युधिष्टिर उवाच ॥
रूपसौभाग्यसुखदं नरनारीजनप्रियम् । पापापहं बहुफलं सुकरं सूपवासकम् ॥१॥
ऋद्धिवृद्धिकरं स्वर्ग्य़ं यशस्य सर्वकामदम् । तन्मे वद व्रतं किञ्चिद्यदि तुष्टोऽसि माधव ॥२॥
श्रीकृष्ण उवाच ॥ शृप्पु पार्थ परं गुह्यं यन्मया कथितं न च । पुरा तव वनस्थस्य तदद्य प्रवदाम्यहम् ॥३॥
शिवयोरतिसंहर्षाद्रक्तबिन्दुश्वन्युतः क्षितौ । मेदिन्य स प्रयत्नेन विधृतो धृतियुक्तया ॥४॥
तस्माज्जातः कुमारोऽसौ रक्तो रक्तसमुद्भवः । अङ्ग प्रसिद्धमेवेहाङ्गरको वेग उच्यते ॥५॥
शिवाङ्गद्रभसाज्जातस्तेनाङ्रारक उच्यते । अङ्गस्थोऽङ्गरकान्तिश्व अङ्गप्रत्यङ्गसंभवः ॥६॥
सौभाग्यारोग्यकृद्यस्मात्तस्मादङ्रारकः स्मृतः । भक्त्या चतुर्थ्यां नक्तेन यस्तु श्रद्धास्मन्वितः ॥७॥
तं पूजयति यत्नेन नारी वाऽनन्यमानसा । तस्य तुष्टः प्रयच्छेत्स यत्त्वया समुदाहृतम् ॥८॥
रूपं सौभाग्यसंपन्नं नरनारीमनोहरम् । युधिष्ठिर उवाच ॥ एतन्मे वद देवेश अङ्गरकविधिं शुभम् ॥९॥
सहोममन्व्रसंस्थान साधिवासविधानतः । श्रीकृष्ण उवाच ॥ पूर्वं तु कृतसंकल्पः स्नानं कृत्वा बहिर्जले ॥१०॥
स्नानार्थं मृत्तिकां मन्वैर्गृह्लीयादम्भसि स्थितः । त्वं मृदे वन्दिता पूर्वं कृष्णेनोद्धरता किल ॥११॥
तेन मे दह पापौध यन्मया पूर्वसंचितम् । इम मन्वं पठन्यार्थ आदित्याय प्रदर्शयेन् ॥१२॥
आदित्यरश्मिसंतप्तां गङ्गजलकणोक्षिताम् । तां मृद्रं शिरति स्थाप्य पूर्वं दत्त्वाङ्रसन्धिषु ॥१३॥
ततः स्त्रानं प्रकुर्वीत मन्व्रेणान्तर्जले पुनः । त्वमापो योनिः सर्वेषां दैत्यदानवरक्षसाम् ॥१४॥
स्वेदजोद्भिज्जयोनीनां पतये नमः । स्त्रातोऽ हं सर्वतीर्थेषु सर्वप्रस्त्रवणेषु च ॥१५॥
नदीषु देवखातेष स्त्रानं तेषु च मे भवेत् । ध्यायन्ध्वनिमिमं मन्व्रं ततः स्त्रानं समाचरेत् ॥१६॥
ततः स्त्रात्वा शुचिर्भूत्वा गृहमागत्य न स्पृशेत । न जल्पेत च संवीक्षेत्क्कचित्पापिष्ठमेव हि ॥१७॥
दूर्वाश्वत्थशमीं स्पृष्ट्रवा मां च मन्व्रेण मन्व्रवित् । दूर्वामप्यस्य मन्व्रेण युतेन समपस्थितम् ॥१८॥
त्वं दूर्वेऽमृतजन्मासि सर्वदेवैश्व वन्दिता । वन्दिता दह तत्सर्वं यन्मया दुष्कृतं कृतम् ॥१९॥
दूर्वामन्व्रः ॥ पविव्राणां पविव्रं त्वं काश्यपी पठन्यसे श्रुतां । शमी शमय मे पापं यन्मया दुरनुष्ठितम् ॥२०॥
शमीमन्व्रः ॥ अश्वर्त्यमङ्गं लभते मन्व्रमेतन्निबोध मे । अक्षिस्पन्द भुजस्पन्दं दुःखप्न दुर्विचिन्तितम् ॥२१॥
शव्रूणां च समुत्थानमश्वत्थ शमयस्व मे । अश्वत्थमन्व्रः । गां दद्यात्तु ततो देवीं सवत्सां सप्रदक्षिणाम् ॥२२॥
समालभ्य उ सन्व्रेण मन्व्रमेतमुदीरयेत् । सर्वदेवमये देवि दैवतैस्त्वं सुपूजिता ॥२३॥
