श्रीकृष्ण उवाच॥
तथैवान्यत्प्रवक्ष्यामि सर्वकामफलप्रदम । सौभाग्यशयनं नाम यत्पुराणविदो विदुः ॥१॥
पुरा दग्घेषु लाकेषु भुर्मुवःस्वर्महादिषु । सौभाग्यं सर्वलोकानामेकस्थमभवत्तदा ॥२॥
तच्च वैकुण्दमांसाद्य विष्णावक्षस्थले स्थितम् । ततः कालेन महता पुनः सगविधो नृप ॥३॥
अहंकारवृते लोके प्रधानपुरुषान्व्रिते । स्पर्द्धायां च प्रवृत्तायां कमलासनकृष्णयोः ॥४॥
पिङ्गकारा समुद्भूता ज्वाला वक्षस्थली तदा । तयाभितप्तस्य हरर्वक्षसस्तद्विनिःमृतम् ॥५॥
पद्वक्षस्थलमाश्रित्य विष्णोः सौभाग्यामास्थितम् । रसरूपतया तावत्प्रान्पोति वसुधातलम् ॥६॥
रत्क्षिप्तमन्तरिक्षस्थं ब्रह्यपुव्रेण धीमता । दक्षेण पीतमाव्रं तु रूपलावण्यकारणम् ॥७॥
बलं तेजो महज्जातं दक्षस्य परमेष्ठिनः । शेषं यदपतद्भूमावष्टधा तदजायत ॥८॥
इक्षवस्तव्रराजं च निष्पावाजाजिधान्यकम् । विकारवच्च गोक्षीरं कुसुम्भं कुङ्कुमं तथा ॥९॥
लवणं चाष्टमं तव्र सौभाग्याष्टकमुच्यते । पीतं यदब्रह्मपुव्रेण योगज्ञानविदा तथा ॥१०॥
दुहितास्याभवत्तस्माद्या सतीत्यभिधीयते । लोकाततीत्य लालित्याल्ललिता तेन चे च्यते ॥११॥
व्रैलोक्यसुन्दरीमनामुपवेमे पिनाकधक । व्रिविश्वसौभाग्यमयी भुक्तिमुक्तिफलप्रदा ॥१२॥
आराध्य तामुमां भक्त्या स्त्री राजन्किन्न विन्दति ॥१३॥
युधिष्ठिर उवाच ॥ कथमाराधनं तस्या जगद्धाव्र्या जनार्दन । यद्विधानं च तत्सर्वं जगन्नाथ वदस्व मे ॥१४॥
श्रीकृष्ण उवाच ॥ वसन्तमासमासाद्य तृतीयायां युधिष्ठिर । शुक्लपक्षस्य पूर्वाह्रे तिलैः स्नानं समाचरेत् ॥१५॥
तस्मिन्नहनि सा देवी किल विश्वास्मना सती । पाणिग्रहणकेर्मम्वैरुद्वाह्या वरवर्णिनी ॥१६॥
तया सहैव देवेशं तृतीयायामथार्चयेत् । फलैर्नानाविधैर्धृपदीपनैवेद्यसंयुतैः ॥१७॥
पञ्चगव्येनानुमासं तथा गन्धोदकेन च। स्त्रापयित्वाचयेद्नौपीमिन्दुशेखरसंयुताम् ॥१८॥
पाटलां शंभुसहितां पादयोस्तु प्रपूजयेत् । व्रियुगां शिवसंयुक्तां गुल्फपोरुभयोरपि ॥१९॥
भद्रेश्वरेण सहितां विजयां जानुनोर्युगे । ईशानीं हतिकेशं च कटन्यां संपूजयेद्ब्रुधः ॥२०॥
कोटनीं शूलिनं कुक्षां मङ्गलां शर्वसयुताम् । उदरे पूजयेद्राजन्नुमां रुद्रं कुचद्वये ॥२१॥
अनन्तां व्रिपुरन्घं च पूजयेत्करसंपुटे । कण्टे भवं भवानीं च मुखे गौरीं हरं तथा ॥२२॥
सर्वात्मना च सहितां ललितां मस्तकोपरि । ओंकारपूर्वकैरेतैर्नममस्कारान्तयोजितैः ॥२३॥
पूजयेद्भक्तिसहितो गन्धमाल्यानुलेपनैः । एवमभ्यर्च्य विधिवत्सौभाग्याष्ट कमग्रतः ॥२४॥
स्थापयेत्स्विन्ननिष्पावान्कुसुम्भं क्षीरजीरकम् । तवराजेक्षुलवणं कुङ्कमं च तथाष्टमम ॥२५॥
