श्रीकृष्ण उवाच ॥
श्वेतद्वीपे सुखासीनं देवदेवं जगत्प्रभुम् । वासुदेवं जगन्नाथं स्थितिंसंयमकारकम् ॥१॥
परावराणां स्त्रष्टारं पुराणं परमव्य्यम् । आदिदेवं जगन्नाथं जगतः कारणात्मकम् ॥२॥
प्रणिपत्य महादेवं चराचरगुरुं हरिम् । लक्ष्मीः प्रोवाच राजेन्द्र पादसंवाहने स्थिता ॥३॥
भगवन्देवदेवेश भक्तानामनुकंपक । प्रष्टव्यं किंचिदिच्छामि प्रष्टुं प्रश्नाविदांवर ॥४॥
प्रकुरुष्व महाभाग दयां कृत्वा ममोपरि । व्रतं किंचित्कथयमे रुपसौभाग्यदायकम् ॥५॥
उत्तमे सर्ववर्णानां व्रतानामपि चोत्तमम् । कृतेन येन देवेश सर्वतीर्थफलं भवेत् ॥६॥
विष्णुरुवाच ॥
गृहस्थश्वाश्रमाणां च वर्णानां ब्राह्मणोयथा । यथा नदीषु सर्वासु जाह्रवी लोकविश्रुता ॥७॥
ह्रदानामुदधिः श्रेष्ठो देवानां विष्णु रुत्तमः । स्त्रीणां देवी यथा लक्ष्मीस्तथेदं व्रतमुत्तमम् ॥८॥
नगङ्गाकुरुक्षेत्रं नकाशीनचपुष्करम् । पावनानि महाभागे यथेदं व्रतमुत्तमम् ॥९॥
गौर्या देवय कृतं पूर्व शंकरेण महात्मना । रामेण सीतया सार्द्धराज्यं प्राप्य कुतं पुरा ॥१०॥
दमयंतीवियोगेन नलेन तु तथा कृतम् । कृष्णया सहितैः पार्थ पांडवैर्वनवासिभिः ॥११॥
कृतमेतदूव्रतं भद्रे स्वर्गमोक्षप्रदायकम् । रंभया मेनया वापि पौलोम्या सत्यभामया ॥१२॥
शांडिल्या चाप्यरुंधत्या उर्वश्या देवदत्तया । कृतं व्रतमिदं भद्रं सौभाग्यसुखकाम्यया ॥१३॥
पाताले नागाकन्याभिः कृतमेतत्सुशोभनम् । गायत्र्या च सरस्वत्या सावित्र्या ब्रह्मभार्यया ॥१४॥
अन्याभिः सर्वनारीभिः सर्वकामफलेप्सुभिः । तस्मात्तेऽहं प्रवक्ष्यामि सर्वपापप्रणशनम् ॥१५॥
वसुप्रीतिकरं रम्यं व्रतानां परमं श्रृणु । ब्रह्महा मुच्यते पापात्सुरापो वसुहारकः ॥१६॥
गुरुभार्याभिगामी च ह्येतेषां संगमी च यः । मानकूटं तुलाकूटं कन्यावृत्तिर्गवां क्रेता ॥१७॥
अगम्यागमनो यस्तु मांसाशी वृषलीपतिः । कुंडदिभोजी यस्तु स्याद्भूमिहर्ता तथैव च ॥१८॥
एभिः सर्वैर्महापापैर्मुच्यते नात्र संशयः । एभिः स्यान्नरनारीभिः कर्तव्यं व्रतमुत्तमम् ॥१९॥
अतस्तेऽहं विधिं वक्ष्ये विधानमवधारय । काञ्चख्यापुरी नाम व्रतं त्रैलोक्यविश्रुतम् ॥२०॥
यः करोति नरो देवि नारी वा भक्तिसंयुता । तस्य पुत्राश्व पौत्राश्व जायते विपुलं धनम् ॥२१॥
यस्मिन्मासे च कर्तव्यं व्रतमेतच्च सुन्दरि । तस्मिन्मासे च कर्तव्या काञ्चनाख्या पुरी शुभा ॥२२॥
शुल्ककृष्णतृतीयायामेकादश्यां च पूर्णिमाम् । संक्रातिर्वा महाभागे कुहूर्वाचाष्टमीतिथिः ॥२३॥
