श्रीकृष्ण उवाच ॥
ये मानवास्त्रिदशमूर्तिनिकेतनानि कुर्वति साधुजनदृष्टिमनोहराणि । तेषां मृतेत्थ परमार्थमये शरीरे लोके परिभ्रमति कीर्तिमयं शरीरम् ॥१॥
यः कारयेद्द्वारसिताभ्रगौरमुत्तुं गसौधधवलायतनं सुराणाम् । चन्द्रावदातभवने दिवि लब्धसौख्यो राज्यश्रियं स भुवि बोध युतामुपैति ॥२॥
ये कारंयति सुरसद्म सुदेवतानामर्चाः सुवर्णजतायसशैलताम्राः । सामंतमौलिमणि रश्मिसमर्चितास्ते सिंहासनेऽङ्गदकिरीटभृतोऽवभांसि ॥३॥
येमेरुमौलिमुरसंधकृताभिषेकः पञ्चामृतैः सुरवरानाभिषेचयंति । ते दिव्यकल्पमभिधार्य सुरेश्वरत्वं राज्याभिषेकमतुलं पुनराप्नुवंति ॥४॥
ये शैलराजमलयोद्भवचंदेनन सत्कुंकुमेन च सुराननुलेपयंति । त दिव्यगन्धपटवाससुगंधिदेहा नंदंति नंदनवनेषु सहाप्सरोभिः ॥५॥
गंधाढ्यजातिकमलोत्पलदिव्यपुष्पैर्देवान्नवैरनुदिनं ननु येऽर्चयंति । पुण्योद्भव नरपतित्वमवाप्य तेऽपि यास्यांति कुंदधवलामचिरेण सिद्धिम् ॥६॥
अमोदिभिर्हिम् तुरुष्कासुगन्धधूपैर्ये मानवाः सुरवनानपि धूपयंति । कर्पूरधारानिभगन्धवराभिरामं स्वर्गे विमानवति ते भवते रमंते ॥७॥
दोधूयते कनकदंडविराजितैश्व सच्चामैः प्रबलकुंडलसुन्दरिभिः । दिव्यांवर स्त्रगनुलेपनभूषिताङ्गां कृत्वा सुरेशभवनांबरवस्त्रपूजाम् ॥८॥
देदीप्यदिनकरोज्ज्वलपद्मरागरत्नप्रभाछुरितहेममये विमाने । दिव्यांगनापरिवृतो नयनाभिरामः प्रज्वाल्यः दीपममलं भवनेश्वराणाम् ॥९॥
यो जागरं सुरभराभिमतो ददाति चैत्रोत्सवादिदिवसेष्वपि तूर्यनादैः । वीणासुवेणुमधुरस्वरभाषिणीभिः संगीयते च स कृशोदरकिन्नरीभिः ॥१०॥
कुर्वति ये सदुपले पनधातुरागसंमार्जनं सुरवरायतनेऽनुरक्ताः । मुक्ताकलापमय कांचनभक्तिचित्रैर्वैङ्र्यकुट्ट्मतलो दिवि ते वसंति ॥११॥
दद्याच चः पर्माभक्तियुक्तः सुराणां घण्टावितानवरचामरमातपत्रम् । केयूरहारमणिकुण्डलभूषोतोऽसौ रत्नधिपो वसति भूतलचक्रवर्ती ॥१२॥
अभ्यर्चयेत्पतिवचः कुसुमैर्विचित्रर्देवाधिदेवपरिसंस्तुतपादपद्मान् । भक्त्या प्रहृष्टमनसः प्रणमंति देवांस्ते भूर्भुवः स्वर्महिमाप्तफलाभवंति ॥१३॥ [ ५५८९ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे देवपूजाफलव्रतवर्णनं नामैकोनविंशत्युत्तरशतमोऽध्यायः ॥१२९॥