युधिष्ठिर उवाच ॥
यदेतदतुलं पुण्यं व्रतानामुत्तमं व्रतम् । कर्तव्यं कार्तिके मासि प्रयत्नाद्भीष्मपञ्चकम् ॥१॥
विधानं कीद्दशं तस्थ फलं चष्यदुसत्तमं । कथयस्व प्रसादान्मे मनीनां हितमिच्छताम् ॥२॥
श्रीकृष्ण उवाच । प्रवक्ष्यामि व्रत पुण्यं व्रतानामुत्तमं व्रतम् । यथाविधि च कर्तव्यं फलं चास्य यथोदितस ॥३॥
मयापि भृगवे प्रोक्तं भृगुश्वोशातसे ददौ । उशनापि हि विप्रेभ्यःप्रह्लादाय च धीमते ॥४॥
तेजस्विनां यथा वह्रिः पवनः शीन्घगामिनाम् । विप्रो यथा च पूज्यानां दाननां काञ्चनं यथा ॥५॥
भूलोकः सर्वलोकानां तीर्थांनां जाह्रवी यथा । यथाश्वमेधो यज्ञानां मथुरा मुक्तिकाङ्क्षिणाम् ॥६॥
वेदो यथैव शास्त्राणां देवानामच्युतो यथा । तथा सर्वव्रतानां तु वरोक्तं भीष्मपञ्चकम् ॥७॥
दुष्करं भीष्ममित्याहुर्न शक्यं तदिहोच्यते । यस्तं करोति राजेन्द्र तेन सर्वं क्रुतं भवेत् ॥८॥
वासष्ठभृगुभर्गाद्यैश्रीर्णं कृतयुगादिषु । नाभागाम्बाम्बरीषाद्यैश्रीर्णं व्रेतायुगादिषु ॥९॥
सीरभद्रादिभिर्वैश्यैः शुद्रैरन्यैः कलौ युगे । दिनानि पञ्ज पूज्यानि चीर्णमेतन्यहाव्रतम् ॥१०॥
ब्राह्मणैर्ब्रह्यचर्येण जपहोमकियादिभिः । क्षव्रियैश्व तथा शक्त्या शौचव्रतपरायणैः ॥११॥
पराधिः परिहर्तव्या ब्रह्मचर्येण निष्ठया । मद्यं मांस परित्यज्य मैथुनं पापभाषणम् ॥१२॥
शाकाहारपरैश्वैव कृष्णर्चनपरैर्नरैः । स्त्रीभिर्वा भर्तुवाक्येन कर्तव्यं सुखवर्द्धनम् ॥१३॥
विधवाभिश्व कर्तव्यं पुव्रपौव्रादिवृद्धये । सर्वकामसमृद्धन्यर्थं मोक्षार्थमपि पाण्डव ॥१४॥
नित्यं स्नानेन दानेन कार्तिकी यावदेव तु । प्रातः स्त्रात्वा विधानेन मध्याह्रेन तथा व्रती ॥१५॥
नद्यां निर्झरगर्ते वा समालभ्य च गोमयम् । यवव्रीहितिलैः सम्यक्तर्पयेच्च प्रयन्ततः ॥१६॥
देवानृषीन्पितृंश्वैव ततोन्यान्कामचारिणः । स्त्रानं मौनं नरः कृत्वा धौप्तवासा द्दढव्रतः ॥१७॥
ततोऽनुपूजयेद्देवं सर्वपापहरं हरिम् । खापयेच्चाच्युतं भक्त्या मधुक्षीरघृतेन च ॥१८॥
तव्रैव पञ्चगव्येन गन्धचन्दनवारिणा । चन्दनेन सुगन्धेन कुङकुमेनाथ केशवम् ॥१९॥
कर्पूरोशीरमिश्रेण लेपयेद्नरुडध्वजम् । अर्चयेद्रचिरैः । पुष्पैर्गन्धधूपसमन्वितैः ॥२०॥
गुरगुलुं घृतंसयुक्तं दहेत्कृष्णाय भक्तितः । दीपकं च दिवा राव्रौ दद्यात्पञ्चदिनानि तु ॥२१॥
नैवेद्यं देवदेवस्य परमान्नं निवेदयेत । ॐ नमो वासुदेवायेति जपेदष्टोत्तरं शतम् ॥२२॥
जुहुयाच्च घृताक्तांश्व तिलव्रीहींस्ततो व्रती । षडक्षोण मन्व्रेण स्वाहाकारान्वितेन च ॥२३॥
उपास्य पश्विमां सन्ध्यां प्रणम्य गरुडध्वजम । जपित्वा पूर्ववन्मन्व्रं क्षितिशायी भवेन्नरः ॥२४॥
सर्वमेतद्विधान् च कार्यं पञ्चदिनेषु हि । संविशेत्कम्बले चास्मिन्पदपूर्वं शृणुष्व मे ॥२५॥
प्रथमेऽह्रि हरेः पादौ पूजयेत्कमलैर्नरः । द्वितीये बिल्वपव्रेण जानुदेश समर्चयेत् ॥२६॥
पूजयेच्च तृतीयेऽह्रि नाभिं भृङ्गराजेन च । मध्ये बिल्वजयाभिश्व ततः स्कन्धौ प्रपूजयेत् ॥२७॥
