श्रीकृष्ण उवाच ॥
ब्राह्मणां दैवतं भूमौ ब्राह्मणा दिवि दैवतम् । ब्राह्मणेभ्यः परं नारित नास्ति भूतं जगत्रये ॥१॥
अदेवं दैवतं कुर्युः कुर्युदैवमदैवतम् । ब्राह्मणा हि महाभागाः पूज्यंते सततं द्विजाः ॥२॥
ब्राह्मणेभ्यः समुत्पन्नाः देवाः पूर्वमिति स्मृतिः । ब्राह्मणेभ्यो जगत्सर्व तस्मात्पूज्यतमाद्विजाः ॥३॥
येषामश्रंति वक्रण देवताः पितरस्तथा । ऋषयश्व तथा नागाः किंभूतमधिकं ततः ॥४॥
यदैव मनुजो भक्त्या ब्राह्मणेभ्यः प्रयच्छति । तदेवाप्नोति धर्मज्ञ बहुजन्मनि जन्मनि ॥५॥
तालवृंतानिलेनैव श्रांतसंवाहनेन च । उत्सादनेन गात्राना तथा व्यंजनकर्मणा ॥६॥
पादशौचप्रदानेन पादयोः सेचनेन च । परिचर्य यथाकाममेकेनैव द्विजोत्तम ॥७॥
अनिष्टावपि समाप्रोति स्वर्गलोकं च शाश्वतम् । ब्राह्मणानां शुभं कृत्वा नाकलोके महीयते ॥८॥
यद्वाह्यणास्तुष्टिमन्तो वदंति प्रत्यक्षदेवेषु परोक्षदेवाः । तद्वैशुभं तस्य नरस्य नूनं भवेदेतस्तान्सततंनिषेवेत् ॥९॥ [ ६६६९ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे ब्राह्मणशुश्रूषाविधिवर्णनं नामैकोपंचाशदुत्तरशततमोऽध्यायः ॥१४९॥