श्रीकृष्ण उवाच ॥
ब्रह्मपुव्रो महातेजा अव्रिर्नाम महानृषिः । तस्य पत्नी महाभाग अनसूया पतिव्रता ॥१॥
तयोः कालेन महता जातः पुव्रो महातपाः । दत्तो नाम महायोगी विष्णोरंशो महीतले ॥२॥
द्वितीयो नाम लोकेस्मिन्ननघश्वेति विश्रुतः । तस्य भार्यानदी नाम बभूव सहचारिणी ॥३॥
अष्टपुव्रा जीववत्सा सर्व ब्राह्मगुणैर्वृता । अनयोर्विष्णुरूपेण लक्ष्मीश्वैवानदी स्मृता ॥४॥
एवं तस्य सभार्यस्य योगाभ्यासरतस्य वा । आजग्मुः शरणं देवाः शुम्भदैत्येन पीडिताः ॥५॥
ब्रह्मलब्धप्रसादेन द्रुतं गत्वामरावतीम् । संरुद्धा जम्मदैत्येन दिव्यवर्षशतं नृप ॥६॥
दैत्यदानवसंयोगे पातालादेत्य भारत । तस्य सैन्यमसङ्खन्येयं दैत्यदानवराक्षसैः ॥७॥
तेन निर्णाशिता देवाः सेन्द्रचन्द्रमरुन्दणाः । त्याजिताः स्वानि धिष्ण्यानि त्यक्त्वा जग्मुर्दिशो दश ॥८॥
अग्रतः प्रलयं यान्तः सेन्द्रा देवा भयार्दिताः । पृष्ठतोऽनुव्रजन्ति स्म दैत्या जम्मपुरःसराः ॥९॥
युध्यन्तः शरसङ्घातैर्गदामुशलमुद्नरैः । नर्दन्तो वृषभारूढाः केचिन्महिषवाहनाः ॥१०॥
शरभैर्गण्डकैर्व्याघ्रैर्वानरै रमसैर्द्रुताः । मुञ्चन्तो यान्ति पाषाणाञ्छतन्घीस्तोमराञ्छरान् ॥११॥
यावद्विन्ध्यगिरिं प्राप्तास्तत्तस्याश्रममण्डळम् । अनघश्वानदी चैव दम्पत्यं यव्र तिष्ठति ॥१२॥
तयोः समीपं संप्राप्तास्ते नराः शरणार्थिनः । अनघोऽपि च तान्देवाँल्लीलयैव सवासवान् ॥१३॥
अभ्यन्तरे प्रविश्याथ तिष्ठध्वं विगतज्वराः । तथेति नाम ते कृत्वा सर्वे तुष्टिं समास्थिताः ॥१४॥
दैत्या अपि द्रुतं प्राप्ता न्घन्तः प्रहरणैररीन् । इत्यूचुरुल्बणा घोरान्गृह्लीध्वं ब्राह्मणीं मुनेः ॥१५॥
द्रुतं द्रुमानाक्षिप्यध्वं पुष्पोपगफलोपगान् । अथारोप्यानघं मूर्न्घि दैत्या जग्मुस्तदाश्रमान् ॥१६॥
तत्क्षणाच्चापि दैत्यानां श्रीर्वंभूव शिरोगता । द्त्तकेनापि ते द्दष्टा नष्टा ध्यानाग्निना क्षणात् ॥१७॥
निस्तेजसो बभूबुर्हि निःश्रीका मदपीडिताः । देवैरपि गृहीतास्ते दैत्याश्व हरणे रणे ॥१८॥
रुदन्तो निस्तनन्तश्व निश्वेष्टा ब्रह्मकण्टकाः । ऋष्टिभिः करणैः शूलैस्त्रिशूलैः परिघैर्घनैः ॥१९॥
एवं ते प्रलये जग्मुस्तत्प्रभावान्मुनेस्तदा । असुरा देवशस्त्रौघैजिंता इन्द्रेण घातिताः ॥२०॥
