युधिष्ठिर उवाच ॥
कथमासाद्यते लक्ष्मीर्दुर्लभा भुवनव्रये । दानेन तपसा वापि व्रतेन नियमेन वा ॥१॥
जपहोमनमस्कारैः संस्कारैर्वा पृथग्विधैः । एतद्वद यदुश्रेष्ठ सर्वविस्वं मतो मम ॥२॥
श्रीकृष्ण उवाच ॥ भृगोः ख्यात्यां समुत्पन्न पूर्वं श्रीः श्रूयते शुभा । वासुदेवाय सा दंत्ता मुनिना मानवृद्धये ॥३॥
वासुदेवोऽपि तां प्राप्य पीनोन्नतपयोधराम् । पद्मपव्रविशालाक्षीं पूर्णचन्द्रनिभाननाम् ॥४॥
भाभासितदिगाभोगां साक्षाद्भानोः प्रभामिव । नितम्बाडमबरवतीं मत्तमातङ्ग्गाभिनीम् ॥५॥
रेमे सह तया राजन्विभ्रमोद्भ्रान्तचित्तया । सा च विष्णुं जगज्जिष्णुं पतिं व्रिजगतां पतिम् ॥६॥
प्राप्य कृतार्थमात्मानं मेने मानयशोधना । ह्रष्ट पुष्ट जगत्सर्वमभवद्भावितं तया ॥७॥
लक्ष्म्या निरीक्षित चैव सानन्दं हि महीतलम् । क्षेमं सुभिक्षमारोग्यमनाक्र्न्दमनाकुलम् ॥८॥
जगदासीदनु दूभ्रन्तं प्रशान्तोपद्रवं तथा । दिवि देवा मुमुदिरे दानवा दैत्यमानवाः ॥९॥
विस्फरितफणाभोग नागाश्वैव रसातल । क्षिप्तं हि ब्राह्मणैर्वह्रौ भुज्यते व्रिदिवैर्हविः ॥१०॥
चातुर्वर्ण्यमसंकीर्णं पाल्यते पार्थ पार्थिवैः । विरोचनपभृतिभिहष्टवैवं दैत्यसत्तमैः ॥११॥
तपस्तप्तुमथारब्धमग्निमाश्रित्य संयतैः । सोममंस्थाहाविसस्थापाकसंस्थादिभिर्मखैः ॥१२॥
सदाचारैः समारब्धमिष्टं स्वेष्टाभिलाषिभिः । एवं धर्मप्रवानैस्तैर्वेदवादरतात्मभिः ॥१३॥
जगदासीत्समाक्रान्तं विक्रमेण क्रमेण तु । लक्ष्मीविलासप्रभवो देवानामभदन्सदः ॥१४॥
मदाच्छीलं च शौचं च सत्यं सद्यो व्यनीनशन् । सत्यशौचविहीनांस्तान्देवान्संत्यज्य चञ्चलान् ॥१५॥
जगाम दानवकुलं कुलदेवानुरागतः । लक्ष्म्या भावितदेहैस्तैः पुनरुद्धतमानरौः ॥१६॥
व्यबहर्तुं समारब्धमन्यायेन मदोद्धतैः । वयं वेदा वयं यज्ञा वयं विद्या वयं जगत् ॥१७॥
ब्रह्यविष्णुशंकराद्या वयं सर्वे दिवौकसः । अहंकारविमूढांस्ताञ्ज्ञात्वा दानवसत्तमान् ॥१८॥
सागरं सा विवेशाथ भ्रान्तचिता भृगीः सुत्ता । क्षीराब्धिमध्यगतया लक्ष्म्या क्षीणार्थसंचयाः ॥१९॥
निरानन्दगतश्रीकमभवद्भुवनव्रयम् । गतश्रीकमथात्यानं मत्वा शम्बरसूदनः ॥२०॥
पपच्छाङ्रिरसं विप्रं ब्रूहि किञ्चिद्व्रतं मम । येन संप्राप्यते लक्ष्मीलब्धा न चलते पुनः ॥२१॥