तस्मात्स्पृशामि वन्दामि पापहा भव । गोमन्व्रः ॥ एवं मन्व्रं पठन्पार्थ भक्त्या भावेन भावितः ॥२४॥
प्रदक्षिणां यः कुरुते गां द्दष्टवा वरवर्णिनीम् । प्रदक्षिणीकृता तेन पृथिवी ना संशयः ॥२५॥
एवं मौनेन चागत्य वन्द्यान्वन्द्य गृह व्रजेत् । प्रक्षाल्य च मृदा पादौ आहिताऽग्निगृहं विशेट् ॥२६॥
होमं तव्र प्रकुर्वीत एभिर्मन्व्रैः पदैर्वरैः । शर्वाय शर्वपुव्राय पार्वत्यै गोःसुताय च ॥२७॥
कुजाय लोहिताङ्गय गृहेशाङ्गरकाय च । भूयो भूयो यमाहुत्या हुत्वा हुत्वा जुहोति वै ॥२८॥
ओंकारपूवकैर्मन्व्रैः स्वाहाकारान्तयाजितैः अष्टोत्तरशतं पार्थ अर्द्धमर्धार्धमव्र च ॥२९॥
एभिमन्व्रपदैर्भक्त्या शक्त्या वा कामभेव वा । समिद्भिः खादिरीभिश्व घृतदुग्धैस्तिलैर्यवैः ॥३०॥
भक्ष्यैर्नानाविधैरन्यैः शक्त्या वा मन्व्रविद्वशी । हुत्वाहुतीस्ततः पार्थ देवं संस्थापयेत्क्षितौ ॥३१॥
स्नपन केचिदिच्छन्ति सगुडे तास्त्रभाजने । सौवर्णं रक्त्वर्णं रक्तवर्णं च शक्त्या दारुपय तथा ॥३२॥
कृष्णागरुमयं चैव श्रीखण्डघटितं पुनः । सौवर्णपाव्रे रौप्ये वा अर्च्य कुङ्रकुमकेसरैः ॥३३॥
अन्यैरालोहितैः पार्थ पुष्पैवस्त्रैः फलैः शुभैः । राजन्र्त्वैश्व विविधैरर्थवान्भक्तितोऽर्चयेत् ॥३४॥
यावद्धि शक्यते चित्तं वित्तवान्भक्तिभावितः । तावद्धि वर्धते पुण्यं दातुः शतसहस्त्रिकम् ॥३५॥
केचित्तास्त्रमये पाव्रे वशजे मृन्मयेऽपि वा । पूजयन्ति नरा रक्तैः पुष्पैः कुङ्रकुमकेशरैः ॥३६॥
ॐ अङ्गरकाय नमः ॥ शिरसि ॥ ॐ कुजाय नमः ॥ वदने ॥ ॐ भौमाय नमः ॥ स्कन्धयोः ॥ ॐ मङ्गलाय नमः ॥ बाह्रोः ॥ ॐ रक्ताय नमः ॥ उरसि ॥ ॐ लोहिताङ्गाय नमः ॥ कटन्याम् ॥ ॐ आराय नमः ॥ जङ्रघयोः ॥ ॐ महीधराय नमः ॥ पादयोः ॥ एषाष्टपुष्पिका ॥ पुरुषाकृतिं कृत पाव्रे कुजं मन्व्रैः समर्चयेत् ॥ गुग्गुलुं घृतसंयुक्तं कृष्णागरुसमन्व्रितम् । धूपं सद्रव्यजं वापि दद्यात्तव्र समाधिना ॥३७॥
होमं कुर्वीत पूर्वोक्तैर्मन्व्रैर्मङ्रलसंज्ञितैः । एवं प्रणंम्य देवेशं ब्राह्मणाय निवेदयेत् ॥३८॥
निष्णाव्रक भोजनं वा दद्याच्छक्त्या सदक्षिणम् । वित्तशाठयं हि कुर्वाणो न मुख्यफलभारभवेत् ॥३९॥
पश्वाद्भुञ्जीत मौनेन भूमिं कृत्वा तु भाजनम् । मन्व्रेणानेन चालम्य तन्निबोध मयोदितम् ॥४०॥
सर्वौषधिरसावासे सर्वदा सर्वदायिनि । त्वत्तलं भोक्तुकामोऽहं तद्भुक्तममृतं भवेत् ॥४१॥
युधिष्ठिर उवाच ॥ अङ्गरकेण संयुक्ता चतुर्थी नक्तभोजनैः । उपोष्या कतिमाव्रा सा किमेका वद यादव ॥४२॥
श्रीकृष्ण उवाच ॥ चतुर्थी च चतुर्थी च यदाङ्गारकसंयुता । उपोष्य तव्रतव्रैव प्रदेयो विधिना कुजः ॥४३॥
वित्तहीनाः प्रतीक्षन्ते यावद्वित्तोपलम्मनम् । चतुर्थां च चतुर्थ्यां च विधान शृणु पाण्डव ॥४४॥