पर्वस्वन्येषु सर्वेषु दातव्या काञ्चनी पुरी । व्रती स्त्रात्वा तु पूर्वाह्रे नद्यादौ विमले जले ॥२४॥
मृत्तिकालंभनं कार्य मंत्रेणानेन सुव्रते । उद्धृतासियथापूर्वविष्णुनाक्रोडरुपिणा ॥२५॥
लोकानामुपकारार्थ वंदनासिद्धि कामदा । तस्मात्त्वं वंदिता पापं हर मेऽनेकजन्मजम् ॥२६॥
मृत्तिकामन्त्रः ॥
आपस्तु विश्वयोनिर्हि विष्णुना निर्मिताः स्वयम् । सान्निध्यं तीर्थसहितं कर्तव्यं मम सांप्रतम् । अग्मंत्रः ॥२७॥
अनेन विधिना स्तात्वा यजमानः समाहितः । गृहमागम्य शुद्धात्मा नालेपत्पिशुनान्खलान् ॥२८॥
पाखंडिनोविकर्मस्थान्धूर्ताकितवाञ्छठान् । प्रक्षाल्यपाणिवदनं कुर्यात्त्वाचनमनं ततः ॥२९॥
उपवासरय नियमं कुर्यान्नक्तस्य वा पुनः । शंखप्रवरमादाय हेमयुक्तं जलैर्भृतम् ॥३०॥
द्वादशाक्षरमंत्रेण तज्जलं चाभिमत्रयेत् । पिबेत्तोयं गृहे गत्वा हरिरित्यक्षरं जपेत् ॥३१॥
शमीवृक्षमया वेदी चतुःस्तंभसमन्विता । चतुर्हस्तप्रमाणेन कार्य्या चैव सुशोभना ॥३२॥
वस्त्रेणावेष्टिताः स्तंभा वितानवरमंडिताः । पुष्पमालान्विताः कार्या दिव्यधूपधिवासिताः ॥३३॥
मध्ये तु मंडलं कार्ये पद्माख्यं वर्णकैः शुभैः । येन दृष्टेन देवेशि सर्वपापक्षयो भवेत् । मंडलस्य तु मध्ये वै भद्रपीठं सुशोभनम् ॥३४॥
आत्तनं तत्रविन्यस्य कोमल्म वस्त्रवेष्टितम् । तस्योपरि न्यसेद्देवं लक्ष्म्यायुक्तं जनार्दनम् ॥३५॥
अग्रे तु कलशः कार्यो जलपूर्णः सुशोभनः । क्षीरसागरनामा स कल्पितव्यः प्रयत्नतः ॥३६॥
पंचरत्नसमायुक्तं वस्त्रेणावेष्टयेद्धनम् । कुम्भं प्रपूर्णमुदकैस्तस्योपरिन्यसेद्बुधः ॥३७॥
तस्योपरिष्टात्संस्थाप्य कांचनाख्वां पुरीं शुभाम् । चतुष्पलाह्युत्तमा स्यादिद्वपला सप्यमाः मृता ॥३८॥
सान्वैकपला कार्या कलशैस्तु समन्विता । मोदकान्स्थापयेद्दिव्यान्समंतात्तुंदराकृतीन् ॥३९॥
तदग्रे कदलीस्तंभैस्तोरणं परिकल्पयेत् । चातुश्वरणिकांस्तत्र विप्रानावाह्य सुंअरि ॥४०॥
प्रतिष्ठां कारयेत्तस्या वेदमंत्रैः सुशोभनैः । तस्या मध्ये न्यसेद्विष्णुं हैमं लक्ष्म्या समन्वितम् ॥४१॥
नेत्रे रत्नमो कार्ये दशना वज्रभूषिताः । मुक्ताफलमयं तस्य भूषणं परिकल्पयेत् ॥४२॥
अंगं स्वर्णमयं कार्ये शंखचक्रदायुधम् । पञ्चामृतेन देवेशं स्त्राप्य नारायणं विभुम् ॥४३॥
तनेव गंधपुष्पाद्यैमंत्रमुच्चार्य पूजयेत् । ब्राह्मणो वैदिकैर्मत्रैः पूजयेन्मधुसूदनम् ॥४४॥
