श्रीकृष्ण उवाच ॥
शुक्ले भाद्रपदे चैव्र पक्षेऽष्ठभ्यां युधिष्ठिर । दूर्वाष्टमीव्रमं पुण्यं यः कुर्याच्छ्रद्धयान्वितः ॥१॥
न तस्य क्षयमान्पोति संतानं सप्तपौरुषम् । नन्दते वर्द्धते नित्यं यथापूर्वं तथाकलम् ॥२॥
युधिष्ठिर उवाच ॥ कृत एषा समुत्पन्ना दूर्वा कस्माच्चिरायुषा । कस्माच्च सा पविव्रा च लोकनाथ ब्रवीहि मे ॥३॥
श्रीकृष्ण उवाच ॥ क्षोरोदसागरे पूर्वं मथ्यमानेऽमृतार्थिना । विष्णुना बाहुजङ्रधाभ्यां यद्धृतो मन्दरो गिरिः ॥४॥
भ्रमितो वै सवेगेन रोमाण्युद्धर्षितानि वै । तान्येतानि जलोर्मीभिरुत्क्षिप्तानि तदर्णवात् ॥५॥
अजायत शुभा दूर्वा रम्या हस्तिशाद्वाला । एवमेषा समुत्पन्ना दूर्वा विभुतनूरुहा ॥६॥
तस्याश्वोपरि विन्यस्तं मथितामृतमुत्तमम् । देवदानवगन्धर्वैर्यक्षविद्याधरैस्तथा ॥७॥
तव्राप्यमृतकुम्भस्य पेतुर्निष्यन्दबिन्दवः । तैरियं स्पृष्टमाव्राभूद्दूर्वा रस्याऽजराऽमरा ॥८॥
वन्द्या पविव्रा देवैस्तु वन्दिताभ्यर्विता पुरा । अष्टभ्यां फलपुष्पैस्तु खर्जूरैर्नालिकेरकैः ॥९॥
द्राक्षाक्षोटकपित्थैश्व बर्बरैर्लकुचैस्तथा । नारिङ्गैर्जम्बुकैरास्त्रैबर्जिपूरैश्व दाडिमैः ॥१०॥
दध्यक्षतैः सुपुष्पैश्व धूपनैवेद्यदीपकैः । मन्व्रेणानेन राजेन्द्र शृणुष्वावहितेन च ॥११॥
त्वं दूर्वेऽमृतजन्मासि वन्दिता च सुरासुरैः । सौभाग्यं संततिं कृत्वा सर्वकार्यकरी भव ॥१२॥
यथा शाखाप्रशाखाभिर्विस्तृतासि महीतले । तथा ममापि संतानं देहि त्वमजरामरे ॥१३॥
एवमेषां तरा पार्य पूजिता व्रिदशोत्तमैः । तेषां पत्नीवधूभिश्व भगिनीमिस्तथैव च ॥१४॥
पूजिताभ्यर्हिता वाचा गौर्या राजञ्छ्रिया तथा । तर्त्यलोके वेदवत्या दमयन्त्यापि सीतया ॥१५॥
सुकेश्या च घृताच्या च रम्भया च सुकेशया । सहन्याकामकन्दन्यामेनकोर्वशिकादिभिः ॥१६॥
स्त्रीभिरेवार्चिता दूर्वा सौभ्याग्यसुखदायिनी । स्त्राताभिः शुचिवस्त्राभिः सखीभिः ससुह्रज्जनैः ॥१७॥
दत्त्वा दानानि विप्रेभ्यः फलं दत्त्वार्चयेत्प्रभोः । तिलपिष्ठकगोधूमसप्तधान्यानि पाण्डव ॥१८॥
भक्षयित्वा सुहृन्मिव्रसंबन्धिस्वजनैस्तथा । या नार्यो विचरिष्यन्ति व्रतमेतत्पुरातनम् ॥१९॥
दूर्वाष्टमीति विख्यातं पुण्यं संतानकारकम् । ताः सर्वाः सुखसौभाग्यपुव्रपौव्रादिभिस्तथा ॥२०॥
मर्त्ये लोके चिरं स्थित्वा ततः स्वर्गं गताः पुनः । देवैरानन्दितास्तव्र भर्तृभिः सह बान्धवै ॥२१॥
वसन्ति रममाणास्ता यावदाभूतसंप्लवम् ॥२२॥
मेघावृतेऽम्बरतले लरिते वनान्ते या साष्टमी शुभफला सफला नभस्ये । दूर्वाफलाक्षततिलैः प्रतिपूज्य योषिद्दूर्वेव वृद्धिमुपयाति सुतैः सुह्रद्भिः ॥२३॥ [ २२९४ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे दूर्वाष्टमीव्रतवर्णनं नाम षट्पञ्चाशत्तमोऽध्यायः ॥५६॥