देवा अपि स्वराष्ट्रेषु तस्थुः सर्वे यथा पुरा । सुरैरपि मुनेस्तस्य देव्रर्षैर्महिमाऽभवत् ॥२१॥
ततः स सर्वलोकानां भवाय सततोत्थितः । कर्मणा मनसा वाचा शुभान्येव समाचरत् ॥२२॥
काष्ठकुडन्यशिलाभूत ऊर्ध्वबाहुर्महातपाः । ब्रह्मोत्तरं नाम तपस्तेपे सुनियतव्रतः ॥२३॥
नेव्रे ह्यनिमिषे कृत्वा भ्रुवोर्मध्ये विलोकयन् । व्रीणि वर्षसहस्त्राणि दिव्यानीति हि नः श्रुतम् ॥२४॥
तथोर्ध्वरेतस्तस्य स्थितस्यानिमिषस्य हि । योगाभ्यासप्रयत्नस्य माहिष्मत्याः पतिः प्रभुः ॥२५॥
एकाहाद्द्रुतमभ्येत्य कार्तवीर्योऽर्जुनो नृप । शुश्रूषाविनयं चक्रे दिवाराव्रमतन्द्रितः ॥२६॥
गाव्रसंवाहनं पूजां मनसा चिन्तितं तथा । संपूर्णे नियमे वृत्ते द्दढतुष्टन्या समन्वितः ॥२७॥
तस्मै ददौ वरान्पुष्टांश्वतुरो भूरिते जसः । पूर्वं बाहुसहस्त्र तु स वव्रे प्रथमं वरम् ॥२८॥
अधर्माभिहतस्यास्य सद्भिस्तस्मान्निवारणम् । धर्मेण पृथिवीं जित्वा घर्मेणैवानुपालनम् ॥२९॥
संग्रामान्सुबहूञ्जित्वा हत्वा वीरान्सहस्त्रशाः । सग्रामे युध्यमानस्य वधो मे स्याद्धरेः करात् ॥३०॥
मुनिना तेन लेकेऽस्मिन्दत्तं राज्यं महीतले । कार्तवीर्यस्य कौन्तेय योगाभ्यासं सविस्तरम् ॥३१॥
चक्रवर्तिपदं चैव अष्टसिद्धिसमन्वितम् । तेनापि पृथिवी कृत्स्त्र सप्तद्वीपा सपर्वता ॥३२॥
ससमुद्राकरवती धर्मेण विधिना जिता । तस्य बाहुसहस्त्रं तु प्रभावात्किल धीमतः ॥३३॥
यागाद्रथो ध्वजश्वैव प्रादुर्भवति मायया । दशयज्ञसहस्त्राणि तेषु द्वीपषु सप्तसु ॥३४॥
निरर्गलानि वृत्तानि स्वयं ते तस्य पाण्डव । सर्वे यज्ञा महाबाहो प्रसन्ना भुरिदक्षिणाः ॥३५॥
सर्वे काञ्चनवेदिक्याः सर्वे यूपैश्व काञ्चनैः । सर्वदेवैर्महाभागैर्विमानस्थैरलङ्कृताः ॥३६॥
गन्धर्वैरप्सरोभिश्व नित्यमेवोपशोभिताः । तस्य यज्ञे जगुर्गाथां गन्धर्वा नारदस्तथा ॥३७॥
चरित राजसिंहस्य महिमान निरीक्ष्यसे । तन्नून कार्तवीर्यस्य । गर्ति यास्यसि पार्थिव ॥३८॥
यज्ञैर्दानैस्तपोभिर्वा विक्रमेण श्रुतेन च । द्वीपेषु सप्तसु स वै खड्गचर्मशरासनी ॥३९॥
व्यचरच्छन्येनवद्यो वै दूरादारादपश्यत । अनष्टद्रव्यता चास्य न शोको न च वै क्लमः ॥४०॥
प्रभावेन महीराजः प्रजा धर्मेण रक्ष्य च । पञ्चाशीतिसहस्त्राणि वर्षाणां वै नराधिप ॥४१॥