शेषावर्णाः पुराणोक्तैस्ताञ्छुणुष्व मम प्रिये । वासुदेवाय पादौ तु गुल्फौ संकर्षणाय च ॥४५॥
त्रैलोक्यजनकायेति जानुनी पूजयेद्धरेः । त्रैलोदयनाथाय गुह्ये ज्ञानमयाय वै कटिम् ॥४७॥
दामोदरा येत्युदरं हृदयं । विश्वरुपिणे । नित्यं हि पूजयेद्देवि उरः । श्रीवत्सधारिणे ॥४८॥
कंठं कौस्तुभनाथाय आस्यं यज्ञमुखाय च । दैत्यांतकारिणे । बाहू स्वैर्नामै रायुधानि च ॥४९॥
शिरः सर्वात्मने देवि देवदेवस्य पूजयेत् । श्रियं प्रपूजयेद्देवीं देव्यां मंत्रैः पृथिष्विधैः ॥५०॥
इन्द्रादिलोकपालानां पूजा कार्या यथाक्रमम् । नवग्रहाणां च होमः कर्तव्यो विघ्ननाशनः ॥५१॥
पूजा गणपतेः कार्या तथा होमं विधानतः । अग्ने नैवेद्यमतुलं दापयेद्घृतपाचितम् ॥५२॥
पायसं घृपुरांश्व मोदकान्पूरिकास्तथा । सोहालिकादिनैवेद्यः फेणिकाः शर्करास्तथा ॥५३॥
देशकालेद्भवान्येव फलानि विनिवेदयेत् । दीपान्दशदिशो दद्यात्पार्थिवान्रक्तवर्तिकान् ॥५४॥
एतेन तु विशालाक्षि मूलमंत्रेण दापयेत् । पुष्पमालान्वितान्कृत्वा चंदनेन विभूषितान् ॥५५॥
अभिमंत्र्य प्रयत्नेन विष्णुस्तवक वाचकैः । सहस्त्रशीर्षादिभिर्मत्रैर्जप्रद्धिर्ब्राह्मणोत्तसैः ॥५६॥
षोडशाथ सपत्नीकाः पूजयेच्च यथाविधि । भूषयेच्च शुभैर्वस्त्रस्तथालंकरणादिभिः ॥५७॥
विष्णुं मत्वा द्विजः पूज्यो लक्ष्मीं मत्वा च ब्राह्मणीम् । छत्रंचोपानहंचैवअंगुल्याभरणतथा ॥५८॥
फलानिसप्तधान्यं चः भोजनं च यदीप्सितम् । दातव्यं च सभार्या कृष्णो मे प्रीयतामिति ॥५९॥
शय्यां सोपस्करां चैव वस्त्रेणाच्छाद्य यत्नतः । तथा प्रकल्पयेद्दित्तशक्त्या च सुंदरी यथा ॥६०॥
व्रते च गौर्देया सर्वोपस्करसंयुता । पुरीं घटापयेत्पूर्व वस्त्रेणाच्छाद्य यत्नतः । तथा क्रुयात्प्रयासेन यथा कर्ता न पश्यति ॥६१॥
दीपांस्तु दीपितांरतत्र आनयेयज्ञमंडपेम् । श्वेतवस्त्रेण नेत्रेःतु यजमानस्य च प्रिये ॥६२॥
आचार्यः शास्त्रवित्प्राज्ञ आबध्य नयने ततः । आबध्य नेत्रे सुप्राज्ञ आचार्यस्तमिंदं वदेत् ॥६३॥
सर्वकामप्रदां पश्य कांञ्चनाख्यां पुरीमिमाम् । वरवस्त्रयुतां रम्यां दुःखदौर्भाग्यनाशिनीम् ॥६४॥
एवमुक्त्वा महाभागे पटमुन्मुच्य नेत्रयोः । पुष्पांञ्जलिं परौ क्षिप्त्वा स पश्येत्तां पुरीं शुभाम् ॥६५॥
दृष्ट्वा तां नगरीं देवि यजमानः समाहितः । सौवर्णे पात्रमादाय रौप्यं ताम्रमथापि वा ॥६६॥
अथवा शंखमादायपात्रालाभे तु सुंदरि । पञ्चरत्नं क्षिपेत्पात्रे जलं गाड्गं तथा फलम् ॥६७॥
