युधिष्ठिर उवाच ।
सुरुपता मनुष्याणां स्त्रीणां च यदुसत्तम । कर्मणा जायते केन तन्ममाख्यातूमर्हसि ॥१॥
सुरुपाणां सुगात्राणां सुवेषाणां तथैव च । न्यूनं तथाधिकं चापि यथा नाङ्गं प्रजायते ॥२॥
समस्तैः शोभनैरंगैर्नराः केचिद्यदुतम् । काणाः कुंताश्व जायंतेत्रुटितश्रवणास्तथा ॥३॥
नराणां योषितां चैव समस्ताङ्गसुरुपता ॥ कर्मणा येन भवति तत्पूर्व कथयामल ॥४॥
लावण्यमतिवाक्यानि सति रुपे महामते । कुर्वत्यभ्यधिकां शोभां समस्तपरमो गुणः ॥५॥
वाक्यलावणुयसंस्कारविलासललितागतिः । विडंबनास्तरुपाणां केवला ल्सा हि जायते ॥६॥
रुपकारणभूतेन कर्मणाप्रयतो भवेत् । तस्मात्तन्मे समाचक्ष्व कर्म यच्चारुरुपदम् ॥७॥
श्रीकृष्ण उवाच ॥ सम्यक्पृष्टं त्वया हदिमुपवासाश्रितं नृप । कथयामि यथा प्रोक्तं वसिष्ठेन महात्मना ॥८॥
वसिष्ठमृषिमासीनं सप्तर्षिप्रवरं द्विजम् । पप्रच्छारुन्धती पृष्टा यदेतद्भवता वयम् ॥९॥
तस्यास्तु परिपृच्छन्त्या जगाद मुनिसत्तमः । यत्तच्छृणुष्व कौंतेय ममेदं वदतोऽखिअलम् ॥१०॥
वसिष्ठ उवाच ॥ श्रूयतां यदहं पृष्टस्त्वयैतद्वरवर्णिनि । सुरुपतानृणांयेनायोषितां चोपजायते ॥११॥
अनभ्यर्च्य तु गोविंदमनाराध्य च केशवम् । रुपादिका गुणाः केन प्राप्यंतेऽन्येन कर्मणा ॥१२॥
तस्मादाराधनीयोऽग्रे विष्णुरेव यशस्विनि ॥ पारत्र्यं प्राप्तुकामेन रुपसंपत्सुतादिकम् ॥१३॥
यस्तु वाञ्छति धर्मज्ञे रुपं सर्वागसुंदरम् । नक्षत्रपुरुषंभद्रोजितक्रोधोजितेंद्रियः ॥१४॥
सुस्त्रातः प्रयताहारःसंपूजयति योऽच्युतम् । भक्त्या योषिन्नरो वापि सुरुपाङ्गःप्रजायते ॥१५॥
योषिता हि परं रुपमिच्छन्त्या जगतः पतिः । स एवाराधनीयोऽग्रे नक्षत्राङ्गो जनार्दनः ॥१६॥
अरुन्धत्युवाच ॥ नक्षत्ररुपी भगवान्पूज्यते पुरुषोत्तमः । मुमे येन विधानेन तन्ममाम्ख्यातुमर्हसि ॥१७॥
वसिष्ठौवाच ॥ चैत्रमासात्समारभ्य विष्णोः पादाभिपूजनम् । यथा कुर्वीत रुपार्थ तन्निशामय तत्त्वतः ॥१८॥
नक्षत्रमेकमेरुं वै स्त्रातः सम्यगुपोषितः । नक्षत्रपुरुषस्तांगे पूजयेच्च विचक्षणः ॥१९॥
मूळे पादौ तथा जंघे रोहिण्यामर्चयेच्छुभे । जानुनी चाश्विनीयोगे आषाढेचोरुसंज्ञिते ॥२०॥
फाल्गुनीद्वितये गुह्यं कृत्तिकासु तथा कटिम् । पार्श्वे भाद्रपदागुल्फे द्वेकुक्षीरेवतीषु च ॥२१॥
अनुराधासूरःपृष्ठं धनिष्ठास्वभिपूजयेत् । भुजयुग्मं विशाखासु हस्ते चैव करद्वयम् चैव करद्वयम् ॥२२॥