निश्वलापि सूह्यन्मिव्रैर्भोग्या भवति सा मुने । न सा श्रीत्यभिमन्तव्या कन्या सा पाल्यते गृहे ॥२२॥
परार्थं या सुह्यष्मिव्रभृत्यैर्नैवोपभुज्यते । शक्रस्यैतद्वचः श्रुत्वा बृहस्पतिरुदारधीः ॥२३॥
कथयामास संचिन्त्य शुभं श्रीपञ्चमीव्र्तम् । यत्पुरा कस्यचित्प्रोक्तं व्रतानामुत्तम व्रतम् ॥२४॥
तदस्मै कथयामास सरहस्यमशेषतः । तच्छुत्वा कर्तुमारब्धं सुरेशेन सुरैस्तथा ॥२५॥
दैत्यदानवगन्धर्वैर्यक्षैः प्रक्षीणकल्मषैः । सिद्धैः प्रसिद्धचरितैर्विष्णुना प्रभविष्णुना ॥२६॥
ब्राह्मणैर्ब्रह्यतत्त्वज्ञैः समर्थैः पार्थिवैः सहा । कैश्वित्सात्त्विकभावेन राजसेनापरैरपि ॥२७॥
तामसेन तथा कैश्वित्कृतं व्रतमिदं तथा । व्रते समाप्ते भूयिष्ठे निष्ठया परया प्रभो ॥२८॥
देवानां दानवानां च युद्धमासीदथोद्धतम् । निर्मथ्य भुजवीर्येण सागरं सरितां पतिम् ॥२९॥
समाहरामो ह्यमृतं हिताय व्रिदिवौंकसाम् । इत्येवं समयं कृत्वा ममन्थुर्वरुणालयम् ॥३०॥
मन्थान मन्दर कृत्वा नेव्रं कृत्वा तु वासुकिम् । मथ्यमानलाज्जातश्वन्द्रः शीतांशुरुज्ज्वलः ॥३१॥
अनन्तरं समुत्पन्न लक्ष्मीः क्षीराब्धिमध्यतः । तया विलोकिताः सर्वे दैत्यदानवसत्तमाः ॥३२॥
आलोक्य सा जगामाशु विष्णोर्वक्षःस्थलं शुभम् । विधिना विष्णुना चीर्णं व्रतं तेनाब्धिसभवा ॥३३॥
शरीरस्था बभूवास्य विभ्रमोद्भ्रान्तलोचना । किं च राजसभावेन शक्रेणैतत्कृतं यतः ॥३४॥
ततस्त्रिभुवनैश्वर्यं प्राप्तं तेन महर्द्धिकम् । तमसावृतचित्तैस्तु संचीर्णं दैत्यदानवैः ॥३५॥
तेन तेषामथैश्वर्यं द्दष्टिनष्टमभूत्किल । एवं सश्रीकमभवत्सदेवासुरमानुषम् ॥३६॥
जगच्च जगतां श्रेष्ठ व्रतस्यास्य प्रभावतः । युधिष्ठिर उवाच ॥ कथमेतद्व्रतं कृष्ण क्रियते मनुजैः कदा ॥३७॥
प्रारभ्यते पार्यते च सर्वं वद यदूत्तम ॥ श्रीकृष्ण उवाच ॥ मार्गशीर्षे सिते पक्षे पञ्चभ्यां पतगोदये ॥३८॥
उपवासस्य नियमं कुर्यादाशु सुहृद्धृदि । स्वर्णरौप्यारकूटोत्था त्ताभ्रमृत्काष्ठजाथवा ॥३९॥
चिव्रपद्वगतां देवीं लक्ष्मीं क्ष्मापाल कारयेत् । पद्महस्तां पद्मवर्णां पद्मां पद्मदलेक्षणाम् ॥४०॥
दिग्गजन्द्रैः स्त्राप्यमानां काञ्चवैः कलशोत्तमैः । ततो यामव्रये जाते निन्नगायां गृहेऽथवा ॥४१॥
