युधिष्ठिर उवाच ॥
गृहस्थो मरणे प्राप्ते कथं त्यजति जीवितम् । एतन्मे बूहि गोविन्द परं कौतूहलं हि मे ॥१॥
कृष्ण उवाच ॥ नान्यदुत्कृष्टमुद्दिष्टं तज्ज्ञैरनशनात्परम् । तस्याहं लक्षणं वक्ष्ये यज्जप्यं च मूमूर्षता ॥२॥
यादृगूपश्व भगवांश्विंतनीयो जनार्दनः । आसन्नमात्मनः कालं ज्ञात्वा प्राज्ञो युधिष्ठिर ॥३॥
निर्धूतमलदोषश्व स्नातो नियतमानसः । समभ्यर्च्य हृषीकेशं पुष्पधूपादिभिस्ततः ॥४॥
प्रणिपातैः स्तवैः पुण्यैर्गधैर्धूपैस्तु पूजयेत् । दत्वा दानं च विप्रेभ्योऽविकलादिभ्य एव च ॥५॥
समर्प्य ब्राह्मणेभ्यश्व देवार्चाद्युपयोगि च । बंधुपुत्रकलत्रेषु क्षेत्रधाः यधनादिषु ॥६॥
मित्रवर्गे च राजेन्द्र ममत्वं विनिवर्तयेत् । मित्राण्यामित्रान्मध्यस्थान्परन्स्वांश्व पुनः पुनः ॥७॥
अत्यर्थमपकारेण नोपकारेण चिन्तयेत् । ततश्व प्रयतः कुर्यादुत्सर्ग सर्वकर्मणाम् ॥८॥
शुभाशुभानां राजेंद्र वाक्य्म चेदमुदीरयेत् परित्यजाम्यहं भोगांस्त्यजामि सुहृदोऽखिलान् ॥९॥
भोजनं हि मयोत्सृष्टमुत्सष्टमनुलेपनम् । स्त्रग्भूषणादिकं गेयं दानमासनमेव च ॥१०॥
होमादयः परार्था ये ये च नित्यक्रमागताः । नैमित्तिका स्तथा काम्याः श्राद्धधर्मादयोज्झिताः ॥११॥
त्यक्ताश्वाश्रमिका धर्मा वर्णधर्मा स्तथोज्झिताः । पद्भयां कराभ्यां विहरन्कुर्वाणः कर्म चोद्वहन् ॥१२॥
न पापं कस्यचिन्न्याय्याः प्राणिनः संतु निर्भयाः । नभसि प्राणिनो ये च ये जले ये च भूतले ॥१३॥
क्षितेर्विवरगा ये च ये च पाषाणसंपुटे । धान्यादिषु च वस्त्रेषु शयनेष्वासनेषु चः ॥१४॥
ते स्वयं तु विबुध्यंतु दत्तं तेभ्योऽभयं मया । नमेऽस्ति बांधवः कश्विद्विष्णुं मुक्त्वा जगद्गुरुम् ॥१५॥
मित्रपक्षेचमेविष्णुरधश्वोर्ध्वतथायुतः । पार्श्वतो मूर्ध्नि हृदये बाहुभ्यां चैव चक्षुषी ॥१६॥
श्रोत्रादिषु च सर्वेषु मम विष्णुः प्रतिष्ठितः । इति सर्व समुत्सृज्य घृत्वा सर्वेशमच्युतम् ॥१७॥
वासुदेवेत्यविरतं नाम देवस्य कीर्तयेत् । दक्षिणाग्रेषु दर्भेषु शेते वै प्राक्छिशिरास्तथा ॥१८॥
उदक्छिराःवा राजेंद्र चिंतयञ्जगतः पतिम् । विष्णुं जिष्णुं हृषीकेशं केशव मधुसूदनम् ॥१९॥
नारायणं नरं शौरिं वासुदेव जनार्दनम् । वाराहं यज्ञपुरुषं पुंडरीकाक्षमच्युतम् ॥२०॥
वामनं श्रीधरं कृष्णं नृसिंहमपराजितम् । पद्मनाभमजं श्रीशं दामोदरमधोक्षजम् ॥२१॥
सर्वेश्वरेश्वरं शुद्धमनंतं विश्वरुपिणम् । चक्रिण गदिनं शांतं शाङ्खिनं गरुडध्वजम् ॥२२॥
किरीटकौस्तुभधरं प्रणमाम्यहमव्यवयं । अहमस्मिजगन्नाथ मयि वासं कुरु द्रुतम् ॥२३॥
आवयोरंतरं मास्तु समीराकाशयोरिव । अयं विष्णुरयं शौरिरयं कृष्णः पुरो मम ॥२४॥
नीलोत्पलदलश्यामः पद्मपत्रायतेक्षणः । एष पश्यतु मामीशः पश्याम्यहमघोक्षजम् ॥२५॥
इत्थं जपेदेकमनाः स्मरन्सर्वेश्वरं हरिम् । आसीत सुखदुःखेषु समो मित्राहितेषु च ॥२६॥