पुनर्वसावंगुलिश्व आश्लेषासु तथा नखान् । जेष्ठायां पूजयेद्ग्रीवां श्रवणे श्रवणे तथा ॥२३॥
पुष्ये मुखं तथा स्वातौ दशनानभिपजयेत् । आस्यं शतभिष्यग्योगे मघायोगे च नासिकाम् ॥२४॥
मृगोत्तमांङ्गेनयने पूजयेद्भक्तितः शुभे । चित्रयोगे ललाटं च भरणीषु तथा शिरः ॥२५॥
संपूजनीया विदूद्भिरार्द्रायां च शिरोरुहाः ॥ उपोषिता नरो भद्रे स्त्रानमभ्यंगपूर्वकम् ॥२६॥
वर्जनीयं प्रयत्नेन रुपघ्नं तद्दिनेसदा । पूजयेत्तच्च नक्षत्रं नक्षत्रस्य च दैवतम् ॥२७॥
सोमं नक्षत्रराजानं स्वमंत्रैरर्चयेद्बुधः । प्रतिनक्षत्रयोगे च भोजनीया द्विजोत्तमाः ॥२८॥
नक्षत्रज्ञाय विप्राय दानं दद्याच्च शक्तितः । अंतराये समुत्पन्ने सतकाशौचकारिते ॥२९॥
उपोष्य वाचोविशेन्नक्षत्रमपरं पुनः । एवं माघावसाने तु व्रतपारः समाप्यते ॥३०॥
समाप्ते तु व्रते दद्याच्छक्त्या सोपस्करान्वितम् । नक्षत्रपुरुषं हैमं पूजयेत्तत्र शक्तितः ॥३१॥
ब्राह्मणं ब्राह्मणीं चैव वस्त्रालंकारभूषणैः । शय्यायां तु समासन्न गन्धमाल्यानुलेपनैः ॥३२॥
सप्तधान्यं यथालाभं गां सवत्सां पयस्विनीम् । छ्त्रोपानद्युगं चैव तपात्र तथैव च ॥३३॥
मंत्रेणानेन विप्राय सुशीलाय निवेदयेत् । यथा न विष्णुभक्तानां वृजिनं जायते क्कचित् ॥३४॥
तथा सुरुपतारोग्यसुखसंपादिहास्तु मे । यथा न लक्ष्म्या शयनं तव शून्यं जनार्दन ॥३५॥
शय्याममाप्यशून्यास्तु तथा जन्मनि जन्मनि । एवं निवेद्य तत्सर्व प्रणिपत्य क्षमापयेत् ॥३६॥
शक्तिहीनस्तु गां दद्याद्घृतपात्रसमन्विताम् । नक्षत्रपुरुषाख्योऽयं यथावत्कथितस्तव ॥३७॥
पापापनोदं कुरुते सम्यवच्छ्रद्धावतां सताम् । अङ्गोपाङ्गानि चैवास्य पादादीनि यशस्विनी ॥३८॥
सुरुपाण्याभिजायंते सदा जन्मान्तरार्णि वै । गात्राणि चैव भद्राणि शरीरारोग्यमुत्तमम् ॥३९॥
संततिं मनसः प्रीतिं रुपं चातीवशोभनम् । वाङगमाधुर्य तथा कांति यच्चान्यदपिवाञ्छितम् ॥४०॥
ददाति नक्षत्रपुमान्पूजितश्व जनार्दनः । वसिष्ठेन यथाख्यातं सर्व तत्ते निवेदितम् ॥४१॥
नक्षत्रपुरुषं नाम व्रतानामुत्तमोत्तमम् ॥४२॥
हद्वाहुजानुनयोरुनितंबभागंदक्षैः प्रकल्प्य सुतनुं पुरुषोत्तमस्य । ये पूजयंति जितकोपमनोविकाराः कौतेय ते ननु भवंति सुरुपदेहाः ॥४३॥ [ ४६५२ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे नक्षत्रपुरुषव्रतवर्णनं नामाष्टधिकशततमोध्यायः ॥१०८॥