस्मिन्त्राजासीद्धव्यवाहनः । पितृपैतामहं तेन प्राप्तं राज्यम् कंटकम् ॥२॥
नतस्यराज्येविध्वंसोनवैरिजनितंभयम् । शरीरोत्थमहाव्याधिर्नचैवांतरदाहकः ॥३॥
तस्यैवं कुर्वतो राज्यं पूर्वकर्मार्जिताशुभाम् । नास्तिभृत्यो भारसहः सर्वराज्यधुरंधरः ॥४॥
न पुत्रः प्रियकृत्कश्विन्न मंवी मधुराक्षरः । न मित्रं कार्यकरणे समर्थो न सुहृत्तथा ॥५॥
न भोज्यसमये प्राप्ते भोजनं सार्वकामिकम् । न पूगफलसंयुक्तं तांबूलं वसनं न च ॥६॥
न धनं जनसंबंधकारको रत्नसंचयः । तस्यैवं कुर्वतो राज्यमव्याहतमचेष्टितम् ॥७॥
अथैकस्मिन्दिने विप्रः पिप्पलादोऽतिविश्रुतः । आजगाम महायोगी राज्ञः पार्श्वे महाद्युतिः ॥८॥
तमागतं मुनिं दृष्ट्रवा राजपत्नी शुभावती । पाद्यार्घ्यसमदानेन सर्वथातमपूजयत् ॥९॥
ततः कथांते कस्मिंश्वित्तमुवाच शुभावती । ममवन्राज्यभेतन्नः सर्वबाधविवर्जितम् ॥१०॥
कस्मान्न भृत्याः पुत्रा वा मंत्रिमित्रादिकं द्विज । भोगावाप्तिर्न च तथा सर्वबाधाविवर्जितम् ॥११॥
पिप्पलाद उवाच । यद्येन पूर्वविहितं तदसौ प्राप्नुते फलम् । कर्मभूमिरियं राज्ञिः नातः शोचितुमर्हसि ॥१२॥
न तत्कुर्वति राजानो न दायादा न शघ्रवः । न बांधवा न मित्राणि यद्येन न पुरा कृतम् ॥१३॥
तस्माद्धवद्धिर्यद्दत्तं प्राप्तं तद्राज्यमुत्तमम् । भृत्यमित्रादिसंबधो न दत्तः प्राप्यते कुतः ॥१४॥
शुभावत्युवाच ॥
इदानीमेव विप्रर्षे कस्मात्तन्नोपदिश्यते । येन मे बहवः पुत्रा धनं भृत्या भवंति वै ॥१५॥
मंत्रोवासिद्धयोगोवाव्रतंदानमुपोषितम् । कथयस्वामलमते येन संपद्यते सुखम ॥१६॥
ततः स कथयामास पिप्पलादो द्विजोत्तमः । आपाकाख्यं महादानं सर्वसंपत्प्रदायकम् ॥१७॥
श्रद्धया कुरुशार्दूल नारी चाप्यथवा पुमान् । येन दत्तेन भाग्यानां बहूनां भाजनं भवेत् ॥१८॥
तच्छुत्वा स ददौ राजाऽऽपाकाख्यं दानमुत्तमम् । लेभे पुत्रान्पशूत्भृन्या मंत्रिमिवसुहृअज्जनात् ॥१९॥
श्रीकृष्ण उवाच ॥
आपाकाख्यं महादानं कथयामि युधिष्ठिर । दत्तेन येन कामानां पुमान्भवति भाजनम् ॥२०॥
ग्रहतारबल लब्ध्वा भागवं पूजयेच्छुभम् । वासोभिर्भृषणैश्वैव पुष्पेरगरुचंदनैः ॥२१॥
क्रुयात्तथैव सम्मानंयथा तुष्टोऽभिजायते । कुरुष्व त्वं मे भांडानि गुरुणि च लघूनि च ॥२२॥
मणिकादीनि शुभ्राणि स्थाल्यश्व सुमनोहराः । घटकाः करकाश्वैव गलंत्यः कुंडलानि च ॥२३॥
शरावादीनि पात्राणि भांडमुच्चावचं बहु । संपादय महाभाग विश्वकर्मा त्वमेव हि ॥२४॥
भार्ववोऽपि प्रयत्नेन नानाभांडान्वितं शुभम् । आपाकं कल्पयेद्दिव्यांदृष्टेन कर्मणा ॥२५॥
सहस्त्रेमेकं भांडानां स्थापयित्वा विचक्षणः । संध्याकाले वलित्वा तु दद्याच्चापि हुताशनम् ॥२६॥
रात्रौ जागरणं कुर्याद्नीतमंगलनिस्वनैः । ततःप्रभाते विमले ज्ञात्वा निर्वापितं शनैः ॥२७॥
रक्तवस्त्रैः समाच्छाद्य पुष्पमालाभिरर्चयेत् । यजमानस्ततः स्त्रात्वा शुल्कांबरधरः शुचिः ॥२८॥
हेमरौप्याणि भांडानि ताम्रलोहमयानि च । परितः स्थापयित्वा च स्वशक्त्या तानि षोडेशः ॥२९॥
पूजयित्वा प्रयत्नेन कृत्वा चापि प्रदक्षिणाम् । ब्राह्मणान्पूजयित्वा च भार्गवं पूज्य यत्नतः ॥३०॥
नार्यश्वाविधवास्तत्र समानीय प्रपूज्य च । प्रदक्षिणं ततः कृत्वा मंत्रेणानेन पूजयेत् ॥३१॥
आपाक ब्रह्मरुपोसि भांडानीमानि देहि मे । प्रदानात्ते प्रजापुष्टिः स्वर्गश्वास्तु ममाक्षयः ॥३२॥
भांडरुपाणि यान्यत्र कल्पितानि मया किल । भूत्वा सत्पात्ररुपाणि उपतिष्ठंतु ताचि मे ॥३३॥
दानमंत्रः ॥
या च यद्धांडमादत्ते तस्यै तद्दापयेत्ततः । स्वेच्छया चैव गृह्रातु न निवार्यास्तु काश्वन ॥३४॥
अनेन विधिना यस्तु दानमेतत्प्रयच्छति । विश्वकर्मा भवेत्तुष्टस्तस्य जन्मत्रयं नृप ॥३५॥
नारी च दत्त्वा सौभाग्यमतुलं प्रतिपद्यते । गृहं सर्वगुणितं भृत्यमित्रजनैर्वृतम् ॥३६॥
अवियोगं सदा भर्त्रा रुपं चानुत्तमं लभेत् । भृदानमेतान्निर्दिष्ट प्रकारेण तवानघ । भिद्यते बहुभिर्भिदैर्भूमिरेषा नरेश्वर ॥३७॥
निष्पाद्य भांडनिचयोच्चतरं प्रयत्न दापाकदानमिह या कुरुते वरस्त्री । सा पुत्रपौत्रपशुवृद्धसुखानि भुक्त्वा प्रेत्य स्वर्भर्तृसहिता सुखिना सदास्ते ॥३८॥ [ ७२७१ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे आपाकदानविधिवर्णनंनामसप्तषष्टयुत्तरशततमोऽध्यायः ॥१६७॥