युधिष्ठिर उवाच ॥
भगवन्ब्रूहि मे सम्यगरण्यद्वादशीव्रतम् । सप्राशनं सोपवासं सरहस्यं समन्व्रकम् ॥१॥
श्रीकृष्ण उवाच ॥ कौन्तेय यत्पुरा चीर्णं सीतया बनसंस्थया । व्रतं राघववाक्येन प्रशस्नं दोषवर्जितम् ॥२॥
लोपामुद्रालये साध्व्यो मुनिपत्न्यो बहुप्रजाः। भोजितास्तर्पिताः सर्वैराहारैः सर्वकामिकैः ॥३॥
पद्मिनीपव्रविस्तीर्णे सोपदशैर्यथा नवैः । भक्ष्यैर्भोज्यैस्तथा लेह्यैश्वोष्यैश्वापि यद्दच्छया ॥४॥
तामिहैकमनाः पार्थ शृणुष्वारण्यद्वादशीम् । मार्गशीर्षेसिते पक्षे एकादश्यां दिनोदये ॥५॥
स्नात्वा नरः सोपव्रासः कृत्वा पूजां जनार्दने । गन्धपुष्पाक्षतैर्धूपैर्दीपैर्जागरणैर्निशाम् ॥६॥
नीत्वा प्रभाते गत्वा च वने वेदाङ्गपारगान् । भोजयित्वा फलप्रायं स्वयं भुञ्जीत वाग्यतः ॥७॥
पञ्चगव्यं प्राशयित्वा पूर्वमेव्राथ तद्दिनोवर्षमेकं शुभं पूर्णं पारयित्वा युधिष्ठिर ॥८॥
आवणे कार्तिके माघे चैव्रे वाय समर्चिते । सोपदंशैः पव्रशाकैस्तिलशष्कुलिकादिभिः ॥९॥
अपूपैः खण्डवेष्टैश्व मरीचैः सिंहकेसरैः । धूलीमुखैरमृतफलैः स्वादुकोकरसैः शुभैः ॥१०॥
शीतलैस्तर्पयेद्विद्वानर्कपुष्पैः सुमालकैः । दधिक्षीराज्यपाणिज्यैश्वातुर्जातकरञ्जितैः ॥११॥
कर्पूरनखविद्धैश्व मधुरैः पनसोत्तमैः । बहुवृक्षवनं गत्वा सुस्वादुसलिल शिवम् ॥१२॥
सुखासनोपविष्टांश्व प्रागुदङमुखवच्छुचीन् । भोजयेद्दश च द्वौ वा मुतीनारण्यवासिनः ॥१३॥
एकदण्डींखिरण्डींश्व गृहस्थांश्वापि सुव्रतान् । ब्राह्मण्यो विविधाः सप्त एकपत्न्यह पतिव्रताः ॥१४॥
चार्वङ्ग्यश्वार्चिताः स्नाताः सर्वावयवशोभनाः । सुवस्त्राः कुंकुमाक्ताङ्गाः सुगन्धकुसुमाञ्चिताः ॥१५॥
अङ्गैधा भोजनीयास्ताश्वादित्यस्य देवताः । वासुदेवजनादनदामोदरमधुसूदनाः ॥१६॥
पद्मनाभकृष्णविष्णुगोवर्द्धनव्रिविक्रमाः । श्रीधरश्व ह्रषीकेशः पुण्डरीकाक्ष आदिवाराहाः ॥१७॥
एभिर्द्वादशभिर्मन्व्रैर्नमस्कारान्तयोजितैः । गन्धचन्दनसंवस्त्र धूपं दत्त्वा पृथक्पृथक ॥१८॥
भोजयित्वा शुभान्नानि दद्यात्ताभ्यः सुदक्षिणाम् । प्रणम्य प्रार्थयेद्भक्त्या विष्णुर्मे प्रीयतामिति ॥१९॥
ततो भुञ्जीत सहितं भृत्यैः पोष्यजनेन च । आगताभ्यागतैर्लोकैः सुह्रत्संबन्धिबन्धुभिः ॥२०॥
एवं कौन्तेय कुरुते योऽरण्यद्वादशीं नरः । स देहान्ते विमानस्थो दिव्यकन्यासमावृतः ॥२१॥
याति ज्ञातिसमायुक्तः श्वेतद्वीपं हरेः । पुरम् । यव्र लोकाः पीतवस्त्राः श्यामदेहाश्वतुर्भुजाः ॥२२॥
शङ्खचक्रगदापद्मचारुहस्ताः सकौस्तुभाः । गरुडासनाः साभरणा मुकुटो कटकुण्डलाः ॥२३॥
नीलोत्पलोद्दामपद्ममालयालङ्कृतोरसः लक्ष्मीधरा मेघवर्णाः कू रिङ्गदभूषणाः ॥२४॥
तिष्ठन्ति विष्णुसामीप्ये यावदाभूतसंप्लवम् । तस्मादेत्य महातेजाः पृथिव्यां नृपपूजिताः ॥२५॥
मर्त्यलोके कीर्तिमन्तः संभवन्ति नरोत्तमाः । ततो यान्ति परं स्थानं मोक्षप्रार्गं शिवं शुभम् ॥२६॥
यव्र गत्वा न शोचन्ति न संसारे भ्रमन्ति च ॥२७॥
द्वादशीमुपवसन्ति सित मरण्य़नान्मीं वने द्विजवरानथ भोजयन्ति । साध्व्यः स्त्रियः सुचरिताभरणाश्व तेथां विष्णुः प्रसादमुपयाति ददाति मोक्षम् ॥२८॥ [ २६७७ ]
इति श्रीभविष्ये महापुराण उनरपर्वणि श्रीकृष्णयुधिष्ठिर संवादेऽरण्यद्वादशीव्रतं नाम षटषष्टितमोऽध्यायः ॥६६॥