समुद्रवसनायां स चक्रवर्ती बभूव ह । स एव पशुपालोऽभूत्क्षेव्रपालः स एव च ॥४२॥
स एव वृष्टन्यां पर्जन्यो योगित्वादर्जुजोऽभवत् । स वै बाहुसहस्त्रेण ज्याघानकठिनत्वचा ॥४३॥
वाति रश्मिसहस्त्रेण क्षोभ्यमाणे महोदधौ । स हि नागमनुष्यैस्तु माहिष्मत्यां महद्युतिः ॥४४॥
कर्कोटाहेः सुताञ्जित्वा पुरि तव्र न्यवेशयेत् । स वै पत्नीं समुद्रस्य प्रावृट्कालेम्बुजेक्षणाम् ॥४५॥
क्रीडते मदोन्मत्तः प्रतिखोतश्वकार ह । ललिता क्रीडता तेन फलनिष्पन्दमालिनीम् ॥४६॥
ऊर्मीभ्रुकुटिमत्येव शङ्कितास्योति नर्मदा । तस्य बाहुसहखेण क्षोभ्यमाणे महोदधौ ॥४७॥
भवन्त्यालीननिश्वेष्टाः पातालस्था महासुराः । तूष्णीं कृता महाभाग लीनहीनमहामतिः ॥४८॥
चकाराडोलयत्ता दोःसहखेण ससागरम् । क्रान्ता निश्वलमूर्द्धानो बभूवुश्व महोरगाः ॥४९॥
सायाह्रे कदलीखण्डान्निधास्यन्ति हता इव । सर्वे विद्या धनुर्जाताः सुतिक्तं पञ्चभिः शरैः ॥५०॥
लङ्काधिपं मोहयित्वा सबलं रावणं बलात् । निर्जित्य वशमानीय माहिष्मत्यां बबन्धच ॥५१॥
ततोऽभ्येत्य पुलस्त्यस्तु अर्जुनं संप्रसादयन् । मुमोच रक्षः पौलस्त्यं पुलस्त्येनानुगामिना ॥५२॥
तस्य बाहुसहखस्य बभुव ज्यातलस्वनः । क्षुधितेन कदाचित्स प्रार्थितश्विव्रभानुना ॥५३॥
सप्तद्वीपां चिव्रभानोः प्रादाद्भिक्षां महीमिमाम् । कुण्डेशयस्ततोऽद्यापि द्दश्यते भगवान्हरिः ॥५४॥
निम्बादित्यश्व प्रत्यक्षो जाग्रतस्तस्य वेश्मनि । बभूव दुहिताहेतोः शरदोऽद्यापि तिष्ठति ॥५५॥
स एवं गुणसंयुक्तो राजाऽभूदर्जुनो भुवि । अनघस्य प्रसादेन योगाचार्यस्य पाण्डव्र ॥५६॥
तेनेयं वरलधंन कार्तवीर्येण योगिना । प्रवर्तिता मर्त्यर्लोके प्रसिद्धा ह्यनघाष्टमी ॥५७॥
अघं पापं स्मृतं लोके तच्चापि व्रिविधं भवेत् । यस्मादघं नाशयति तेनासावनघा स्मृता ॥५८॥
तस्याष्टगुणमैश्वर्यं विनोदार्यं विभाव्यते । अणिमा महिमा प्राप्तिप्राकाम्ये महिमा तथा ॥५९॥
ईशित्वं च वशित्वं चसर्वकामावसायिता । इत्यष्टौ योगसिद्धस्य सिद्धयो मोक्षलक्षणाः ॥६०॥
समुत्पन्ना दत्तकस्य लोके प्रत्ययकारकाः । याव्रासमाप्तौ संगृह्य यदद्यानि तथैव वा ॥६१॥
जगत्समस्तमनघं कुर्यादस्मादतोऽनघा । मदशो मद्नतप्रातो लोकेस्मिन्वृत्तको द्विजः ॥६२॥
