श्रीकृष्ण उवाच ॥
तथा सर्वफलत्यागमाहात्म्यं श्रृणु भारत । यदक्षयं परोलोके सर्वकामफलप्रदम् ॥१॥
मार्गशीर्षे शुभे मासि चतुर्दश्यां घृतव्रतः । आरंभे शुक्लपक्षस्य कृत्वा ब्राह्मणवाचनम् ॥२॥
अन्येष्वपि तु मासेषु अष्टम्यां नरसत्तम । सदक्षिणापायसेन शक्तितः पूजयेद दिजान् ॥३॥
अष्टादशानां धान्यानानामन्यव्र फलमूलकम् । वर्जयेदब्दमेकं तु विधिनौषधकारकम् ॥४॥
ततः सर्वत्सरस्यांते चतुर्दश्यष्टामीषु च । अशक्तक्तश्व व्रतं कर्तुं सहसैव प्रमुच्यते ॥५॥
सौवर्णं कारयेद्रुद्रं धर्मराजं तथैव च । कूष्माण्डं मातुलुंगं च वृंताकं पनसं तथा ॥६॥
आम्राम्रातकपित्थे च कलिंगं सेर्ववारुकम् । श्रीफलं सवटाश्वत्थं जंबीरंकदलीफलम् ॥७॥
बदरं दाडिमं शक्त्या कार्याण्येतानि षोडश । मूलकामलकं जम्बूपुष्करंकरमर्दकम् ॥८॥
उदुंबरं द्नाक्षा च बृहतीद्वयम् । कंकोलीकर्कटी कार्या करीरकुटजं शमी ॥९॥
रौप्याणि कारयेच्छक्त्या फलानी मानि षोडश । ताम्रं तालफलं कुर्यादगस्त्यफलमेव वा ॥१०॥
पिंडीतकं च खर्जूरं तथा सूरणकंदकम् । पनसं लकुचं चैव कर्कटं तितिडिंतथा ॥११॥
चिव्रावल्लीफलं तद्त्कूटशाल्मलिकाफलम् । मधूकं कारवेल्लं च वल्लींगुदषटोलकम् ॥१२॥
कारयेच्छक्तितोधीनान्फलान्ये तानि षोडश । उदकुंभद्वयं कुर्याद्धान्योपरि सवासससम् ॥१३॥
तच्चपाव्राद्वयोयेतं यमरुद्रसमन्वितष्ट । धेन्वा सहैव शांताय विप्रायाथ कुटुंबिने ॥१४॥
सपत्नीकाय संपूज्य पुण्येऽइनि निवेदयेत् । यथाफलेषु सर्वेषु वसंत्यमरकोटयः ॥१५॥
तथासर्वफलत्यागाच्छिवे भक्तिः सदास्तु मे । यथाशिवश्व धर्मश्व सदानन्तफलपदौ ॥१६॥
तद्युक्तफलदानेन तौ स्यातां मे वरप्रदौ । यथा फलमकामस्य शिवभक्तस्य सर्वदा ॥१७॥
यथानंतफलावाप्तिरस्तु जन्मनि जन्मनि । यथाभेदं न पश्यामि शिवविष्ण्वर्कपद्मजाम् ॥१८॥
तथा मामासु विश्वात्मा शङ्करः सदा । इत्युच्चर्य च तत्सर्वमलं कृत्य विभूषणैः ॥१९॥
शक्तश्वेच्छयनं दद्यात्सर्वोपस्करसंयुत्तम् । अशक्तस्तु फलान्येव यथोक्तानि विधानतः ॥२०॥
तथोदकुंभसहितौ शिवधर्मौ च कांचनौ । विप्राय दत्वा भुञ्जीत तैलक्षाः विवजिंतम् ॥२१॥
अन्यानपि यथाशकया भोजयेद् दिजपुङ्गवान् । न शकोति विहातुं चेत्सर्वाण्यपि फलान्युत ॥२२॥
एकमेव परित्यज्य तदित्थं प्रतिपादयेत् । एतत्त्यागव्रतानां तु फलं वैष्णवयोगिनम् ॥२३॥
शस्तं सर्वफलत्वागंव्रतं वेदविदो विदुः । नारीभिश्व यथाशक्त्या कर्तव्यं राजसत्तम ॥२४॥
नैतस्मादपरं किञ्चिदिह लोके परव्र च । व्रतमरित मुनिश्रेष्ट यदन्नं तत्फलप्रदम् ॥२५॥
सौवर्णरौप्यताम्रेषु यावन्तः परमाणवः । भवंति चूर्यमाणेषुनृपसत्तम ॥२६॥
तावद्युगसहस्त्राणि रुद्रलोके महीयते ॥२७॥
एतत्समस्तकलुषापहरं जनानामाजीवनाय मनुजेश्वर सर्वदा स्यात् । जन्मान्तरेष्वपि न पुव्रकलव्रदुःखमान्पोति धाम स पुरंदर एव जुष्टम् ॥२८॥
यो वा शृणोति पुरुषोल्पधनो नरो वा यो ब्राह्मणस्तु भवनेषु च धार्मिकाणाम् । पापैर्विमुक्तश्व परव्र पुरं मुरारेरानंदकृत्यत्परमुपैतिनरेन्द्र सोऽपि ॥२९॥ [ ४१३६ ]
इति श्रीभविष्ये उत्तरपर्वणि श्रीकृष्णयुधिष्टिरसंवादे फलत्यागचतुर्दशीव्रतवर्णनं नामाष्टनवतितमोऽध्यायः ॥९८॥