श्रीकृष्ण उवाच ॥
अतः परं प्रवक्ष्यामि कार्पासाचलमुत्तमम् । परमं सर्वदानानां प्रियं सर्वदिवौकसाम् ॥१॥
देशकालौ समासाद्य धनं श्रद्धां च यत्नतः । देयमेतन्महादानं कुलोद्धरणहेतवे ॥२॥
पूर्वोक्तेन विधानेन कृत्वा सर्वमशेषतः । पर्वतं कल्पयेत्तत्र कार्पासेन कार्पासेन विधानतः ॥३॥
विशद्धारस्तु कर्तव्य उत्तमः पर्वतो बुधैः । दशभिमर्मध्यमः प्रोक्तो जघन्यः पंचभिर्मतः ॥४॥
भारेणाल्पधनो दद्याद्वित्तशाठ्याविवर्जितः । धान्यपर्वतवत्सर्वमासाद्य नृपपुंगव ॥५॥
तद्वज्जागरनं कुर्यात्तद्वच्चैवाधिवासनम् । प्रभातायां तु शर्वर्यामिमं मंत्रमुदीरयेत् ॥६॥
त्वमेवावरणे यस्माल्लोकानामिह मिह सर्वदा । कार्पासाचलतस्तस्मादघौध्वंसनो भव ॥७॥
इति कार्पासशैलेद्रं योदद्यात्पर्वसंनिधौ । रुद्रलोके वसेत्कल्पं ततो राजा भवेदिह ॥८॥
रुपवान्सुभगो वाग्मी श्रीमातुलविक्रमः । पंच जन्मानि नारी वा जायते नात्र सशंयः ॥९॥
कार्पासपर्वमयो जगदेकबंधुर्यस्मान्न तेन रहितो वरस्त्रयोगः । तस्मादघौघशमनाय सुखाय नित्यं देयो नरेण नरनाथा विमत्सरेण ॥१०॥ [ ७८५७ ]
इति श्रीभविष्ये महापुराणे उत्तर पर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कार्पासा चलदानविधिवर्णनं नाम द्विशततमोऽध्यायः ॥२००॥