श्रीकृष्ण उवाच ॥
अथातः शृणु भूपाल प्रतिशुक्रप्रशांतये । यात्रारंभे प्रयाणे च तथा शुक्रोदयेष्विह ॥१॥
शुक्रपूजा प्रकर्तव्या तां निशामय सारतः । राजते वाऽथ सौवर्णे कम्स्यपात्रेऽथवा पुनः ॥२॥
शुल्कपुष्पांबरयुतेसिततंदुलपूरिते । निधाय राजतं शुक्रं शुचिमुक्ताफलान्वितम् ॥३॥
सत तेन सतत्साङ्गां ब्राह्मणाय निवेदयेत । नमस्ते सर्वदेवेश नमस्ते भृगुनंदन ॥४॥
कवे सर्वार्थसिद्धयर्थ गृहाणार्घ्य नमाऽस्तु ते । दत्त्वैवमर्घ्य कौन्तेय प्रणिपत्य विसर्जयेत ॥५॥
यावच्छुक्रस्य न कृता पूजा सोभालकैः शुभैः । वटकैः पूरिकाभिश्व गोधूमैश्वणकैरापि ॥६॥
तावन्न दानं दातव्यं स्त्रीभिः कामार्थसिद्धये । एवं तस्योदये कुर्वन्यात्रादिषु भारत ॥७॥
सर्वसस्यागमं चैव सर्वान्कामानवाप्नुयात् । तद्वद्वाचस्पतेः पूजां प्रवक्ष्यामि युधिष्ठिर ॥८॥
सौवर्णपात्रे सौवर्णममरेशपुरोहितम् । पीतपुष्पांबरयुतं कृत्वा स्त्रात्वाथ सर्षपैः ॥९॥
पालाशाश्वत्थभंगेन पञ्चगव्यजलेन च । पीतांगरागवसनं घृतहोमं तु कारयेत् ॥१०॥
प्रणम्य च गवा सार्द्ध ब्राह्मणाय निवेदयेत । नमस्तेऽङ्गिरसां नाथ वाक्पतेऽथबृहस्पते ॥११॥
क्रूरग्रहैः पीडितानाममृताय भवस्व नः । एवं सुरगुरुं पूज्य प्रणिपत्य क्षमापयेत ॥१२॥
संक्रातावुदये चास्ते सर्वान्कामानवाप्नुयात् । अथवा मौक्तिकान्येव सुवृत्तानि बृहंति च ॥१३॥
भार्गवांगिरसौ चिंत्य तान्येव प्रतिपादयेत् । भक्त्या मौक्तिकदानेन दत्तेन कुरुनंदन ॥१४॥
विरुपता दृशोः पुंसा यात्रास्वभ्युदयेषु च । कुर्वन्बृहस्पतेः पूजां कदाचित्प्रजायते ॥१५॥
ये भार्गवोदयमवाप्य सवस्त्रपुष्पां कुर्वत्यनन्यमनसोऽङिरसे च पूजाम् । तेषां गृहे प्रविशतां प्रतिशुक्रजातं विघ्नं स संभवति भारत पुण्यभाजाम् ॥१६॥ [ ५०८३ ]
इति श्रीभविष्यमहापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिसंवादे शुक्रबृहस्पत्यर्धपूजाविधानं नाम विंशत्युत्तरशततमोऽध्यायः ॥१२०॥