ततोऽनुपुजयेच्छीर्षं मालत्याः कुसुमैर्नचैः । कार्तिक्यां देवदेवस्य भक्त्या तद्नतमानसः ॥२८॥
अर्चयित्व हृषीकेशमेकादश्यां समाहितः । संप्राश्य गोमयं सम्यङ्रमन्व्रवत्समुपावसेन ॥२९॥
गोमूव्र मन्व्रवत्कृत्वा द्वादश्यां प्राशयेदव्रती । क्षीरं तव्र व्रयोदश्यां चतुर्दश्यां तथा दधि ॥३०॥
संमाश्य कायशुद्धन्यर्थं लङघयीत चतुर्दिनम् । पञ्चमे नु दिने स्त्रात्वा विधिवत्पूज्य केशवम् ॥३१॥
भोजयेद्ब्राह्मणान्मकत्या तेभ्यो दद्याच्च दक्षिणाम् । तथोपदेष्टारमपि पूजयेद्वस्त्रभूषणैः ॥३२॥
ततो नक्तं समश्नीयात्पञ्चगव्यपुरःसरम् । एवं समापयेत्सम्यग्यथोक्तं व्रतमुत्तमम् ॥३३॥
सर्वपापहरं पुण्यं प्रख्यातं भीष्मपञ्चकम् । मद्यपो यस्त्यजेन्मद्यं जन्मनो मरणान्तिकम् ॥३४॥
तद्भीष्मपञ्चकं चीर्त्वा प्रान्पोत्यभ्याधिकं लम् । ब्रह्मचर्यं नरश्वीर्त्वा सुघोरं नैष्ठिक व्रतम् ॥३५॥
यत्यान्पोति महत्पुण्यं तत्कृत्वा भीष्मपञ्चकम् । गाव्राभ्यङ्गं शिरोऽभ्यङ्गं मधुमांसं च मैथुनम ॥३६॥
ब्रह्मलोकमवान्पाति त्यक्वैले भीष्मपञ्चकम् । संघत्सरेण यत्पुण्यं कार्तिकेन च यद्भवेत् ॥३७॥
यत्फलं कार्तिके नोक्तं भवेत्तद्भीष्मपञ्चके । व्रतमेतत्सुरैः सिद्धैः किन्नरैर्नागगुह्यकैः ॥३८॥
फलं समीहितं प्राप्य कृत्वाभ्यर्च्य जनार्दनम् । पापस्य प्रतिमा कार्या रौद्रवत्कातिभीषणा ॥३९॥
खडगहस्तातिविकृता सर्वलोकमयी नृप । तिलप्रस्थोपरि स्थाप्या कृष्णवखभ्रिवेष्टिता ॥४०॥
करवीरकुतुमपीडा लसत्काञ्चनकूण्डला । ब्राह्मणाय प्रदातव्या कृष्णो मे प्रीयतामिति ॥४१॥
अन्येषाप्ररि दातव्यं षत्कृत्वाःवसु वाञ्छितम् । कृतकृत्यः स्थिरी भूत्वा विरक्तः संयतो भवेत ॥४२॥
शान्तचेता निराबाधः परं पदमवाप्रुयात् । नीलोत्पलदलश्यामश्वतुर्दंष्ट्रश्वतुर्भुजः ॥४३॥
अष्टषष्ठैकनयनः शङकुकर्णो महास्वनः । जदी द्विजिह्वस्तामस्यो मृगराजतनुच्छदः ॥४४॥
चिन्तनीयो महादेवो यस्य रूपं न विद्यते । इदं भीष्मण कथितं शरतल्पगतेन मे ॥४५॥
तदेव ते समाख्यातं दुष्करं भीष्मपञ्चकम् । व्रतं च राजशार्दूल प्रवरं भीष्मपञ्चकम् ॥४६॥
यस्तस्मिंस्तोषयेद्बक्त्या तस्भै मुक्तिप्रदोऽच्युतः । ब्रह्यचारी गृहस्थो वा वानप्रस्थोऽथवा यतिः ॥४७॥
प्रान्पोति वैष्णवं स्थानं सत्कृत्वा भीष्मपञ्चकम् । ब्रह्यहा मद्यपः स्तेयी गुरुगामी सदा कृती ॥४८॥
मुच्यते पातकात्सम्यककृत्वैकं भोष्मपञ्चकम् । नास्मादव्रतात्पुण्यतमं वैष्णवेभ्यो यतो व्रतम् ॥४९॥
अथास्मिंस्तोषितो विष्णुनृणां मुक्तिप्रदो भवेत् । श्रुत्वैतत्पठन्यमान्टं तु पविव्रं भीष्मपञ्चकम् ॥५०॥
मुच्यते पातकेभ्यो वा पाठको विष्णु विकभाक । धन्यं पुण्यं पापहर युधिष्ठिर महाव्रतम् ॥५१॥
यद्भीष्मपञ्चकमिति प्रथितं पृथिव्यामेकादशीप्रभृतिपञ्चदशीनिरुद्धम् । अन्नस्य भोजननिवृत्तिवशादभष्भिन्निष्टं फलं दिशति पाण्डव शार्ङ्गधन्वा ॥५२॥ [ २९७९ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वाणि श्रीकृष्णयुधिष्ठिरसंवादे भीष्मषञ्चकव्रतवर्णनं नाम द्विसप्ततितमोऽध्यायः ॥७२॥