सिद्धार्थमक्षतापूर्वेरोचना दधि वा पुनः । ततश्चार्घ्यः प्रदातब्यः कृष्णाय प्रभविष्णवे ॥६८॥
लक्ष्मीनारायणौ देवौ सर्वकामफलप्रदौ । रुक्मपुर्याः प्रदानेन यच्छेतां वांच्छितं मम ॥६९॥
नारायण ह्रषीकेश ज्ञानज्ञेयनिरंजन । लक्ष्मीकांत जगन्नाथ गृहाणार्घ्य नमोस्तु ते ॥७०॥
अर्घमंत्रः ।
एवमर्घ्य ततो दत्वा विष्णवेप्रभाविष्णवे । देव्यास्त्वर्घ्यः प्रदातव्यो भक्तियुक्तेन चेतसा ॥७१॥
जानुभ्यामवनिंगत्वामंत्रमेतभुदीरयेत् । ब्रह्मणा पूजिता देवी विष्णुना शंकरेण च ॥७२॥
पार्वत्या पूजिता लक्ष्मीः स्कंदवैश्रवणेन च । मयाच पूजिता देवि धर्मस्य विजिगीषया ॥७३॥
सौभाग्यं देहि मे पुत्रान्धनं पौत्रांश्च पूजितान् । गृहाणार्घ्यं मया दत्तं देवि सौख्यं प्रयच्छ मे ॥७४॥
य एवं पुरतो दत्वा पूर्वोक्तविधिना तव । रात्रौ जागरणं कुर्याद्भक्तियुक्तेन चेतसा ॥७५॥
गीतनृत्यविनोदेन उपाख्यानैश्व वैष्णवैः । येन केन विनोदेन निद्रा नैव प्रजायते ॥७६॥
उन्निद्रो जागरे द्यस्तु शतयज्ञफलं लभेत् । प्रभाते विमले स्नात्वा संपूज्य पितृदेवताः ॥७७॥
ब्राह्मणांश्व सपत्नीकान्परिधाप्यानुभोजयेत् । दक्षिणाश्च यथाशक्त्या प्रदाय च क्षमापयेत् ॥७८॥
दीनांधबधिरान्पंगून्सर्वोस्तान्परितोषयत् । पश्चात्पारणकं कार्यमुपवासी भवेद्यदि ॥७९॥
मधुरं पयसा युक्तं सुह्रद्भिबांर्धवैः सह । एवमेतद्व्रतं कार्यमेकादश्यां शुचिस्मिते ॥८०॥
शुक्लायामथ कृष्णायां तृतीयायां तथा तिथौ । संक्रांतिवासरे वापि व्यतीपाते च वैघृतौ ॥८१॥
यदा वा जायते वित्तं चित्ते च वरवणिंनि । गावः शक्त्या प्रदातव्या कृष्णो मे प्रीयतामिति ॥८२॥
एवं कृते च यत्पुण्यं तन्न शक्यं निवेदितुम् । अपि वर्षसहस्त्रेण कुललक्षशतैरपि ॥८३॥
कल्पकोटिसहस्त्राणि कल्पकोटिशतानि च । ब्रह्मलोकं समासाद्य प्रतिमोदति ब्रह्मणा ॥८४॥
ब्रह्मलोकाद्रुद्रलोकं तत्परं विष्णुसंनिधौ । इन्द्रादिलोकपालानां व्रती लोकमवाप्नुयात् ॥८५॥
ततो भुक्त्वा शुचिः श्रीमान्भोगांस्त्रैलोक्यसुंदरि । चक्रवर्ती भवेद्भूमौ ब्रह्मण्यो वैष्णवस्तथा ॥८६॥
य इदं शृणुयान्नित्यं वाच्यमानं समंततः । कुलसप्तकमुद्धृत्य वैष्णवं लोकमाप्नुयात् ॥८७॥
त्वया कांचनपुर्याख्यं व्रतमेतत्कृतं पुरा । तेन पुण्येन लब्धोऽहं भर्ता त्रैलोक्यपूजितः ॥८८॥ [ ६६४९ ]
इति श्रीभविष्येमहापुराणे श्रीविष्णुलक्ष्मीसंवादे कांचनपुरीव्रतवर्णनं नाम सप्तचत्वारिंशदुत्तरशततमोऽध्यायः ॥१४७॥