श्रीकृष्ण उवाच ॥
भूमिदानमतो वक्ष्ये सर्वपापप्रणाशनम् । यः प्रयच्छति विप्राय भूमिदानं सदक्षिणीम् ॥१॥
श्रोत्रियाय दरिद्राय अग्निहोत्ररताय च । स सर्वकामतृप्तात्मा सर्वरत्नैर्विभूषितः ॥२॥
सर्वपापविनिर्मुक्तो दीप्यमानो रविर्यथा । बालसूर्यप्रभो वासैर्वादित्रध्वजशोभितैः ॥३॥
विमानैर्भास्वरैर्दिव्यैर्विष्णुलोकं स गच्छति । तत्र दिव्यांगनाभिश्व सेव्यमानो यथासुखम् ॥४॥
कामगः कामरुपी च क्रीडत्यानंत्यमक्षयम् । यावद्धारयते लोकान्भूरंकुरसमुद्धवा ॥५॥
तावद्धूमिप्रदः कामंविष्णुलोके महीयते । न हि भूमिप्रदानाद्वै दानमन्यद्विशिष्यते ॥६॥
दिशा दशानुगृह्रंति हर्ता ता दश हांति च । दानान्यन्यानि क्षीयंते कालेन पुरुषर्षभ ॥७॥
भूमिप्रदानपुण्यस्य क्षयो नैवोपपद्यते । सर्वपापानि क्षीयंते कालयोगक्रमेण तु ॥८॥
भूमिहर्तुश्व राजेंद्र दुःखस्वांतो न विद्यते । ब्राह्मणाय सुशीलाय भूमिं दत्त्वा तु यो नरः ॥९॥
न हि तामुपजीवेद्यः समहत्पुण्यमाप्नुयात् । हलकृष्टां मर्हीकृत्वा सबीजां सस्यमालिनीम् ॥१०॥
यावत्सूर्यकृतालोकस्तावत्स्वर्गे महीयते । धनं धान्यं हिरण्य़ं च रत्नान्याभरणानि च ॥११॥
सर्वदानानि राजेंद्र ददाति वसुधां ददत् । सागरान्सरितः शैलान्समानि विषमाणि च ॥१२॥
सर्वगंधरसान्स्त्रेहान्ददाति वसुधां ददत् ॥१३॥
ओषधी क्षीरसंपन्ना नानापुष्पफलोपगाः । कमलोत्पलखंडांश्व ददाति वसुधां ददत् ॥१४॥
अग्निष्टोदिभिर्यज्ञैर्ये यजंति सदक्षिणैः । प्राप्नुवंति च तत्पुण्यं भूमिदानाद्यदाप्यते ॥१५॥
श्रोत्रियाय महीं दत्त्वा ये हरंति न मानवाः । तावसेषां भवेत्स्वर्गो यावल्लोकाः प्रतिष्ठिताः ॥१६॥
सस्यपूर्णा महीं यस्तु श्रोत्रियाय प्रयच्छति । पितरस्तस्य तुष्यंति यावदाभूतसंप्लवम् ॥१७॥
यक्तिंचित्कुरुते पापं पुरुषो वृत्तिकर्शितः । अपि गोचर्ममात्रेण भूमिदानेन शुव्यति ॥१८॥
सुवर्णानां सहस्त्रेण यत्पुण्यं समुद्राहृतम् । भूमिगोचर्ममात्रेण तत्फलं प्राप्नुयान्नरः ॥१९॥
कपिलानां सहस्त्रेभ्यो यद्दतेऽन्नं नरोत्तम । भूमिगोचर्ममात्रेण तत्फलं लभते नरः ॥२०॥
मध्यमस्य मनुष्यस्य व्यासेन परिसंख्यया । त्रिंशद्दंडांश्व गोचर्म दता स्वर्गे महीयते ॥२१॥
बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥२२॥
किंकरा मृत्युदंडाश्व असिप्त्रवनादयः । घोराश्व वारुणाः पाशा नोपसर्पति भूमिदम् ॥२३॥
