युधिष्ठिर उवाच ॥
सर्वशास्त्रार्थतत्त्वज्ञ ज्ञानविज्ञानपारग ॥ गृहदानस्य माहात्म्यं विधिं वद विदांवर ॥१॥
श्रीकृष्ण उवाच ॥
न गार्हस्थ्यात्परो धर्मो नास्ति दानं गृहात्परम् । नानृतादधिकं पापं न पूज्यो ब्राह्मणात्परः ॥२॥
धनधान्यसमायुक्तं कलत्रापत्यसंकुलम् ॥३॥
गोगजाश्वगणाकीर्ण गृहं स्वर्गाद्विशिष्यते । यथा मातरमाश्रित्य सर्वे जीवंति जंतवः ॥४॥
एवं गृहस्थमाश्रित्य वर्तयंतीतराश्रमाः । धर्मश्वार्थश्व कामश्व मित्राणि प्रथितं यशः ॥५॥
प्राप्तुकामैर्नरैः पार्थ सदा सेव्यो गृहाश्रमः । न गृहेण विना धर्मा नार्थकामौ सुखं न च ॥६॥
लोकपंक्तिर्न यशः प्राप्यते त्रिदशैरपि । न तत्स्वर्गे नापवर्गे न तत्केनोषमीयते ॥७॥
प्रसार्य पादौ यद्राव्रौ स्वगृहे स्वपतां सुखम् । दिनामि नास्य गण्यंते नैनमाहुर्महाशनम् ॥८॥
अपि शाकंपचानस्य स्वगृहे परमं सुखम् । इति मत्वा महाराज कारयित्वा सुशोभनम् ॥९॥
भवनं ब्राह्मणे देयं भव्यभूतिभीप्सता । कारयित्वा दृढतंभं शुभपक्कैष्टकामयम् ॥१०॥
शुभं कमठपृष्ठाभं भाभासितदिगंतरम् । सुधानुलिप्तं गुप्तं च सुखशःलाबिराजितम् ॥११॥
दद्यादनंतफलदं शैववैष्णवयोगिनाम् । प्रतिश्रये तु विस्तीर्णे कारिते सजले घने ॥१२॥
दीनानाथजलार्थाय कृतं किं न कृतं भवेत् । कारयित्वां गृहान्पश्वदृत्विग्रद्रार्कसंखया ॥१३॥
कुडयस्तंभगवाक्षाद्यान्विचित्राहुभूमिकान् । सवाकारप्रतोलीकान्कपाटार्गलयंत्रितात् ॥१४॥
सुधाधवलितान्रत्यन्विस्तीर्णगणवटिकान् । प्रवेशनिर्गमयुतान् मासन्नजलाशयान् ॥१५॥
लोहोपस्कर संपूर्णस्ताम्रोपरकरसंयुतान् । स्वर्णोपस्करशोभाढ्यन्त्रौप्योपस्करसंकुलान् ॥१६॥
रत्नोपस्करसंयुक्तान्कांस्योपस्करमंडितान् । आरकूटत्रपुसीसदानोपस्करवर्जितान् ॥१७॥
वंशोपस्करसंकीर्णान्काष्ठोपस्करबूं हितान् । मृन्मयोपस्कराकीर्णन्वत्रोपकरणान्वितान् ॥१८॥
धर्मोपस्करसंभारशणवल्कलराजितान् । राजितांरतृणपाषाणैः सर्वोपस्करभूषितान् ॥१९॥
सप्तधातुमयं भांडं यत्तद्रत्नसमुद्धवम् । चर्मकाष्टमहाभांडं नववस्तुमयं तथा ॥२०॥
गामहिष्यश्ववृषभप्रेष्यवेश्यागणान्वितान् । क्षेत्रारामजलासत्रान्काम्याहर्म्यवराञ्छुभान् ॥२१॥
संपूर्णान्सर्वधान्येस्तुघृततैलगुडदिभिः । तिलतंदुलशालीक्षुमुद्नगोधूमसर्षपैः ॥२२॥
निष्पावाढक्यचणककुलत्थाणुमसूरकैः । कंगुमाषयत्राद्याढ्याञ्छाकवृंताकपूरितान् ॥२३॥
लवणार्द्रकखर्जूरद्राक्षाजीरकाधान्यकैः । हिंगुकुंकमकर्पूरस्त्रानद्रव्यैः सचंदनैः ॥२४॥