द्त्तं सौभाग्यदं यस्मात्सौभाग्याष्टकमुच्यते । एवं निवेद्य तत्व्सर्वं शिवयोः प्रीयतामिति ॥२६॥
चैवे शृङोदकं प्राश्य स्वपेद्भूमावरिन्दम । ततः प्रातः समुत्थाय कृतप्राणजयः शुचिः ॥२७॥
संपूज्य द्विजदाम्पत्यं माल्यव्रस्त्रविभूषणैः । सौभाघ्याष्टकसंयुक्तं सौवर्णं चरणद्वयम् ॥२८॥
प्रीयतामव्र ललिता ब्राह्मणाय निवेदयेत् । एवं संवत्सरंयावत्तृतीयायां सदा नृप ॥२९॥
प्राशने नाममन्व्रे च विशेषोऽयं निबोध मे । गोशृङ्कोदकमाद्ये स्ग्राद्वैशाखे गोमयं पुनः ॥३०॥
ज्येष्ठे मन्दारपुष्पं च बिल्वपवं शुचौ स्मृतम् । श्रावणे दधि संप्राश्यं नबस्ये च कुशोदकम् ॥३१॥
क्षीरमाश्वयुजे तद्वत्कार्तिके पृषदाज्यकम् । मृगोत्तमाङे गोमूव्रं पौषे संप्रशयेद्धृतम् ॥३२॥
माघे कृष्णतिलास्तद्वत्यञ्चगव्यं च फाल्गुने । ललिता विजया भद्रा भवानी कुमुदा श्रिता ॥३३॥
वासुदेवी तथा गौरी मङ्गला कमला सती । उमा च दानकाळ तु प्रीयतामिति कीर्तयेत् ॥३४॥
मल्लिकाशोककमलकदम्बोत्पलमालती । कुडमलं करवीरं च बाणमम्लानकुङकुमम ॥३५॥
सिन्दुवारं च सासेषु सर्वेषु क्रमशः स्मृतम् । जपाकुसुम्भकुसुमं मालती शतपविका ॥३६॥
यथालाभं प्रदेयानि करवीरं च सर्वदा । एवं संवत्यरंयाव्रदुपोष्य विधिवन्नरः ॥३७॥
स्त्री नक्तं तु कुमारी वा शिवामभ्यर्च्य शक्तितः । व्रतान्ते शयनं दद्यात्सर्वोपस्करसंयुतम् ॥३८॥
उमामहेश्वरं हैमं वृषभ च गवा सहा । स्थापयित्वा तु शयने ब्राह्मणाय निवेदयेत् ॥३९॥
अन्यान्यपि यथाशक्त्या मिथुनान्यम्वरादिभिः । धान्यालङ्करणैर्दानैरन्थैश्व धनसंचयैः ॥४०॥
वित्तशाठयेन हरितः पूजयेद्नतविस्मयः । एवं करोति यः सम्यक्सौभाग्यशयनव्रतम् ॥४१॥
सर्वान्कामाननान्पोति पदं चानन्त्यमश्रुते । सौभाग्यारोग्यरूपायुर्वस्त्रालङ्कारभूषणैः ॥४२॥
न वियुक्तो भवेद्राजन्वर्षायुतशतव्रयम् । यस्तु द्वादशवर्षाणि सौभाग्यशयनं व्रतम् ॥४३॥
करोति सप्त चाष्टौ वा श्रीकण्ठभुवनेश्वरैः । पूज्यमानो भवेत्यभ्याग्यावत्कल्पायुतव्रयम ॥४४॥
नारी वा क्रुरुते या तु कुमारी वा नरेश्वर । सापि तत्फलमान्पोति देव्यनुग्रहलालिता ॥४५॥
शुणुयादपि यश्वैतत्यदद्यादथवा मतिम् । सोऽपि विद्याधरो भूत्वा स्वर्गलोके चिर वसेत् ॥४६॥
इदमिह मदनेन पूर्वमिष्टं चरितमिदं शशिबिन्दुना व्रतंवै । सुरपतिधनदेशवायुसोमैश्वरित्समिदं करुतेन बन्दिना च ॥४७॥
यानीह दत्तानि पुरा नरेन्द्रैर्दानानि धर्मार्थयशस्कराणि । निर्माल्यतुल्यान्यधुना हि तानि स नाम साधुः पुन राददानः ॥४८॥ [ १२४४ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वाणि सौभाग्याष्टकतृर्तीयाव्रतं नाम पञ्चविंशतितमोऽध्यायः ॥२५॥