निरया रौरवाद्याश्व कुंभीपाकः सुदुःसहः । तथा च यातनाः कष्टा नोपसर्पति भूमि दम् ॥२४॥
चित्रगुप्तश्व कालश्व कृतांतो मृत्युरेव च । यमश्वापि स्वयं राजा संपूजयति भूमिदम् ॥२५॥
रुद्रः प्रजापति शक्रो देवा सुरमणास्तथा । अहं च परमप्रीत्या पूजयामिह भूमिदम् ॥२६॥
शट् कर्मकृत्सुवृत्तय कृशाय च प्रियर्थिने । भूर्मिर्देया नरव्याघ्र सन्निधिश्वाक्षयो भवेत् ॥२७॥
सदिमानकुटुंबाय श्रोत्रियायाहिताग्रये । वृत्तस्थाय दरिद्राय भूमिर्देया नरेश्वर ॥२८॥
यथा जनित्री क्षीरेण पुत्रं संवर्द्धयेत्सद । यथा भूमिप्रदं भूमिः सर्वकामैस्तु तर्पति ॥२९॥
यथागौर्भरते वत्सं क्षीरेण क्षीरमुत्सृजेत् । तथा सर्वरसोपेता भूमिर्भरति भूमिदम् ॥३०॥
यथा बीजानि रोहंति जलसिक्तानि भूतले । तथा कामाः प्ररोहंति भूमिदाय दिने दिने ॥३१॥
यथोदयन्सहस्त्रांशुस्तमः सर्व व्यपोहति । तथा भूमिप्रदानं तु सर्वपापं त्यपोहति ॥३२॥
परदत्तां तु यो भूमिमुपहिंसेत्कदाचन। स बद्धो वारुणैः पाशैः क्षिप्यते पूयशोणिते ॥३३॥
वदत्तां परदत्तां वा यो हरेत वसुंधराम् । स नरो नरके घोरे क्लिश्यत्याप्रलयांतिकम् ॥३४॥
रुदतां वृत्तिनाशेन ये पतंत्यश्रुबिंदवाः । तावर्व्दर्षसहस्त्राणि नरके पच्यते सु सः ॥३५॥
ब्राह्मणानां हृते क्षेत्रे हर्तुस्त्रिपुरुषं कुलम् । दत्त्वा भूमिं तु विप्राय उपहिंसेद्यदा पुनः । अधोमुखश्व दुष्टात्मा कुंभीपाके स पच्यते ॥३६॥
दिव्यवर्षसहस्त्रांते कुंभिपाकाद्विनिःसृतः इहलोके भवेच्छात्वै सप्तजन्मानि पार्थिव ॥३७॥
स्वद्त्तां परदत्तां वा यत्नाद्रक्षेद्युधिष्ठिर । महीं महीमृतां श्रेष्ठ दानाच्छ्रेयोऽनुपालनम ॥३८॥
तोयहीनेप्वरण्येषु शुष्क्रकोटरवासिनः । कृष्णाहयो भिजायंते नरा ब्रह्मस्वहारिणः ॥३९॥
एवं दत्त्वा महीं राजन्प्रहृष्टनांतत्मना । सर्वान्कामानवाप्नोति मनसा चिंतितान्नरः ॥४०॥
भूमिद नात्परं नास्ति सुखं वामुष्मिकं महत् । न चापि भूमिहरणादन्यत्पातकमुच्यते ॥४१॥
यच्छंति ये द्विजवराय महीं सुकृष्टां ते यांति शब सदां मुदिशुद्धदेहाः । ये लोपयंत्यतिबलादथका लोभात्ते रौरवातिगहनान्न समत्तरंति ॥४२॥ [ ७१७१ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसवादे भूमिदानमहात्म्यवर्णनं चतुःषष्ट्यत्तरशततमोऽध्यायः ॥१६४॥