धूपोपस्करपर्यप्तगण्डोपधानकैः । चौल्लीच्छेद्तम्थानभद्रासनकगुच्छकैः ॥२५॥
पिठोलूखस्थालीशूर्पदर्पणपत्रकैः । मुशलाशिकृपाणोषुदंडकोदंडमुद्धरैः ॥२६॥
गृहाटवाटका दर्वी दृषल्लोष्टहस्तकैः चात्रकांशुकलोहादिदीप्तमंथनिकादिभिः ॥२७॥
कंडणीपेषणीचुल्लीउदकुभीप्रमार्जनी । मंजूषाकोष्ठकासंदीकं बलैस्तंतुरांकवैः ॥२८॥
इत्येवामादेइभिः पूर्णान्गृहान्दद्यादिद्विजातिषु । कर्तृश्वंद्नबलोपेते स्थिरनक्षत्रसं युते ॥२९॥
शुभेऽह्री विप्रकथिते दानकालः प्रशस्यते । एवं संभतसंभारो यजमानः स्वयं द्वितान ॥३०॥
कुलरीलसमायुक्तान्गृहसंख्यान्निमंत्रयेत् । अधीतवेदाञ्छास्त्रज्ञान्पुरानस्मृति पारमान् ॥३१॥
गृहस्थधर्मनिरताञ्छांतान्दांताञ्जितेंद्रियान् । अलंकृत्य सपत्नीकात्वारतोभिरथ पूजयेत् ॥३२॥
सुगंधिस्त्रग्ध्रा कृत्वा शांतिकर्मणि योजयेत् । गृहांगणे कारयित्वा कुंडेमेक समेखलम् ॥३३॥
ग्रहयज्ञः प्रकर्त्व्यस्तुष्टिपुष्टिकरः सदा । राक्षोघ्नानि च सूक्तानि पठेयुर्ब्राह्मणास्ततः ॥३४॥
प्रवेशयित्वा प्रकर्तव्या दिक्षु भूतबलिं क्षिपेत् । ततः पुण्याहवोषेण ब्राह्मणांस्तेषु वेश्मसु ॥३५॥
प्रवेशयित्वा शय्यासु सभार्यानुपवेशयेत् । यजमानस्ततः प्राज्ञ शुल्कांबरधरः शुचि ॥३६॥
यद्यस्य विहितं पूर्व तत्तस्य प्रतिपादयेत् । इदं गृह गृहाण त्वं सर्वोपस्करसंयुतम् ॥३७॥
तव विप्रप्रसादने ममास्त्वभिमतं फलम् । पवनेकैकशोदत्त्वा प्रणिपत्य क्षमापयेत् ॥३८॥
स्वस्तीति ब्राह्मणैर्वाध्यं कोदादिति च पूजितैः । गृहोपकरणैस्तुल्या दक्षिणा भवनं विना ॥३९॥
उपदेष्टारमापृच्छेत्तन्मूलत्वान्महद्धंय़ । स्वयं तान्पूजयित्वा तु ततः स्वभवनं व्रजेत् ॥४०॥
दद्यादनेन विधिना गृहमेकं बहूनपि । न संख्यानियमः कार्यः शक्तिरत्र नियामिका ॥४१॥
शीतवातातपहरं दत्त्वा शीतवातातपहरं दत्त्वा तृणकुटीरकम् । इष्टान्कामानवाप्नोति प्रेत्य स्वर्गे महीयते ॥४२॥
किंपुनर्बहुनोक्तेन सर्वोपस्करभूषिताम् । अत्यंतसुखलुब्धेन दत्वा ब्रह्मपुरीं प्रियाम् ॥४३॥
गोभूहिरण्यदानानि यमाः सनयमास्तथा । गृहदानस्य कौंतेय कलां नार्हति षोडशीम ॥४४॥
यः कारयेत्सुदृढर्म्यवतीं महार्हां सत्सेवितां द्वैजपुरीं सुजनोपभोग्याम् । दिव्याप्सरोभिरभिनदित चित्तवृत्तिः प्राप्नोत्यसावनवमं पदमिंदुमौलेः ॥४५॥ [ ७३१६ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे गृहदानविधिवर्णनं नामाष्टषष्टत्तरशततमोऽध्यायः ॥१६८॥