युधिष्ठिर उवाच ॥ ईद्दशं पुण्डरीकाक्ष स वै राजा स्वयं व्रतम् ॥६३॥
चक्रे वा व्रिषु लोकेषु कैर्मन्व्रैः समयैश्व कैः । कस्मिन्काले तिथौ कस्यामेतन्मे वद केशाव ॥६४॥
श्रीकृष्ण उवाच ॥ कृष्णाष्टभ्यां मार्गशीर्षे दाम्पत्यं दर्मनिर्मितम् । अनघं चानघांच्चैव बहुपुव्रैः समन्विताम् ॥६५॥
पुराकृती कृतं शान्तं भूमिभागे स्थितं शुभम् । स्त्रात्वैवमर्चयेत्पुष्पैः सुसुगन्धैर्युधिष्ठिर ॥६६॥
ऋग्वेदोक्तऋचा विप्रा विष्णुं ध्यात्वा ममांशजम् । अनघं वासुदेवेनानघां लक्ष्मीं व्रजां तनुम् ॥६७॥
प्रद्युन्मदिपुव्रवर्गे हरिवशे यशोदितम् ॥६८॥
" ॐ अतो देवा अवंतु नो यतो विष्णुर्विचक्रमे । पृथिव्याः सप्त धामभिः । इदं विष्णुर्विचक्रमे व्रेधा निदधे पदम् । समळ्हमस्य पांसुरे । व्रीणिपदा विचक्रमे विष्णुर्गोपा अदाभ्यः । अतो धर्माणि धारयत् । विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे । इन्द्रस्य युज्यः सखा । तद्विष्णोः षरम पदं सदा पश्यन्ति सूरय़ः । दिवीत्व चक्षुराततम् तद्विप्रासो विपन्यवो जागृवांसः समिंधते । विष्णोर्यत्परमं पदम् " । कालोद्भवैः फलैः कन्दैः शृङ्गारैर्बदरैः शुभैः । वित्तैश्व धान्यैः पुष्पैश्व गन्धधूपैः सदीपकैः ॥६९॥
यः पूजयेद्भक्तियुक्तः सर्वपापैः प्रमुच्यते । ततो द्विजाम्भोजयेच्च सुह्रत्संबन्धिबान्धवान् ॥७०॥
व्रतावसाने गृह्रीयात्कश्विदेको नरो व्रतम् । तेषां मध्ये द्दढाश्वक्रुरनघव्रतपारगाः ॥७१॥
इदं जीवनघाती चेत्सत्यं तु समयोषितम् । चर्षमेकं ततः स्वेच्छा इदं तवानघव्रतम् ॥७२॥
तव्रोपेक्षणकं कार्यं नटनर्तकगायकैः । प्रभाते तु नवभ्यां त तोयमध्ये विसर्जयेत् ॥७३॥
एवं व्रतं यः कुरुते वर्षे वर्षे च हर्षितः । भक्तियुक्तः श्रद्धया च सर्वपापैः प्रमुच्यते ॥७४॥
कुटुंम्ब वर्द्धते तेषां येषां विष्णुः प्रसीदति । आरोग्यं सप्तजन्प्रानि ततो यांति परां नग्निम् ॥७५॥
एतामघौघशमनामनघाष्टमीं च कौन्तेय संप्रति मया कथितां हिताय । कुर्तन्त्यनन्यमनसः स्वयशोभिवृद्धन्यै ऋद्धिं प्रयान्ति कृतवीर्यसुतानुरूपम् ॥७६॥ [ २४०१ ]
इति श्रीभविष्य महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादेअनघाष्टमीव्रतं नामाष्टपञ्चाशत्तमोऽध्यायः ॥५८॥