श्रीकृष्ण उवाच ॥
दासीदानसहं तेऽद्य प्रवक्ष्याम्यरिसूदन । भक्त्या स्त्रेहाच्च भवतो यन्नोक्तं केनचित्कृचित् ॥१॥
चतुर्णामाश्रमाणी हि गृहस्थः श्रेष्ठ उच्यते । गृहस्थाच्च गृहं श्रेष्ठं गृहाच्छ्रेष्टा वराः स्त्रियः ॥२॥
पूर्णेंदुबिंववदनाः पीनोन्नतपयोधराः । तद्गृहं यत्र दृश्यंते योषितः शीलमंडनाः ॥३॥
जामवो यत्र पूज्यंते रमंते तत्र देवताः । यत्रैतास्तुत्न पूज्यंते विनंक्ष्यत्याशु तद्गृहम् ॥४॥
जामयोयानि गेहानि शपंत्यप्रतिपूजिताः । तानि कृत्याहतानीव सद्यो यांति पराभवस् ॥५॥
अमृत्यस्येव कुंडानि सुखानमिव राशयः । रतेरिव निधानानि योषितः केन निर्मिताः ॥६॥
श्यामा मथरगामिन्यः पीनोन्नतपयोधराः । महिष्योवरनार्यश्व न भवंति गृहे गृहे ॥७॥
अहिरण्यमदासीकल्पान्नाच्यमगोरसम् । गृहं कृपनवृत्तीनां नरकस्यापरो विधिः ॥८॥
अदंडपाशिकः ग्राममदासीकं च हद्गृहम् । अनाज्यं भोजनं यच्च वृथातदिति मे मतिः ॥९॥
विभवाभरणा दास्यो यद्गृहं समुपासते । तत्रास्ते पंकजकरा लक्ष्मीः क्षीरोदवासिनी ॥१०॥
न यत्रास्ति गृहे शौचं न सुखं व्यवहारजम् । यत्र वा नास्ति दाहयेका तत्सदैवानवस्थितम् ॥११॥
यत्र कर्मकरी नास्ति सर्वकर्मकरी सदा । न तच्छतं किंकराणां करोति शुभतामपि ॥१२॥
यदेका कुरुते दासी गृहस्थते भृता हि सा । बहुलोकाकुलो ग्रामो दासीदासाकुलं गृहम् ॥१३॥
बुद्धिर्धर्माकुला यस्य तस्य चेतः । किमाकुलम् । यत्र भार्या गृहे दक्षा दास्यः कर्मण्यनुव्रताः ॥१४॥
भृत्याः सदोद्यमपरा स्त्रिवर्गस्तत्र दृश्यते । यद्यदिष्टतमं लोके तत्तद्देयमिति श्रुतिः ॥१५॥
एतद्विचार्य हृदयं दासी द्विजातये । स्थिरनक्षत्रसंयुक्ते सोमे सौम्यग्रहान्विते ॥१६॥
दानकालं प्रशंसंति संतः पर्वणि वा पुनः । अलंकृत्य यथाशक्त्या वासोभिर्भूषणैस्तथा ॥१७॥
ब्राह्मणाय प्रदातव्याः मंत्रेपानेन कौरव । इयं दासी मया तुभ्यं भगवन्प्रतिपादिता ॥१८॥
कर्मोपयोज्या भोज्या वा यथेष्टं भद्रमस्तु ते । दत्त्वा क्षमापयेत्पश्वाद्ब्राह्मणं कांचनेन तम् ॥१९॥
अनुव्रज्य गृहद्वारं यावत्पश्वादिसर्जयेत् । अनेन विधिना दद्यादंकायित्वा सुरालये ॥२०॥
मखे चापि महाराज प्रसिद्धे वा प्रतिश्रये । सर्वकर्मकरीं दत्त्वा तरुणीं रुपशालिनीम् ॥२१॥
प्राप्यते यत्फलं पुंसा पार्थ तत्केन वर्ण्यते ॥२२॥
दासीं समीक्ष्य बहुशो गृहकर्मदक्षो यो ब्राह्मणाय कुलशीलवते ददाति । विद्याधराधिपशतैरपि पूजितोऽसौ लोकं त्रिलोकरमयाप्सरसां प्रयाति ॥२३॥ [ ८४४६ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि । श्रीकृष्णयुधिष्ठिरसंवादे दासीदानविधिवर्णनं नामैकसप्तत्युत्तरशततमोऽध्यायः ॥१७१॥