ॐनमो वासुदेवाय इत्येतत्सततं जपेत् । यथा यथा भवेत्कामस्तथा तन्नाकीर्तयेत् ॥२७॥
ध्यायेच्च देवदेवेशं विष्णो रुपं मनोरमम् । प्रसन्ननेत्रभूचक्रं शङ्खचक्र्गदाधरम् ॥२८॥
श्रीवक्षसं सुमनसं चतुर्वक्त्र किरीटिनम् । पीतांबरधरं कृष्णं चारुकेयूरधारिणम् ॥२९॥
चिंतयेत्तु सदा रुपं मनः कृत्वैकनिश्वयम् । यादृशो वा मनः स्थैर्य रुपे बध्नाति चक्रिणः ॥३०॥
तदेव चितयेद्रूपं वासुदेवेति कीर्तयेत् । इत्थं जपन्स्मरन्नियं स्वरुपं परमात्मनः ॥३१॥
अनास्थः परमोदारतच्चिस्तत्परायणः । सर्व पातकयुक्तोऽपि पुरुषः पुरुषभ ॥३२॥
प्रयाति देवदेवेशे लयमीडयतमेऽच्युते । यथाग्रिस्तृणजातानि दहत्यानिलसंगतः ॥३३॥
तथानशनसंकल्पः पुंसां पापमसंशयम् । युधिष्ठिर उवाच ॥ उक्रांतिकाले भूतानां मुह्यंति चित्तवृत्तयः ॥३४॥
जराव्याधिविहीनानां किमुतव्याधिदोषिणाम् । अत्यंतवयसा दग्धो व्याधिना चोपषीडितः ॥३५॥
यदि स्थातुं न शक्रोति क्षितिस्थो दर्भसंस्तरे । किमप्यन्योप्युपायोऽस्ति न वानशनकर्मणि ॥३६॥
वैकल्पं येन नाप्नोति तन्मे ब्रूहि जनार्दन । त्वयोक्तं भगवन्ध्यान्म तद्ब्रूहि मम तत्त्वतः ॥३७॥
ध्यानस्वरुपमखिलं कथयस्व जनार्दन । श्रीकृष्ण उवाच ॥ नात्र भूमिर्न च कुशाः स्वास्तराश्व कारणम् ॥३८॥
चित्तस्यालंबनी भूतो विष्णुरेवात्रकारणम् । तिष्ठन्भुञ्जन्स्वपन्गच्छंस्तथा धावन्निस्ततः ॥३९॥
उत्क्रांतिकाले गोविण्दं संस्मरं स्तन्मयो भवेत् । यंयञ्चापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ॥४०॥
तं तमेवैति कौन्तेय सदा तद्भावभावितः । तस्मात्प्रधानमत्रोक्तं वासुदेवस्य चिन्तनम् ॥४१॥
यद्यत्पृष्टं त्वया ध्यानं तदेव कथयामि ते । पुरा मे कथितं पार्थ मार्कडेयेन धीमता ॥४२॥
राज्योपभोगशयनासनवाहनेषुस्त्रीगंधमाल्यमणिवस्त्रभूषणेषु । इच्छाभिलाषमतिमात्रमुदेति मोहाद्धयानं तदाद्यमिति संप्रवदंति तज्ज्ञाः ॥४३॥
संछेदनैर्दहनताडनपीडैश्व गात्रप्रहारदमनैर्विनिकृंतनैश्व । यस्येह चेतसि हि याति चानुकंपा ध्यानं तु रौद्रमिति तत्प्रवदंति तज्ज्ञाः ॥४४॥ सूरार्थमार्गणमहाव्रतभावनाभिर्बधप्रमोक्षगतिहेतुचिन्ता । पञ्चेन्द्रियाद्युपशमश्व शमश्व भूतेर्ध्यानं तु धर्म्यामिति तत्प्रवदंति संतः ॥४५॥
यस्योन्द्रियाणि विषयैर्हिविवर्जितानि सङ्कल्पनात्मजविकल्पविकारयोगे । तत्वैकनिष्ठहृदयो निभूतांतरात्मा ध्यानं तु शुल्कमिति तत्प्रवदंति सिद्धाः ॥४॥६
आद्योतिर्यगधोगतिश्व नियतं ध्याने तु रौद्रे सदा धर्म्ये देवगतिः शुभं फलमहो शुल्के च जन्मक्षयः । तस्माज्जन्मरुजापहेहिततरे संसारानिर्वाहके ध्याने शल्कतरे रजःप्रमथने कुर्यात्प्रयत्नं बुधः ॥४७॥
समाः सहस्त्राणि तु सप्त वै जले दशैकमग्नौ पवने च षोडश । गवां गृहे वष्टि श्रीकृष्ण युधिष्ठिरसंवादे अंतकालस्मरण वर्णनं नाम षडिवंशत्युत्तरशततमोऽध्यायः ॥१२६॥