युधिष्ठिर उवाच ॥
बहुप्रदानं गोदानं त्वत्तो विद्वञ्छुतं मया । भूमिदानस्य माहात्म्यं विधिश्वैवावधास्तिः ॥१॥
सीप्रतं यदुशार्दूल विद्यादानस्य यो विधिः । तमहं श्रोतुमिच्छामि कथयस्व जनार्दनः ॥२॥
श्रीकृष्ण उवाच ॥
विद्यादानविधिं वक्ष्ये याथातथेन तेऽधुना। यथा देयं फलं यच्च दत्तेन कुरुनंदन ॥३॥
शुभेऽह्रि विप्रकथिते गोमयेन सुशोभनम् । कारयेन्मंडले दिव्यं चतुरस्त्रं समंततः ॥४॥
पुष्पप्रकारसंच्छन्नं स्वस्तिकादिविभूषितम् । पुस्तकं तन्न संस्थाप्य गंधपुष्पैः समर्च्चयेत् ॥५॥
सौवर्णी लेखनीं कार्या रौप्यं च मषिभाजनम् । लेखक पूजयित्वा तु आरंभं कारयेत्सुधीः ॥६॥
विनीतश्वाप्रमत्तश्व ततः प्रभृति लेखकः । मात्रानुस्वारसंयुक्तं पदच्छेसमन्वितम् ॥७॥
समानि समशीर्षाणि वर्तुलानि घनानि च । लखयेदक्षराणीह तद्नतेनांतरात्मना ॥८॥
निष्पादयित्वा तच्छात्रं शैवं वाप्यथ वैष्णवम् । निष्पादिते ततः पूज्यो लेखको वस्त्रभूषणैः ॥९॥
संपूजयित्वा तच्छास्त्रं देयं गुणवते तदा । शास्त्रसद्धावविदुषे वाचक च प्रियंवदे ॥१०॥
वस्त्रयुग्मेन संवीतं पुस्तकं प्रतिपादयेत् । सामान्यं सर्व लोकानां स्थापयेदथ वा मठे ॥११॥
अनेन विधिना दत्त्वा यत्फलं प्राप्नुयान्नरः । तदहं ते प्रवक्ष्यामि युधिष्ठिर निबोध तत् ॥१२॥
यत्पुण्यं तीर्थयात्राया यत्पुण्यं यज्विनां तथा । तत्पुण्यं कोटिगुणितं विद्यादानाल्लभेन्नरः ॥१३॥
कपिलानां सहस्त्रेण सयग्दत्तेन यत्फलम् । तत्फलं समनाप्नोति पुस्तकस्य प्रदायकः ॥१४॥
पुराणं भारतं वापि रामायणमथापि वा । दत्त्वा यत्फलमाप्नोति पार्थ तत्केन वर्ण्यते ॥१५॥
प्रातरुत्थाय यः शिष्यानध्यापयतिः यत्नतः । वेदं शास्त्रं नृत्यं गीतं कस्तेन सदृशः कृती ॥१६॥
उपाध्यायस्य यो वृत्तिं दत्त्वाऽध्यापयते जनः । किं न दत्तं भवेत्तेन धर्मकामार्थदर्शिना ॥१७॥
छात्राणां भोजनाभ्यंगं वस्त्रं भिक्षामथापि वा । दत्त्वा प्राप्नोति पुरुषः सर्वकामान्न संशयः ॥१८॥
विवेको जीवितं दीर्घ धर्मकामार्थसंपदः । सर्व तेन भवेद्दतं छात्राणां पोषणे कृते ॥१९॥
शास्त्रं शस्त्रकला शिल्पं यो यदिच्छेदुपर्जितुम् । तस्योपकारकरणे पार्थ कार्य सदा मनः ॥२०॥
वाजपेयसहस्त्रस्य सम्यगिष्टस्य यत्फलम् । तत्फलं समवाप्नोति विद्यादानान्न संशयः ॥२१॥
शिवालये विष्णुगृहे सूर्यस्य भवनेऽथवा। यः कारयति धर्मात्मा सदा पुस्तकवाचनम् ॥२२॥
गोभूहिरण्यवासांसि शयनान्यासनानि च । प्रत्यहं तेन दत्तानि भवंति भरतर्षभ ॥२३॥
धर्माधर्म न जानाति विद्यया रहितः पुमान् । ब्रह्माद्या देवताः सर्वा विद्यादाने प्रतिष्ठिताः ॥२५॥
चतुर्युगानि राजेंद्र एकसप्ततिसंख्यया । कल्पं विष्णुपुरे तिष्ठेत्पूज्यमानः सुरोत्तमैः ॥२६॥
क्षितिं वोपेत्य कालांते राजा भवति धार्मिकः । हस्त्यश्वरथदानाढ्यो दाता भोक्ता विमत्सरी ॥२७॥
रुपसौभाग्यसंपन्नो दीर्घायुर्नीरुजो भवेत् । पुत्रैः पौत्रैः परिवृतो जीवेच्च शरदां शतम् ॥२८॥
दानं विशेवफलदं जगतीह नान्यद्विद्यां विहाय वदनाब्जकृताधिवासाम् । गोभूहिरण्यगवाजिरथादि सर्व तां यच्छतां किमिह पार्थ भवेन्न दत्तम ॥२९॥ [ ७५१३ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विद्यादानविधिवर्णनं नाम चतुःसप्तत्युत्तरशततमोऽध्यायः ॥१७४॥