स्त्रानं कुर्यादसंभ्रात शक्रवदुपचारतः । देवान्पितृंश्व संतप्य ततो देवगृहं व्रजेत् ॥४२॥
तव्रस्थां पूजयेद्देवीं पुष्णैस्तत्कालसंभवेः । चपलायै नमः पादौ चञ्चलायै च जानुनी ॥४३॥
कटिं कमलवासिन्यै नामिं ख्यात्यै नमो नमः । स्ततौ मन्मथवासिन्ये ललितापै भुजद्वयम् ॥४४॥
उत्कण्ठितायै कण्ठं च म धव्यै मुखमण्डलम् । नमः श्रियै शिरः पूज्य दद्याभ्रैवेद्यमादरात् ॥४५॥
फलानि च यथालाभं व्रिरूढान्धान्यसंचयान् । ततः सुवासिनी पूज्या कुसुमैः कुङ्कमन च ॥४६॥
भोजयेन्मधुरान्नेन प्रणिपत्य विसर्जयेत् । ततस्तु तन्दुलप्रस्थं घतपाव्रेण संयुतम् ॥४७॥
ब्राह्मणाय प्रदातव्यं श्रीशः संप्रीयतामिति । निर्वर्त्य तदशषेण ततो भुञ्जीत वाग्यतः ॥४८॥
मासानुमासं कर्तव्यं विधिनानेन भारत । श्रीर्लक्ष्मीः कमला संपदुमा नारायणी तदा ॥४९॥
पद्मा धृतिः स्थितिः पष्टिऋद्धिः सिद्धिर्यथाक्रमम् । मासानुमासं राजेन्द्र प्रीयतामिति कीर्तयेत् ॥५०॥
ततश्व द्वाद्शे मासि संप्राप्ते पञ्चमे दिने । वस्त्रमण्डपिकां कृत्वा पुष्पगन्धाधिवासिताम् ॥५१॥
शय्यायां स्थापयेल्लक्ष्मीं सर्वोपस्करसंयुताम् । मैक्तिकाष्टकसंयुक्तां नेव्रपद्दावृतस्तनीम् ॥५२॥
सप्तधान्यसमोपेतां रसधातुलमन्विताम् । पादुकोपानहच्छव्रभाजनासनसत्कृताम् ॥५३॥
दद्यात्संपूज्य विधिवद्ब्राह्मणाय कुटुम्बिने । व्यासाय वेदविदुषे यस्य वा रोचते स्वयम् ॥५४॥
सोपस्करां सवत्सां च धनुं दत्वा क्षमापयेत् । क्षीराव्धिमधनोद्भते विष्णार्व्रक्षःस्थलालय ॥५५॥
सर्वकामप्रदे देवि ऋद्धिं यच्छ नमोऽस्तु ते । ततः सुवासिनीः पूज्य वस्त्रैराभरणैः शुभैः ॥५६॥
भोजयित्वा स्वयं पश्वाद्भृञ्जीत सहबन्धुभिः एवं यः कुरूते पार्थ भक्त्या श्रीपञ्चमीव्रतम् ॥५७॥
अस्य श्रीर्भवने भाति कुलानामेकव्रिंरातिः । नारी वा कुरुते या तु प्राप्यानज्ञां स्वभर्तृतः ॥५८॥
सुभगा दर्शनीया च बहुपुव्रा च जायत ॥५९॥
श्रीपञ्चमीव्रतमिदं दयितं मुरारेर्भक्त्या समाचरति पूज्य भृगोस्तनूजाम् । राज्य निजं स भवि भव्यजनोपभोगान्भुक्त्वा प्रयाति भुवनं सधुसूदनस्य ॥६०॥ [ १७७० ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयधिष्ठरसंवादे पञ्चमीव्रतकल्पे श्रीपञ्चमीव्रतभिरूपणम नाम सधव्रिंशत्तमोऽध्यायः ॥३७॥
इति पञ्चभीकल्पः समाप्तः ॥