सौवर्णयाव्रे कृत्वा तु अङ्गारकमक्रुव्रिमम् । दशसौवर्णिकं मुख्य़ं दशार्द्धार्द्धमथापि वा ॥४५॥
विंशत्पलानि पाव्राणि विंशत्यर्द्धपलानि च । विंशक्तर्षाणि वा पार्थ अतो न्यूनं न कारयेत् ॥४६॥
प्रतिष्ठाप्य कुजं नन्व्रैर्वस्त्रैः संपरिवेष्टितम् । पुष्पमण्डपिकां कृत्वा दिव्यां सद्धूपधूपिताम् ॥४७॥
तव्र संपूजयेद्देवं पूर्वमन्व्रैर्विधानतः । भक्त्या भोज्यैरनेकैश्व फलै रत्नैश्व सागरैः ॥४८॥
वस्त्रैः प्रावरणैर्यानैः शय्योपानद्वरासनैः । छव्रैः पुष्पैर्गन्धवरैः शक्त्या वित्तानुसारतः ॥४९॥
ततो विप्रं परीक्षेत व्रतशौचसमन्वितम् । वेदाध्ययनसंपन्नं शास्त्रज्ञं तिरहंकृतम् ॥५०॥
अङ्गारकव्रिधिं यश्व सम्यग्जानाति शास्त्रतः । आह्रानविधिमन्व्रांश्व होमार्चनविसर्जनम् ॥५१॥
संपूज्य वस्त्राभरणैस्तस्मै देयः कुजोत्तमः । यथाश्रुतो यथाज्ञातस्तथा भक्त्या ह्युपोषितः ॥५२॥
वित्तसारेण तुष्य त्वं मम भौम भवीद्भवः । पठन्निमं मन्व्रवरं ब्राह्मणाय निवेदयेत् ॥५३॥
ब्राह्यणश्वाप्यसौ विद्वन्मन्व्रमेतमुदाहरेत् । मङ्गलं प्रतिगृह्रामि उभयोरस्तु मङ्गलम् ॥५४॥
दातृप्रतिग्राहकयोः क्षेमारोग्यं भवत्विति । प्रतिग्राहकमन्व्रः ॥ एवं चतुर्थे संप्राप्ते धनप्राप्तिर्न विद्यते ॥५५॥
तदा मन्व्रार्चनपरः पुनरेतां समाचरेत् । आशरीरनिपाताद्वा यथोक्तफलभाग्भवेत् ॥५६॥
अल्पवित्तो यथांशक्त्या सर्वमेतत्समाचरेत् । अङ्गारकेण संयुक्तां वास्त्रां तिलशराविकाम् ॥५७॥
अनेन विधिना दत्त्वा यथोक्तफळभाग्भवेत् । एवं चतुर्थीं यो भक्त्या कुजयुक्तामुपोषयेत् ॥५८॥
तस्य पुण्यफलं यच्च तन्निबोध युधिष्ठिर । इह स्थित्वा चिरं कालं पुव्रपौव्रश्रिया वृतः ॥५९॥
देहावसाने दिव्यौजा दिव्यगन्धानुलेपनः । दिव्यनारीगणवृतो विमानवरमास्थितः ॥६०॥
याति देवपुरं ह्रष्टो देवैः सहाभिनन्दितः । सतव्र रमते काळं देवैः सह सुरेशवत् ॥६१॥
चतुर्युगानि षट् व्रिंशत्ततः कालाश्वरे पुनः । इह बागत्थ राजासौ कुळे महति जाषते ॥६२॥
रूपवान्धनवान्धाग्मी दानशीलो दयापरः । नारी च रूपसंपस्त्रा सुभगा जातिसंयुता ॥६३॥
पुव्रपौव्रैः परिवृता भर्व्रा सह रमेच्चिरम् । रमित्वा सुचिरं काळं पुनः स्वर्गगतिं लभेत् ॥६४॥
एष ते कथितो राजन्सरहस्यो विधिस्तथा । दुर्लभो यो मनुष्याणां देवानां भद्रमस्तु ते ॥६५॥
अङ्गारकेण सहिता तु सिसा चतुर्थी शस्ता सुरार्चमविधौ पिमृपिण्डदाने भद्रमस्तु ते ॥६५॥
अङ्गारकेण सहिता तु सिता चतुर्थी शस्ता सुरार्चमविधौ पिमृपिण्डदाने । तस्यां कुजं कुष्कुलोद्वह येऽर्चयन्ति भूमौ भवन्ति बहुमङ्गलभाजनास्ते ॥६६॥ [ १५६९ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे चतुर्थीव्रत अङ्गारकचतुर्थीव्रतवर्णनं नामैकव्रिंशत्तमोऽघ्यायः ॥३१॥